________________
६८९
कृपणः । लोभरति:
क्षुद्र इति । क्षुद्रः याञ्चाशीलः । दीनः = सदैवाऽदृष्टकल्याणः । मत्सरी = परकल्याणदुः स्थितः । भयवान् = नित्यभीतः । शठो = मायावी । अज्ञो = मूर्खः । भवाभिनन्दी = “असारोऽप्येषः संसारः सारवानिव लक्ष्यते । दधि - दुग्धाऽम्बु - ताम्बूल-पण्यपण्याङ्गनादिभिः ।।” ( ) इत्यादिवचनैः संसाराऽभिनन्दनशीलः स्याद् = भवेत्, निष्फलाऽऽरम्भसङ्गतः सर्वत्राऽतत्त्वाऽभिनिवेशाद्वन्ध्यक्रियासम्पन्नः ॥ ५ ॥
योगबिन्दुवृत्तिकृद्वचनानुसारेण विवृणोति- 'क्षुद्रः = कृपण' इत्यादि स्पष्टम् । नवरं श्रीमद्भागवते कृपणो योऽजितेन्द्रियः ← (श्री. भा. ११/१९/४४) इत्येवं कृपणलक्षणमुक्तं तदत्र यथातन्त्रमनुयोज्यं सर्वतन्त्रविशारदैः । परकल्याणदुः स्थितः सन् कल्याणवन्तं परं न दत्ते स्वरसतः किञ्चिदपि प्रतिबन्धकस्य मत्सरस्य सत्त्वात् । परेषामपि सम्मतमिदम् । तदुक्तं संयुक्तनिकाये देवतासंयुक्ते मच्छेरा च पमादा च, एवं दानं न दीयति । ← (सं.नि. १/१ / ३२, पृ. २२ ) इति । परकीयकल्याणाऽसहिष्णुतया तादृशकल्याणान्तरायं बघ्नातीत्यादिकमूहनीयम् । नित्यभीतः, तथाविधाऽऽत्मस्वरूपानवगमात् । मायावी वाङ्-मनः-कायव्यापाराणां कौटिल्यात् । प्रकृते सत्यमिति अमायिता, अकौटिल्यं वाङ् मनः कायानाम् ← (के.शां.४/८) इति केनोपनिषच्छाङ्करभाष्यवचनमप्यनुस्मर्तव्यम् ।
=
भवाभिनन्दिलक्षणप्रकाशनम्
=
Jain Education International
अज्ञः = मूर्ख इति । अत्राऽज्ञता शुद्धात्मस्वरूपाववोधराहित्यापेक्षयाऽवगन्तव्या । प्रकृते → एतदात्मविज्ञानं पाण्डित्यम् ← (बृ.आ.शां.भा.३/५/१ ) इति बृहदारण्यकोपनिषच्छाङ्करभाष्यवचनमपि यथातन्त्रमनुयोज्यम्। शास्त्राभ्यासकरणेऽपि सहजमलप्राबल्येन न यथावदात्मस्वरूपावबोधयोग्यता शास्त्रानुशासनार्हताऽपि वाऽस्योपजायते । प्रकृते न तु शास्त्रं भृत्यान्निव बलाद् निवर्तयति नियोजयति वा ← (वृ.शां.२/१/२० ) इति बृहदारण्यकशाङ्करभाष्यवचनमपि स्मर्तव्यम् । अत्यनर्हत्वाच्छास्त्रमप्यस्य मद-मानकारणतयाऽवसेयम् । तदुक्तं भर्तृहरिणा अपि शृङ्गारशतके → ज्ञानं सतां मदमानादिनाशनं केषाञ्चिदेतन्मद-मानकारणम् । स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामपि कामकारणम् ।। ← (शृं.श.७७ ) इति । व्यवहारतो ज्ञोऽपि परमार्थतः अज्ञस्तु कथमपि नात्राऽऽध्यात्मिकं ટીકાર્થ :- ભવાભિનંદી જીવના આઠ લક્ષણ છે. (૧) ભવાભિનંદી જીવ ક્ષુદ્ર પ્રકૃતિવાળો અર્થાત્ કૃપણ સ્વભાવવાળો હોય છે. (૨) તે માગ-માગ કરવાના લોભી સ્વભાવવાળો હોય છે. (૩) તે દીન હોય છે. અર્થાત્ કાયમ આત્મકલ્યાણના તેને દર્શન થતા જ નથી. (૪) તેમ જ તે મત્સરી હોય છે. મતલબ કે બીજાના અભ્યુદયને જોઈને દુઃખી થનારો હોય છે. (૫) કાયમ તે ભયભીત હોય છે. (६) भवामिनंही व मायावी सुग्यो होय छे. (७) तेम ४ ते मूर्ख-अज्ञानी आत्मज्ञानशून्य होय છે. (૮) તેમ જ સર્વત્ર તેને અતત્ત્વનો કદાગ્રહ હોવાથી અર્થાત્ અપારમાર્થિક પદાર્થમાં પારમાર્થિક બુદ્ધિ હોવાથી તેની ક્રિયા આધ્યાત્મિક પ્રયોજનની અપેક્ષાએ નિષ્ફળ જાય છે. આવો જીવ ભવાભિનંદી होय छे. लव = સંસાર પ્રત્યે બહુમાન-આદરવાળો હોવાથી તે ભવાભિનંદી કહેવાય છે. ‘સંસાર અસાર होवा छतां दूध, छही, पाली, सरजत, पान, वेयवानो भात, वेश्या वगेरे द्वारा भगे } सारभूत હોય તેમ લાગે છે.' - આ પ્રમાણે તેના મોઢામાંથી નીકળતા વચનો દ્વારા જણાઈ આવે છે કે સંસાર પ્રત્યે તેના હ્રદયમાં અભિનંદનનો बहुमाननो भाव छे. (१०/५) १. हस्तादर्श
..व' इत्यशुद्धः पाठः । २
मुद्रितप्रतौ 'लक्ष्यन्ते' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'पुण्य-पण्या...' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
=