________________
• एकानुष्ठानस्य विहितान्यानपवादकत्वम् • 'यदष्टकवृत्तिकृत् “अत एव सामायिकस्थः श्रावकोऽप्यनधिकारी, तस्याऽपि सावद्यनिवृत्ततया भावस्तवाऽऽरूढत्वेन श्रमणकल्पत्वात् ।
___ अत एव गृहिणोऽपि प्रकृत्या पृथिव्याधुपमर्दनभीरोर्यतनावतः सावद्यसंक्षेपरुचेर्यतिक्रियाऽनुरागिणो न धर्मार्थं सावद्याऽऽरम्भप्रवृत्तिर्युक्ते"ति (अष्ट वृ.२/५) ।।२९।। ___ प्रकृते अष्टकवृत्तिसंवादमाह- 'यदि'ति । सामायिकस्थस्य तदानीं सायद्यनिवृत्ततया भावस्तवाधिरूढत्वेन च श्रमणकल्पत्वात्, तत्पूर्तिकालं यावत् सचित्तादिस्पर्शरहितस्यैव व्रतपालकत्वात् । जिनपूजां चिकीर्षुस्तु सचित्तपुष्पादिवस्तूनि समुपादायैव तां करोति, तद्विना पूजाया एवाऽसम्भवात्, प्रतिकार्य कारणस्य भिन्नत्वादिति (प्र.श.गा.३६) व्यक्तं प्रतिमाशतकवृत्तौ । कथारत्नकोशेऽपि → जइ पुण पोसहनिरया सच्चित्तविवज्जया जइसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ता विवज्जंतु ।। - (कथार.को. पृ.१००/गा.१०) इति ।
___ तत्तद्धर्मकर्मणः तत्तदधिकारसम्पाद्यत्वं परेषामपि सम्मतम् । अत एव समाधिस्थगृहस्थस्य स्वाश्रमोचिततत्तद्धर्मक्रियापरित्यागेऽपि न कश्चिद् दोष इति परैरङ्गीक्रियते । तदुक्तं रामगीतायां → गृहिणोऽपि यतितुल्यत्वादपि तस्यामवस्थितौ । सर्वकर्मविनिर्मुक्तेस्स्वात्मारामान्न कर्मिता ।। - (रा.गी. ९/१८) इति । संन्यासोपनिषदि अपि संन्यासिनमुद्दिश्य → न देवताप्रसादग्रहणम् । न बाह्यदेवाऽभ्यर्चनं कुर्यात् + (सं.उप.२/५९) इत्युक्तम् । एतेन → तीर्थानि तोयपूर्णानि देवान् काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ।। 6 (जा.द.४/५२) इति जाबालदर्शनोपनिषद्वचनमपि व्याख्यातम्, अत्र 'प्रपूज्यन्ते = प्रपूजयन्ति' इति ज्ञेयं, छन्दोभङ्गभयात् तथोक्तेः न्याय्यत्वमवसेयं गुणग्रहणरसिकैः तात्पर्याार्पितदृष्ट्या । प्रकृते → अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहदि सर्वभूतेष्ववस्थितम् ।। - (क.दे.सं. २५) इति कपिलदेवहूतिसंवादवचनं, → यतिः स्वहृदयार्चनमेव कुर्याद् बाह्यार्चनं परिहरेदपुनर्भवाय - (मैत्रे.२/२६) इति च मैत्रैय्युपनिषद्वचनं, → न यतेदेवपूजा - (ना.परि.५/६) इति नारदपरिव्राजकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । ___ अथ निरारम्भसामायिकादिनैव जिनपूजाया अन्यथासिद्धतयाऽनुपादेयत्वं गृहस्थस्येति चेत् ? न, एकानुष्ठानस्य विहिताऽन्याऽनपवादकत्वात्, अन्यथा दानादीनामपि तेनान्यथासिद्ध्यापत्तेः । न हि शास्त्रोक्तानुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयम्, अन्यत्तु नेति । → पुव्वुत्तगुणसमग्गं धरिउं जइ
માટે જે અષ્ટપ્રકરણની ટીકામાં જણાવેલ છે કે – તેથી સામાયિકમાં રહેલ શ્રાવક પણ પૂજાનો અધિકારી નથી. કારણ કે સામાયિકમાં રહેલ શ્રાવક પણ આરંભ-સમારંભથી નિવૃત્ત થયેલ હોવાને કારણે ભાવસ્તવમાં આરૂઢ થયેલ છે. તેથી તે ત્યારે સાધુ જેવો છે. તેથી જે કારણે સાધુને જિનપૂજાનો અધિકાર નથી. તે જ કારણે સામાયિકમાં રહેલ શ્રાવકને જિનપૂજાનો અધિકાર નથી. આથી જ જે ગૃહસ્થ પણ સ્વભાવથી પૃથ્વી વગેરે જીવોની હિંસાથી ભયભીત હોય, અત્યંત યતનાવાળો હોય, પાપપ્રવૃત્તિને ઘટાડવાના રૂચિવાળો હોય તેમજ સાધુક્રિયાનો અનુરાગી હોય તેને ધર્મ માટે આરંભ-સમારંભની પ્રવૃત્તિ કરવી યોગ્ય નથી. ૯(૫/૨૯) १. मुद्रितप्रतौ 'यत्पंचाशकवृत्तिकृत्' इत्यशुद्धतरः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org