SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ • बौद्धसम्मतोपक्लेशोपदर्शनम् • द्वात्रिंशिका-१०/५ कार्यं साध्यतीति तु वैदिकानामप्यभिमतम् । तदुक्तं ऋग्वेदे → कथा विधात्यप्रचेताः - (ऋ.वे.१/ १२०/१) इति । 'कथा = केन प्रकारेण' (सा.भा.१/१२०/१) इति सायणभाष्ये । प्रकृते → मज्जन्त्यविचेतसः + (ऋ.वे.९/६४/२१) इति ऋग्वेदवचनमप्यत्र स्मर्तव्यम् । ‘अविचेतसः = विपरीतमतयः' (ऋ.भा.९/६४/२१) इति ऋग्वेदभाष्ये सायणाचार्यः । एतेन → निबाधते अमतिः - (ऋ.वे.१०/ ३३/२) इति ऋग्वेदवचनमपि व्याख्यातम् । तदुक्तं योगवाशिष्ठे अपि → न मौादधिको लोके कश्चिदस्तीह दुःखद: (यो.वा.२९/५७)। निष्फलारम्भसङ्गतः = आध्यात्मिकफलशून्यप्रवृत्तिशाली, आध्यात्मिकफलजनकधर्मप्रवृत्तिरहित इति यावत् तात्पर्यम् । शेषलक्षणाऽसत्त्वेऽपि तद्विपरीतगुणाऽयोगे त्वेकेनाऽपि क्षुद्रत्वादिलक्षणेन भवाभिनन्दिता सम्भवत्येव । औदार्यादिगुणयोगे तु दैन्यादिसत्त्वेऽपि नैव भवाभिनन्दिता सम्मता इति भावनीयम् । योगसारप्राभृते तु → मूढा लोभपराः क्रूरा भीरवोऽसूयकाः शठाः । भवाभिनन्दिनः सन्ति निष्फलाऽऽरम्भकारिणः ।। (यो.सा.प्रा. ८/१९) इत्येवं भवाभिनन्दिलक्षणान्युक्तानीति ध्येयम् । गणेशगीतायां → कुर्वन् हर्षं च शोकं च हिंसां फलस्पृहां च यः । अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ।। प्रमादाऽज्ञानसहितः परोच्छेदपरः शठः। अलसस्तर्कवान् यस्तु कर्ताऽसौ तामसो मतः ।। “(ग.गी.११/१९-२०) इत्येवं यानि राजस-तामसलक्षणान्युक्तानि तान्यपि भवाभिनन्दिनि यथागमं समवतार्यानि | भवाभिनन्दितैव दुःखमूलमिति बौद्धानामपि सम्मतम् । तदुक्तं मज्झिमनिक़ाये → नन्दी दुक्खस्स मूलन्ति 6 (मज्झिमनिकाय-१1१।१३ पृष्ठ-८) इति । इतिवृत्तके अपि → तण्हादुतियो पुरिसो दीघमद्धानं संसारं । इत्थभावञ्जथाभावं संसारं नातिवत्तति ।। 6 (इतिवु.१/२/५) इत्युक्तम् । बौद्धानामुपक्लेशत्वेन ये षोडश चित्तदोषा अभिमताः तत्राऽपि प्रकृतक्षुद्रत्वादयो भवाभिनन्दिदोषा दर्शिता इति ध्येयम् । तदुक्तं मज्झिमनिकाये मूलपर्यायवर्गे वस्त्रसूत्रे → कतमे च भिक्खवे, चित्तस्स उपक्किलेसा ? (१) अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो, (२) ब्यापादो चित्तस्स उपक्किलेसो, (३) कोधो चित्तस्स उपक्किलेसो, (४) उपनाहो चित्तस्स उपक्किलेसो, (५) मक्खो चित्तस्स उपक्किलेसो, (६) पळासो चित्तस्स उपक्किलेसो, (७) इस्सा चित्तस्स उपक्किलेसो, (८) मच्छरियं चित्तस्स उपक्किलेसो, (९) माया चित्तस्स उपक्किलेसो, (१०) साठेय्यं चित्तस्स उपक्किलेसो, (११) थम्भो चित्तस्स उपक्किलेसो, (१२) सारम्भो चित्तस्स उपक्किलेसो, (१३) मानो चित्तस्स उपक्किलेसो, (१४) अतिमानो चित्तस्स उपक्किलेसो, (१५) मदो चित्तस्स उपक्किलेसो, (१६) पमादो चित्तस्स उपक्किलेसो - (म.नि. भाग-१/१/७/सूत्र-७१/पृष्ठ ४६) इति । व्यापादः = द्रोहः, उपनाहः = वैरभावः, म्रक्षः = परगुणावमननं, पळासो = नैष्ठ्यँ, स्तम्भः = अज्ञता, सारम्भः = उत्तेजितता । शिप्टं स्पप्टम् ।।१०/५।। વિશેષાર્થ :- ભારેકર્મી હોવાના લીધે અચરમાવર્તકાળમાં રહેલા સંસારના રસિયા ભવાભિનંદી જીવોની ધર્મપ્રવૃત્તિ યોગસ્વરૂપ બની શકતી નથી. હજુ ઘણું ભવભ્રમણ કરવાનું બાકી હોવાથી ભવાભિનંદી જીવની ધર્મપ્રવૃત્તિ વિના વિલંબે મોક્ષહેતુ બની શકતી નથી. (૧૦/૫) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy