________________
६८८
• अचरमावर्तकाले गुणपक्षपातबीजसम्भवः • द्वात्रिंशिका-१०/५ क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः। अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः।।५।। क्षपणपारणकाऽसम्पत्तौ स्वप्रतिकूलचारिगुणसेनभूपालगुणगणप्रेक्षण-स्वदोषदर्शनयोर्विशदयोः प्रसिद्धत्वात् । अनेनाऽचरमावर्तकाले गुणपक्षपातवीजप्रादुर्भावाऽसम्भवोक्तिरपि निरस्ता, समरादित्यवाचकोपसर्गप्रसङ्गे गिरि-घेणस्याऽग्निशर्मजीवस्याऽचरमावर्तवर्तिनः प्रशस्तविषयचिन्तनतो गुणपक्षपातबीजोपलब्धेरिष्टत्वात् । तदुक्तं समरादित्यकथायां वेलन्धरदेवं प्रति समरादित्यकेवलिना गिरिषेणमुद्दिश्य → असंखेज्जेसु पोग्गलपरियट्टेसु समइच्छिएसु तिरियगईए सद्दलसेणराइणो पहाणतुरंगमो होऊण पाविस्सइ, जओ 'अहो महाणुभावो'त्ति मं उद्दिसिय चिन्तियमणेण । एएणं च पसत्थविसयचिन्तणेण आसगलियं गुणपक्खवायबीयं, कारणं च तं परंपराए सम्मत्तस्स - (स.क.भव-९/पृष्ठ-९७८) इति । अनेनाऽनुबन्धस्याऽसङ्ख्यपुद्गलपरावर्तकालमानताऽपि द्योतिता । सोऽयमिपोरिव दीर्घ-दीर्घतरव्यापारः अशुद्धनैगमनयेन । → यादिसं वपते बीजं तादिसं हरते फलं ८ (सं.नि.१/११/१०) इति संयुत्तनिकायवचनमप्यत्र यथातन्त्रमनुयोज्यम् ।
एतेनाऽचरमावर्तकाले विधिविशुद्धप्रव्रज्याप्रतिपालनमपि भव्यस्य निष्फलमेवाऽध्यात्मलाभापेक्षयेति सर्वथैकान्तोऽपि प्रतिक्षिप्तः । एतदुपदर्शनायैव ‘कश्चिदि'त्युक्तमत्र ग्रन्थकृता । न चैवमचरमावर्तकालवर्तिनोऽपि दीक्षादावधिकारित्वं प्रसज्येतेति शङ्कनीयम्, अचरमावर्तकाले महाकष्टेनोपार्जितस्यापि शुभपरिणामादेः तज्जन्यपुण्यविपाकादिकाले भोगतृष्णादिपारवश्यतो बाहुल्येन नाशात्, स्वप्रतिपन्नप्रदीर्घतरकालव्यापिभवाभिनन्दिपर्यायाऽन्तर्भूतत्वेन स्वल्पतमकालीनशुभपरिणामादेरपि बाहुल्येन भवाभिनन्दिपर्यायपरिकरभूतत्वात्, अचरमावर्तकालीनगुणपक्षपातबीजादेरपि अचरमावर्तकाले स्वफलदानं प्रत्यसमर्थत्वाच्चाऽचरमावर्तकाले धर्मानधिकारित्वोक्तेाय्यत्वमेव । न हि कार्षापणमात्रेण धनवानिति व्यपदेशो लोकेऽपि दृष्टोऽविगानेन । अत एव ग्रन्थकृताऽपि वैराग्यकल्पलतायां → बीजस्य सम्पत्तिरपीह न स्यादपश्चिमावर्तविवर्त-काले। एषाऽपि येनाऽतिशयेन चार्वी भवाभिनन्दित्वनिवृत्तिलभ्या ।। - (वै.क.ल.१/५६) इत्युक्तम् । 'प्राधान्येन व्यपदेशा भवन्तीति न्यायोऽत्राऽनुस्मर्तव्यः । ग्रन्थिदेशाऽऽगतेऽपि अभव्ये निरतिचारचारित्राचारपालनेऽपि भवाभिनन्दिता नैवोच्छिद्यत इति ध्येयम् ।।१०/४।।
योगदृष्टिसमुच्चय(७६)- योगबिन्दू(८७)द्धृतकारिकया भवाभिनन्दिलक्षणान्याह- 'क्षुद्र' इति ।
વિશેષાર્થ :- અચરમાવર્તકાળમાં જીવ લૌકિક કે લોકોત્તર ધર્મ કરે ખરો પણ આહારસંજ્ઞા, મૈથુન સંજ્ઞા વગેરેના ઉદયમાં તે તણાઈ જાય છે. સંજ્ઞાના ઉદયને તે રોકી શકતો નથી, રોકવાની ઈચ્છા પણ થતી નથી. તે હૈયામાં લૌકિક ભાવો રાખીને ધર્મને કરે છે. જનમનરંજન કરવા માટે ધર્મને કરે છે. નિર્મળ શ્રદ્ધા વિના ધર્મને કરે છે. માનાશંસા, પ્રશંસા વગેરેને પુષ્ટ બનાવવા તે ધર્મ કરીને ધર્મનું અવમૂલ્યાંકન रे . (१०/४)
ભવાભિનંદી જીવના લક્ષણ બતાવતા ગ્રંથકારશ્રી કહે છે કે -
थार्थ :- (मवामिनी वन मा दक्ष . ते (१) क्षुद्र, (२) सोमतिवाणो, (3) हीन, (४) मत्सरी, (५) मयभीत, (६) 26,(७) मशानी मने (८) निष्क्षण भारत्म ४२नारी डोय छे. (१०/५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org