________________
• जिनार्चायामनुबन्ध-हेतुहिंसानिराकरणम् • द्वात्रिंशिका-५/३० अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशकिनः । अबोधिरेव परमा' विवेकौदार्यनाशतः।।३०।।
___ अन्यत्रेति । यस्त्वन्यत्र = कुटुम्बाद्यर्थे आरम्भवाँस्तस्याऽत्र = जिनपूजानिमित्तपुष्पादौ आरम्भशङ्किनः = स्तोकपुष्पादिग्रहणाऽभिव्यङ्ग्याऽऽरम्भशङ्कावतः परमा = प्रकृष्टा अबोधिरेव = बोधि-हानिरेव, विवेकः कार्याऽकार्यज्ञानमौदार्यं च विपुलाऽऽशयलक्षणं तयो शतः (=विवेकौदार्यनाशतः)। तरसि नेय चारित्तं । सावयधम्मम्मि दढो हविज्ज जिणपूयणुज्जुत्तो ।। - (पु.मा.४६६) इत्येवं पुष्पमालायां यतिधर्मप्रतिपत्त्यसहिष्णोः कर्तव्यतयाऽर्हत्पूजनस्योपदेशात् तदकरणे सामायिकादेरप्यतात्त्विकत्वाऽऽपातात् । तदुक्तं कथारत्नकोशे → पुप्फाई दव्वत्थयमकुणतो कह गिही हविज्ज जोग्गो । भावत्थयस्स ? ता पढमभूमिगाए जइज्ज इहं ।। (कथार.को.पृ.९८/गा.११) इति ।
जिनपूजाऽनादरे तु देशविरतिपरिणामोऽपि कुतः ? तदुक्तं ललितविस्तरायां → जिनपूजा-सत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः । औचित्यप्रवृत्तिसारत्वेनोचितौ चारम्भिण एतौ; सदारम्भरूपत्वात्, आज्ञाऽमृतयोगात्, असदारम्भनिवृत्तेः, अन्यथा तदयोगात्, अतिप्रसङ्गात् (ल.वि.पृ.८०) इति भावनीयं तत्त्वमेतत् ।।५/२९ ।।।
अनधिकारिणो यथा प्रवर्तने दोषः तथाऽधिकारिणोऽप्रवर्तनेऽपि दोष एवेत्याशयेनाह-'अन्यत्रे'ति ।
यस्तु कुटुम्बाद्यर्थे = निजकुटुम्बाऽऽपणादिकृते आरम्भवान् = पृथिव्याधुपमर्दनकारी तस्य गृहिणो जिनपूजानिमित्तपुष्पादौ = अर्हत्पूजनप्रयोजनकपुष्पादिग्रहणे स्तोकपुष्पादिग्रहणाऽभिव्यङ्ग्याऽऽरम्भशङ्कावतः सा आरम्भशङ्का भ्रान्तत्वाऽभिव्यञ्जिका, अनारम्भे आरम्भत्वावगाहनात् । तदुक्तं सम्बोधप्रकरणे → पूयम्मि वीयराये भावो विप्फुरइ विसयविवच्चाया । आया अहिंसभावे वट्टइ इह तेण नो हिंसा ।। जत्थ य अहिंसभावो तत्थ य सुहजोगकारणं भणियं । अणुबंधहेउरहिओ वट्टइ इह तेण नो हिंसा ।।
6 (सं.प्र.१/२००-२०१) इति ।
किञ्च शुभफलायामपि जिनपूजायामशुभफलत्वशङ्काकरणादपि तस्य भ्रान्तता स्फुटैव । तस्याः शुभफलकत्वन्तु सम्बोधप्रकरणे → सच्चप्पभावओ च्चिय अग्गी णो डहइ तं हियं कुणइ । तह कायवहो वि तया सुहजोगनिमित्तसंजणया ।। परिणामविसेसोऽवि हु सुहबज्झगओ सुहफलो होति ।।
6 (सं.प्र. ६/५६-५७) इत्येवमुपदर्शितम् । ततश्च जिनपूजायामारम्भशङ्किनः प्रकृष्टा बोधिहानिरेव, तयोः = कार्याऽकार्यज्ञान-विपुलाशययोः नाशतः = विनाशात् । → आरंभपसत्ताणं गिहीण
ગાથાર્થ :- જે ગૃહસ્થ સંસારમાં આરંભ-સમારંભ કરતો હોય અને પૂજામાં આરંભ-સમારંભની શંકા કરતો હોય તો તે ગૃહસ્થમાં વિવેકદ્રષ્ટિ અને ઉદારતાનો નાશ થવાથી બોધિદુર્લભતા જ પ્રાપ્ત થાય. (૫/૩૦).
ટીકાર્ય :- જે ગૃહસ્થ કુટુંબ વગેરે માટે આરંભ-સમારંભ કરે છે. અને જિનપૂજા નિમિત્તે આવેલા પુષ્પ વગેરેમાં આરંભ-સમારંભની શંકા કરે છે. તે ગૃહસ્થને ભયંકર બોધિહાનિ સ્વરૂપ નુકશાન થાય છે. જિનપૂજા માટે થોડા જ પુષ્પો ગ્રહણ કરવા દ્વારા તેનાં હૃદયમાં પ્રસ્તુત બાબતમાં વિરાધનાની १. हस्तादर्श ‘परम' इति पाठः । २. हस्तादर्श 'कुत्र' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org