________________
७०६
• कारणतावैविध्यद्योतनम् • द्वात्रिंशिका-१०/१७ __अत एव सहकारियोग्यताऽभाववति तत्र काले कार्याऽनुपधानं 'तद्योग्यताऽभाववत्त्वेनैव तादिपदेनाऽपि व्यवहर्तुं युज्यते । सहकारियोग्यता चान्यसहकारिसमवधानरूपा स्वेतरकारणाऽऽक्षेपकसामर्थ्यरूपा वा । इयन्तु विशिष्टयोग्यता-सक्रिययोग्यता-फलोत्पादाऽभिमुखफलजननयोग्यता-कार्योपस्थापकयोग्यतासमुचितयोग्यता-कारणान्तरोपहितयोग्यतादिपदेनाऽपि यथास्थानं यथागमञ्च व्यवहर्तुमर्हति ।
प्रकृते → सामर्थ्य = कारणत्वम् । तद् द्विविधम्- (१) फलोपधानं (२) स्वरूपयोग्यता च । फलोपधानं फलाव्यवहितप्राक्कालसम्बन्धः, तदेव करणं कारित्वं च । योग्यताऽपि द्विविधा- (१) सहकारियोग्यता (२) स्वरूपयोग्यता च । आद्या सहकारिसमवधानम् । चरमाऽपि त्रिविधा- (१) जनकतावच्छेदकं रूपं बीजत्वादि, (२) कुर्वद्रूपत्वं, (३) सहकारिविरहप्रयुक्तकार्याभाववत्त्वं च (न्या खं.खा.५/पृ.३२) इति न्यायखण्डखाद्यवचनमपि यथानयं भावनीयम् । स्वरूपयोग्यता सामर्थ्यपदेन सहकारियोग्यता च शक्तिपदेनाऽपि व्यवह्रियते । तदुक्तं श्रीमलयगिरिसूरिवरैः धर्मसङ्ग्रहणिवृत्तौ → सामर्थ्य = प्रतिबन्धवैकल्यासम्भवेन परम्परया कार्यकरणयोग्यता । शक्तिस्तु अव्यवधानेन - (ध.संग्रहणिवृ.५९६/भा.२ पृ.२३)। परिभाषान्तरभावनाऽपि कर्तव्याऽत्र नानानयनिपुणैः । प्रकृते अभव्यादिक्रियायां स्वरूपयोग्यताविरहात् दूरभव्यक्रियायाञ्च सहकारियोग्यताविरहान्न योगपदप्रयोग इति भावः ।
प्रकृतसहकारियोग्यता च ललितविस्तरायां → योग्यता चाऽऽफलप्राप्तेस्तथाक्षयोपशमवृद्धिर्लोकोत्तरभावामृताऽऽस्वादरूपा वैमुख्यकारिणी विषयविषाभिलाषस्य, न चेयमपुनर्बन्धकमन्तरेण - (ललित. पृ.४९) इत्येवमावेदिता । सैव हि फलोपधानप्रयोजिका, अपेक्षित-समुचितकारणान्तराऽऽक्षेपिका च । अत एव = सहकारियोग्यतायाः कार्योत्पादप्रयोजकत्वादेव सहकारियोग्यताऽभाववति तत्र कालेऽचरमावर्तलक्षणे कार्यानुपधानं = योगलक्षणफलानुत्पादं तद्योग्यताऽभाववत्त्वेनैव = योगपरिणामस्वरूपयोग्यतोपेतानां तेषां सहकारियोग्यत्वविरहवत्त्वेनैव । केचित्तु तद्योग्यताभाववत्त्वेन = तेषां स्वरूपयोग्यताविरहेणे'त्यर्थः । न चाऽचरमावर्तेषु भव्यानां योगस्वरूपयोग्यत्वेऽपि चरमावर्तकालादिसन्निधानलक्षणसहकारियोग्यताविरहान्न योगनिष्पत्तिरिति पूर्वमुक्तम्, अत्र च तदा तत्र योगस्वरूपयोग्यतैव नास्तीत्युच्यत इति कथं नानयोर्विरोधः ? इति शङ्कनीयम्, पूर्व (१०/२) कालक्षेपसहिष्णुव्यवहारनयमतेनोक्तम्, अत्र तु कालक्षेपाऽसहिष्णुनिश्चयनयाभिप्रायेणोक्त-मिति विवक्षाभेदान्न कश्चिद् विरोध इति वदन्ति ।
वस्तुतः 'तद्योग्यताभाववत्त्वेन = तेषामचरमावर्तकालीनानां भव्यानां समुचितयोग्यताविरहवत्त्वेने'त्येवार्थः । परमार्थतः प्रकृते सहकारियोग्यतानुविद्धस्वरूपयोग्यता हि समुचितयोग्यतोच्यते। यदा फलमुत्पादयितुमशक्यं तदा नोपदेशो युज्यते, तद्दानेऽपि नोपदेशरूपता तस्य । अत एव सिद्धसेनीयद्वात्रिंशिकायां लोकतत्त्वनिर्णये च → अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाऽभिनवोदीर्णे शमनीयमिव ज्वरे ।। ( (द्वा.द्वा.१८/२८, लो.त.७) इत्युक्तम् । तदुक्तं साङ्ख्यसूत्रे अपि → नाऽशक्योपदेशविधिः, उपदिप्टेऽप्यनुपदेशः - (सां.सू.१/९) इति भावनीयम् ।।
માટે જ સહકારી યોગ્યતાના અભાવવાળા કાળમાં જીવમાં ફળની અનિષ્પત્તિની સંગતિ તેમાં १. हस्तादर्श 'योग्यता...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org