________________
• दुर्गतनारीकृतपूजाविचारः
अन्यथा,
" सुव्वइ दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं ।
पूआपणिहाणेणं उववन्ना तियसलोअंमि ।। " ( पंचा. ४/४९, सं.स.७० ) इत्यादिवचनव्याघातप्रसङ्गात् ।
३६८
=
दीक्षितेतरयोश्च अनुष्ठानस्याऽऽनन्तर्य-पारम्पर्यकृत एव फले विशेष ← (अ.प्र. ४ / ६ वृत्ति ) इति । 'शुद्धागमैः' इति कारिकाया वृत्तिलेशस्तु शुद्धो = निर्दोष आगमः = प्राप्त्युपायो येषां तानि 'शुद्धागमानि', न्यायोपात्तवित्तेनाऽचौर्येण वा गृहीतानीत्यर्थः, तैः पुष्पैः, 'दीयते देवदेवाय या साऽशुद्धेत्युदाहृता' इति सम्बन्धः । कथं दीयते इत्याह । लाभस्याऽनतिक्रमेण = यथालाभं प्रवचनप्रभावनार्थमुदारभावेन मालिकाद्यथालाभगृहीतैर्देशकालापेक्षया चोत्तम- मध्यम- जघन्येषु यानि लब्धानि तैः पुष्पैरिति भावना । प्रत्यग्रैः अपरिम्लानैः शुचिभाजनैः पवित्रपटलकाद्याधारैः, इतरथा स्नानादिशौचमपि न मनोनिवृत्तिमापादयेदिति । स्तोकैः अल्पैः प्रत्यपायापगमं पुष्पदानादष्टभिरित्यर्थः । बहुभिः भूरिभिस्तदुद्देशेन बहूनां दानात् वाशब्दौ स्तोक- बहुपुष्पपुञ्जयोर्बहुमानप्रधानस्य फलम्प्रत्यविशेषप्रतिपादनार्थी । अपिशब्दश्च समुच्च्यार्थ इति । पुष्पैः कुसुमैः जात्यादिसम्भवैः मालतीप्रभृतिप्रस (भ) वैरादि-शब्दाद्विचकिलादिपरिग्रहः ← (अ.प्र. ३ / २ वृत्ति) इत्येवं वर्तते ।
=
=
=
=
=
अन्यथा = तयोः कारिकयोः 'पूजार्थं स्वयं पुष्पत्रोटनादिलक्षण आरम्भो निषिध्यते' इत्येतदर्थख्यापनपरत्वे स्वीक्रियमाणे तु ‘सुव्वइ’ इत्यादिवचनव्याघातप्रसङ्गात् = पञ्चाशक - सम्बोधसप्ततिकाश्लोकबाधाऽऽपातात् । न हि दुर्गतनार्या यथालाभं न्यायोपात्तवित्तेन वा तानि गृहीतानि । पञ्चाशकवृत्तिलेशस्त्वेवम्
श्रूयते
आकर्ण्यते जिनेन्द्रप्रवचने दुर्गतनारी = दारिद्र्योपहतयोषा जगद्गुरोः = त्रिभुवननाथस्य सिन्दुवारकुसुमैः निर्गुण्डीपुष्पैः करणभूतैः या पूजा अर्चनं तत्र यत्प्रणिधानं 'पूजां करोमी' त्येवम्विधमैकाग्र्यं तत् पूजाप्रणिधानम् । इह च कुसुमशब्दसापेक्षत्वेऽपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो 'देवदत्तस्य गुरुकुलमित्यादाविव न दोषायेति । तेन पूजाप्रणिधानेन करणभूतेन उपपन्ना = उत्पन्ना त्रिदशलोके
स्वर्गे इति । ततश्च्युतः सन् कनकध्वजाभिधानो नृपो भविष्यति । प्रत्येकबुद्धत्वमवाप्य स पुनर्देवलोके गमिष्यति। एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यतीति । ← (पञ्चा.४/४९ वृत्ति) । धर्मार्थमारम्भप्रवृत्तेर्बलवदनिष्टाऽनुबन्धित्वे तु दुर्गतनार्याः कुसुमपूजाप्रणिधानेन देवत्वलाभोऽनुपपन्नः स्यादिति भावः । कथानकं तु पञ्चाशकवृत्तितोऽवसेयम् । साक्षेपपरिहारं विस्तरत एतदर्थबुभुत्सुभिः 'अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः ← (अ.प्र. २/५) इति अष्टककारिकाया
द्वात्रिंशिका-५/३१
=
જો તે શ્લોકનું તાત્પર્ય “જાતે પુષ્પાદિ ન તોડવા” એવું માનવામાં આવે તો પંચાશજીમાં જે જણાવેલ છે કે → સંભળાય છે કે ગરીબ સ્ત્રી જંગલમાં સિંદુવારનાં ફૂલથી જગતગુરુની પૂજા કરવાનાં પરિણામથી દેવલોકમાં ઉત્પન્ન થઈ ← આ વાત અસંગત થઈ જશે.
१. श्रूयते दुर्गतनारी जगद्गुरोः सिंदुवारकुसुमैः पूजाप्रणिधानेनोपपन्ना त्रिदशलोके ।। २ हस्तादर्शे 'जगद्गुरुणो' इत्यशुद्धः पाठ: । ३. मुद्रितप्रतौ '... व्याघाप्र...' इति अशुद्धपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org