________________
• लोकपङ्क्त्यादरस्य धर्मबाधकता •
६८७ तदा भवाभिनन्दी स्यात्सञ्जाविष्कम्भणं विना। धर्मकृत् कश्चिदेवाङ्गी लोकपङ्क्तौ कृताऽऽदरः।।४।।
तदेति । तदा = अचरमेष्वावर्तेषु अङ्गी = प्राणी (भवाभिनन्दी स्यात् । अत एव तदा) सञ्जाविष्कम्भणं = आहारादिसञोदयवञ्चनलक्षणं विना कश्चिदेव धर्मकृत् लौकिक-लोकोत्तरप्रव्रज्यादिधर्मकारी । लोकपङ्क्तौ = लोकसदृशभावसम्पादनरूपायां कृताऽऽदरः = कृतयत्नः स्यात् ।।४।। ___ नन्वचरमावर्तकाले किं सर्वेपामेव, सर्वदेव, सर्वत्रैव, सर्वथैवाऽशुभपरिणाम एव वर्तते यदुताऽन्यथाऽपीत्यत आह- 'तदेति । अचरमेषु आवर्तेषु = पुद्गलपरावर्तेपु प्राणी भवाभिनन्दी अनुपदमेव वक्ष्यमाणलक्षणो भवति । तथाऽचरमावर्तेपु आहारादिसज्ञोदयवञ्चनलक्षणं आहार-भयादिदशविधसञोदयवैकल्यापादनात्मकं सञ्जाविष्कम्भणं विना कश्चिदेव न सर्वः लौकिक-लोकोत्तरप्रव्रज्यादिधर्मकारी लोकसदृशभावसम्पादनरूपायां = बाह्यलोकतुल्यचित्तपरिणामाऽऽक्षेपलक्षणायां लोकपङ्क्तो कृतयत्नः स्यात् । तदुक्तं योगबिन्दौ → नाऽध्यात्म योगभेदत्वादावर्तेप्वपरेष्वपि । तीव्रपापाऽभिभूतत्वाज्ज्ञानलोचनवर्जिताः । सद्वाऽवतरन्त्येषु न सत्त्वा गहनाऽन्धवत् ।। भवाभिनन्दिनः प्रायः त्रिसंज्ञा एव दुःखिताः । केचिद्धर्मकृतोऽपि स्युलॊकपङ्क्तिकृतादराः ।।
6 (यो.वि.८४ ८५ ।८६) इति । योगसारप्राभृतेऽपि → भवाभिनन्दिनः केचित् सन्ति सद्भावशीकृताः । कुर्वन्तोऽपि परं धर्म लोकपङ्क्तिकृताऽऽदराः ।। (यो.सा.प्रा. ८/१८) इत्युक्तम् । भवाभिनन्दितयैव तत्कृतान्यनुष्ठानान्यपि केवलं कर्मभारवहनायैव सम्पद्यन्ते, न तु कर्मभारापहाराय, 'सहैव दशभिः पुत्रैः भारं वहति गर्दभी'ति न्यायेनेत्यवधेयम् । एतेन → राग-दोसपरेतेहिं नायं धम्मो सुसम्बुधो - (म.नि.१/२६/३, १/३/६/२८१) इति मज्झिमनिकायवचनमपि व्याख्यातम् ।
इदञ्चात्राऽवधेयम्- अचरमावर्तकाले सर्वथैव सर्वेषामेव निरन्तरमतिक्लिप्टपरिणाम एव भवतीति नियमो नास्ति, शुक्ललेश्यादिनाऽचरमावर्तकालेऽपि नवमग्रैवेयकोत्पादश्रवणात्, अभव्यानामपि ग्रन्थिदेशप्राप्तौ प्रतिक्षणं वर्धमानशुभपरिणाम-प्रशस्ताऽध्यवसायादीनामिप्टत्वाच्च । एतेनाऽचरमावर्तकाले स्वदोषदर्शन-परगुणप्रमोदादिपरिणामाऽसम्भवोक्तिरपि प्रत्याख्याता, अचरमावर्तवर्तिनोऽप्यग्निशर्मणः तापसस्य द्विकृत्वो मास
ગાથાર્થ :- અચરમાવર્તકાળમાં જીવ ભવાભિનંદી હોય છે. ત્યારે સંજ્ઞાઓના તોફાનને અટકાવીને ધર્મ કરનાર કોઈક જ જીવ હોય છે. મોટા ભાગે ત્યારે જીવ લોકસંજ્ઞાનો જ આદર કરનાર બને છે.(૧O/૪)
ટીકાર્થ :- અચરમાવર્તકાળમાં જીવ ભવાભિનંદી હોય છે. ભવાભિનંદી જીવના લક્ષણ આગળની ગાથામાં કહેવાશે. આહાર સંજ્ઞા, ભયસંજ્ઞા, મૈથુનસંજ્ઞા વગેરેના ઉદયને ઠગ્યા વગર અર્થાત્ નિયંત્રિત કર્યા વિના લૌકિક ધર્મ કે લોકોત્તર દીક્ષા વગેરે ધર્મને કરનાર જીવ અચરમાવર્તકાળમાં કોઈક જ હોય છે. અચરમાવર્તવર્તી જીવ લોકસંજ્ઞામાં જ આદર કરનાર હોય છે. લોકસંજ્ઞા = લોકપંક્તિ. એટલે કે सामान्य दो भार ४२वामा us ४. (१०/४) १. 'पंक्ति' इति मुद्रितप्रतो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org