________________
कूटतुलाद्युदाहरणविभावनम्
द्वात्रिंशिका - १०/१६
पाररूपा प्रत्युत अन्तर्मालिन्यसद्भावात् प्रत्यपायाय = इष्यमाण' प्रतिपक्षविघ्नाय यथा लोभ
क्रोधक्रिया कूटतुलादि-सङ्ग्रामादिलक्षणा । तदुक्तं
७०४
•
•
“ तत्त्वेन तु पुनर्नैकाऽप्यत्र धर्मक्रिया मता
. तत्प्रवृत्त्या दिवैगुण्याल्लोभ - क्रोधक्रिया यथा ।। " ( योगबिन्दु ९२ ) । । १६ ।।
यथोक्तं पञ्चाशके →
एयस्स समत्तीए कुसलं पणिहाणमो उ कायव्वं । तत्तो पवित्ति - विग्घजय-सिद्धि तह य थिरीकरणं । । एवं तु इट्ठसिद्धी दव्वपवित्ती उ अण्णहा णियमा । तम्हा अविरुद्धमिणं णेयमवत्थंतरे उचिए ।। ← (पञ्चा.४/२९,३१ ) इति ।
एतेन
इत्थञ्च सत्प्रणिधानादिभावगर्भोऽक्षेपेण मोक्षदः सम्यग्दर्शनादिरेव परमार्थतो भावधर्म इति फलितम् । सम्मत्तनाणचरणा मोक्खपहो वन्निओ जिणिदेहिं । सो चेव भावधम्मो बुद्धिमता होति नायव्वो । । ← ( धर्मसं. ७४९) इति धर्मसङ्ग्रहण्युक्तिरपि व्याख्याता ।
एकान्तेनैव प्रणिधानादिभावशून्याया धर्मक्रियायाः कारणतावच्छेदकशून्यत्वेन फलजननेऽकिञ्चित्करत्वमुक्त्वा साम्प्रतं अन्तर्मालिन्यगर्भाया अचरमावर्तिकर्तृकायास्तस्या एव प्रत्यपायावहत्वमाविष्करोति- 'प्रत्युते 'ति । इष्यमाणप्रतिपक्षविघ्नाय इष्टसुख-धर्मादिविपक्षदुःखाऽधर्मादिलक्षणविघ्नोत्पत्तये । समीहितका - र्योत्पादप्रतिबन्धकतया अभिमतफलोत्पादकसामग्रीविघटकतया वा विघ्नोक्तिरवसेया क्लिष्टसत्त्वान् प्रति । यथोक्तं पञ्चाशके होइ य पाएणेसा किलिट्ठसत्ताण भेदबुद्धीण । पाएण दुग्गइफला विसेसओ दुस्समाए उ ।। ← ( पञ्चा. ३/४१) इति, 'एषा = कूटरूपकतुल्या वन्दना' 1
ग्रन्थकारोऽपि प्रकृते दृष्टान्तमाह- 'यथे 'ति । कूटतुलादि - सङ्ग्रामादिलक्षणेति । कूटतुला-कूटरूपककूटमानादिलक्षणा लोभक्रिया इष्टधनलाभप्रतिपक्षकरकर्तन-चारकबन्धन- देशनिष्काशनादिलक्षणफला भवति । अधिकबलवता सहाऽविचारेण सङ्ग्रामादिलक्षणा क्रोधक्रियेप्टजय-धनलाभादिप्रतिपक्षभूतपराजय-कारागृहगमन - मरणादिलक्षणफला भवति तथाऽत्र ज्ञेयमिति । प्रकृते लोभ - क्रोधादीनामकुशलमूलत्वात्तत्प्रयुक्तक्रियाया अकुशलोत्पादकत्वे केषाञ्चिदपि न विप्रतिपत्तिरिति कूटतुलादि - सङ्ग्रामाद्युदाहरणग्रहणमत्र न्याय्यमेव । तदुक्तं सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे सङ्गीतिसूत्रे तीणि अकुसलमूलानि - (१) लोभो अकुसलमूलं, (२) दोसो अकुसलमूलं, (३) मोहो अकुसलमूलं ← ( दी.नि.३/१०/३०५) इति । ग्रन्थकृदत्र योगबिन्दुसंवादमाह - 'तत्त्वेने 'ति । तद्वृत्तिस्त्वेवम् तत्त्वेन तु पुनः तत्त्ववृत्त्या સાંસારિક ફલની ઝંખના વગેરે સ્વરૂપ મલિનતા હોવાના કારણે ઈચ્છિત સુખના પ્રતિપક્ષભૂત એવા વિઘ્ન માટે = દુઃખ માટે અથવા અંતરાય માટે તે બાહ્ય ધર્મક્રિયા થાય છે. લોભના કારણે ખોટા તોલમાપ કરવા વગેરે ક્રિયા જેમ જેલમાં જવું, દંડ ભોગવવો વગેરે નુકશાન માટે થાય છે. અથવા ક્રોધના કારણે વધુ શક્તિશાળી સાથે થતી યુદ્ધ વગેરે સ્વરૂપ ક્રિયા જેમ ઈચ્છિત વિજયના બદલે મોતનું કારણ થાય છે. તેમ પ્રણિધાનાદિશૂન્ય મલિનમનવાળા જીવની ધર્મક્રિયા નુકશાન માટે થાય છે. આવો સંબંધ
१. मुद्रितप्रतौ 'प्रतिक्ष' इति अशुद्धः पाठः । २ हस्तादर्शादौ प्रकृत्या' इति पाठः, योगबिन्दौ 'प्रवृत्त्या' इति पाठात्स
Jainalional
For Private & Personal Use Only
www.jainelibrary.org
=
=