________________
• ज्ञान-जिज्ञासाप्राधान्यविचार: •
७११ पुरुषाऽभिभवः कश्चित्तस्यामपि हि हीयते । युक्तं तेनैतदधिकमुपरिष्टाद् भणिष्यते ।।२१।।
पुरुषेति। तस्यामपि हि = जिज्ञासायामपि हि सत्यां कश्चित् पुरुषाऽभिभवः प्रकृतेः हीयते = निवर्तते। न ह्येकान्तेनाऽक्षीणपापस्य विमलो भावः सम्भवति । तेनैतद् गोपेन्द्रोक्तं युक्तम् । तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ।। -- (यो.बि.१०२) इति । अत एव तस्योपदेशोऽपि सम्यक् न परिणमति । यथोक्तं पञ्चवस्तुके → गुरुकम्माणं जम्हा किलिट्ठचित्ताणं तस्स भावत्थो । नो परिणमेइ सम्म कुंकुमरागोव्व मलिणम्मि ।। विट्ठाण सूअरो जह उवएसेण वि न तीरए धरिउं । संसारसूअरो इय अविरत्तमणो अकज्जम्मि ।।
6 (पं.व.४२/४३) इति । प्रकृते → व्यवहारोऽपि गुणकृद् भावोपप्टम्भतो भवेत् । सर्वथा भावहीनस्तु स ज्ञेयो भववृद्धिकृत् ।। - (वै.क.ल.९/१०९८) इति वैराग्यकल्पलतावचनमप्यवश्यमवधेयम् ।
अथ 'जिज्ञासा = तत्त्वमार्गपरिज्ञानेच्छा' इति यदुक्तं तत्र तत्त्वमार्गपरिज्ञानेच्छयोः मध्ये कस्य प्राधान्यं वर्तते ? अत्रोच्यते, व्यवहारतो जिज्ञासायाः प्राधान्येऽपि निश्चयत ‘इप्यमाणस्यैव प्राधान्यं न त्विच्छायाः' इति न्यायेन तत्त्वमार्गपरिज्ञानस्यैव मोक्षाध्वनि प्राधान्यं विज्ञेयम् । तदुक्तं वेदान्तकल्पतरुपरिमले अपि→ इच्छेष्यमाणसमभिव्याहारे चेष्यमाणप्राधान्यं 'यजेत स्वर्गकाम'इत्यादौ क्लृप्तम् । अत एवेहाऽपीच्छाप्राधान्यं विहायेष्यमाणप्राधान्यमभ्युपगन्तुं युक्तम् - (वे.क.परि.पृष्ठ.५६) इति । तदुक्तं रामानुजेन अपि श्रीभाष्ये→ ज्ञातुमिच्छा = जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते - (श्रीभा.पृ.३१) इति यथातन्त्रमग्रेऽपि (भाग-५ पृ.१४००,१४७५) अनुसन्धेयमवधारणकुशलैः ।।१०/२०।।
एतदपि कथम् ? इत्याशङ्कायामाह- 'पुरुषेति । सत्यां जिज्ञासायामपि = योगमार्गविविदिषायां किं पुनरभ्यास इत्यपिशब्दार्थः, हिः = यस्मात् कश्चित् = अनिर्धारितरूपः पुरुषाभिभवः सर्गविशेषः प्रकृतेः = अव्यक्तापराभिधानाया निवर्तते इति ज्ञेयमिति शेषः। एतदपि कुतः? इत्याह न हि = नैव एकान्तेन = सर्वथा अक्षीणपापस्य = अव्यावृत्तकल्मपस्य विमलः = मुक्तिमार्गानुसारी → कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुस्सास-नीसासा दुरुयमुत्तपुरिसपूयवहुपडिपुन्ना उच्चार-पासवण-खेल-जल्लसिंघाणग-वंत-पित्त-सुक्क-सोणितसंभवा अधुवा अणितिया असासया सडण-पडण-विद्धंसणधम्मा पच्छं पुरं च अवस्स विप्पजहणिज्जा - (ज्ञाता.१/पृ.४९) इति ज्ञाताधर्मकथाङ्गादिदर्शितरूप: भावः = शुभपरिणाम-प्रशस्ताध्यवसायादिलक्षणः दुःखाऽमिश्रिताऽक्षय
ગાથાર્થ :- ખરેખર તત્ત્વજિજ્ઞાસા થાય તો પણ પુરુષનો અભિભવ કરવાનો અધિકાર પાછો ફરવા માંડે. માટે ગોપેન્દ્રની વાત યુક્તિસંગત છે. આ બાબતમાં અધિક વક્તવ્ય આગળ કહેવાશે.(૧૦/૨૧)
ટીકાર્થ :- ખરેખર યોગમાર્ગની જિજ્ઞાસા પણ આવે તો પુરુષનો પરાભવ કરવાનો કર્મપ્રકૃતિગત અધિકાર પાછો ફરવા માંડેલ છે” એમ સમજવું. કારણ કે સર્વથા = કોઈ પણ પ્રકારે પાપનો ક્ષય ન થયો હોય તો જીવમાં નિર્મળ ભાવ સંભવતા જ નથી. માટે ૧૯ મી ગાથામાં ગોપેન્દ્રાચાર્ય દ્વારા જે વાત કહેવાયેલ છે તે ખરેખર યુક્તિસંગત છે. પરંતુ “આત્માને અપરિણામી માનવામાં આવે તો १. मुद्रितप्रतौ 'प्रकृते' इति अशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org