SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ • पङ्कप्रक्षालनादस्पर्शनस्याभ्यर्हितत्वविचारः • ३६७ यच्चेति । यच्च 'धर्मार्थमित्यादि भणितं तद्दशान्तरं सर्वविरत्यादिरूपं अपेक्ष्य, आद्यश्लोकस्य सर्वविरत्यधिकारे पाठात्, द्वितीयस्य च पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्येतदर्थख्यापनपरत्वात् । 'यच्चे 'ति । अष्टकप्रकरणे 'धर्मार्थमित्यादि यद् भणितं तत् सर्वविरत्यादिरूपं = सर्वविरति-सामायिकपौषधादिलक्षणं दशान्तरं अपेक्ष्य उक्तम्, आद्यश्लोकस्य अष्टकप्रकरण - पराशरस्मृति - पञ्चतन्त्र - हितोपदेशदर्शितस्य ‘धर्मार्थं यस्ये’त्यादिरूपस्य पङ्कप्रक्षालनन्यायप्रतिपादकस्य अस्मन्नये सर्वविरत्यधिकारे पाठात् = भणनात्, एतेन त्यागाय श्रेयसे वित्तमवित्तः सञ्चिनोति यः । स्वशरीरं स पङ्केन स्नास्यामीति विलिम्पति । । ← (इष्टो.१६) इति इष्टोपदेशवचनं, ईहेत धनहेतोर्यस्तस्याऽनीहा गरीयसी ← ( म.भा. शांति.२०/७) इति च महाभारतवचनं व्याख्यातम् । 'शुद्धागमैः' इत्यादिरूपस्य द्वितीयस्य श्लोकस्य च पूजाकालोपस्थिते मालिके = पुष्पमालाविक्रेतरि दर्शनप्रभावनाहेतोः जैनशास-नाभ्युदय-प्रभावनाबोधिबीजाधानादिकृते व णिक्कला कदर्यतागर्भिता शठता न = नैव प्रयोक्तव्या परन्तु स्व-सम्पदनुसारेणोचितमूल्यदानतः सुसुगन्धिपुष्पाणि मालिकादादातव्यानि इति एतदर्थख्यापनपरत्वात् तयोः 'धर्मार्थमिति कारिकायामपि गृहस्थस्य पूजा नैव निषिध्यते । = = = तदुक्तं तद्वृत्तौ श्रीजिनेश्वरसूरिभिः धर्मार्थं धर्मनिमित्तं यस्य = कस्यचित्पुंसः वित्तेहा द्रव्योपार्जनचेष्टा कृषिवाणिज्यादिका तस्य = पुरुषस्य, अनीहा अचेष्टा वित्तानुपार्जनमेव गरीयसी श्रेयसीतरा सङ्गततरा इत्यर्थः । अयमभिप्रायो वित्तार्थं चेष्टायामवश्यं पापं भवति तच्चोपार्जित - वित्तवितरणेनावश्यं शोधनीयं भवति, एवं च वित्तार्थमचेष्टैव वरतरा वित्तवितरणविशोध्यपापाभावात् परिग्रहाऽऽरम्भवर्जनात्मकत्वेनाऽचेष्टाया एव च धर्मत्वादिति । अत्रार्थे दृष्टान्तमाह- प्रक्षालनात् धावनात् सकाशात् हि यस्मात् पङ्कस्य अशुचिरूपकर्दमस्य दूरात् विप्रकर्षात् अस्पर्शनं असंश्लेषणमेव वरं प्रधानमिति । इदमुक्तं भवति यदि पङ्के करचरणादिरवयवः क्षिप्त्वाऽपि प्रक्षालनीयस्तदा सैवाग्निकारिका वरमकृतेति । प्रयोगश्चेह न विधेया मुमुक्षूणां द्रव्याग्निकारिका, तत्सम्पाद्यस्य कर्मपङ्कस्य पुनः शोधनीयत्वात्, पादादेः पङ्कक्षेपवदिति । एवं तर्हि गृहस्थेनापि पूजादि न कार्यं स्यात्, नैवम्, यतो जैनगृहस्था न राज्यादिनिमित्तं पूजां कुर्वन्ति, न च राज्याद्यावर्जितमवद्यं दानेन शोधयिष्याम इति मन्यन्ते, मोक्षार्थमेव तेषां पूजादौ प्रवृत्तेः, मोक्षार्थितया च विहितस्याऽऽगमानुसारिणो वीतरागपूजादेर्मोक्ष एव मुख्यं फलं, राज्यादि तु प्रासङ्गिकम् । ततो गृहिणः पूजादिकं नाऽविधेयम् । = = = = = = टीडार्थ :- धर्मार्थं इत्याहि हेवा द्वारा अष्टमां धर्मनिमित्तखारंभनी हे निषेध भगावेस છે તે સર્વવિરતિ વગેરે દશાવિશેષની અપેક્ષાએ જાણવું, કારણ કે સર્વવિરતિના અધિકારમાં તે બ્લોક डेवायेसो छे तेम४ शुद्धागमैः इत्याहि जीभे श्लोड पए। “भते पुष्पाहि तोडवानी खारंभ न रखो." આવા તાત્પર્યથી કહેવાયેલ નથી. પરંતુ પૂજાનાં અવસરે માળી ઉપસ્થિત થાય ત્યારે તેની સમક્ષ વણિક કલાનો પ્રયોગ નહિ કરવો. કારણ કે તેવા પ્રસંગે ઉદારતા બતાવવામાં આવે તો જ જિનશાસનની પ્રભાવના થાય છે. આવું તાત્પર્ય તે શ્લોક દ્વારા જણાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy