________________
३६२
• यतेः पूजकत्वानौचित्यम् • द्वात्रिंशिका-५/२९ प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । गृही तस्यापि नाऽत्राऽर्थेऽधिकारित्वमतः स्मृतम् ।।२९।।
प्रकृत्येति। अतः = भावस्तवाऽधिरूढस्य यतेरत्राऽनधिकारित्वात् यः प्रकृत्याऽऽरम्भीरुयों वा सामायिकादिमान् (गृही) तस्याप्यत्राऽर्थे जिनपूजारूपे अधिकारित्वं न स्मृतम् । (महा.अध्य.३) इत्येवमुपदर्शिता । सम्मतञ्चेदं परेषामपि । तदुक्तं भगवद्गीतायां → श्रेयान् द्रव्यमयाद् यज्ञाद् ज्ञानयज्ञः परंतप ! - (भ.गी.४/३३) इति । तथापि द्रव्यपूजायां प्रवर्त्तने यतेरसंयतत्वाद्यापातः। तदुक्तं महानिशीथ एव → जे णं केइ साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं अजएइ वा असंजए वा देवभोइए वा देवगच्चेइ वा जाव णं उम्मगपइट्ठिएइ वा दुरुज्झियसीलेइ वा कुसीलेइ वा सच्छंदयारिएइ वा आलवेज्जा - (महा. नि.अ.८) इति ।
एतेन द्रव्यपूजायाः परिग्रहनिवारणादिना भावस्तवार्थत्वस्येव सम्यक्त्वशुद्धिकारणत्वस्य → पूयाए कायवहो पडिकुट्ठो सो उ, किंतु जिणपूया । सम्मत्तसुद्धिहेउत्ति भावणीआ उ णिरवज्जा ।। 6 (श्रा.प्र. ३४५) इत्यादिना श्रावकप्रज्ञप्तौ प्रसिद्धत्वात्, मनःशान्ति-ध्यानादिहेतुत्वस्य च → पूयाए मणसंती मणसंतीएहिं उत्तमं झाणं । सुहझाणेण य मोक्खो, मुक्खे सुक्खं अणाबाहं ।। - (सं.प्र.१९९) इति सम्बोधप्रकरणेन प्रसिद्धत्वात् सम्यक्त्वशुद्धिमनःप्रशान्ति-ध्यानादेस्तु यतेरपीष्टत्वात्कथं न तस्य जिनपूजायाः सप्रयोजनत्वमिति निरस्तम्, अग्रेतनभूमिकाऽऽरोहणे प्राथमिकभूमिकोचितोपायाऽवलम्बनस्याऽन्याय्यत्वात्, तथापि तत्र प्रवर्तने साधोः 'हा ! विराधकोऽहमि'त्येवमवद्यस्यैव चित्ते स्फुरणादिति कर्तृपरिणामवशादेवाधिकाराऽनधिकारयोरत्र व्यवस्था शास्त्रप्रसिद्धा स्वीकर्तव्या। महानिशीथेऽपि → अकसिणपव्वत्तगाणं विरयाविरयाण एस खलु जुत्तो । तो कसिणसंजमविऊ पुप्फाइयं न कप्पइ ।। 6 (म.नि.अ.३गा.२८) इत्युक्तम् । आवश्यकनियुक्तिभाष्येऽपि → छज्जीवकायसंजमु दव्यथए सो विरुज्जई कसिणा। तो कसिणसंजमविऊ पुप्फाइअं न इच्छंति।। - (आ.नि.भा.१९३) इत्युक्तम् । यथोक्तं ज्ञानसारेऽपि → द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका ।। 6 (ज्ञा.सा.२९/८) इति ।।५/२८ ।।
प्रकृतमेव दृढयति- 'प्रकृत्येति । भावस्तवाधिरूढस्य अत्र = द्रव्यस्तवे अनधिकारित्वाद् यः सामायिकादिमान् = सामायिक-पौषधस्थो गृहस्थः तस्यापि, किंपुनर्यतेरित्यपिशब्दार्थः, जिनपूजारूपे अर्थे अधिकारित्वं न शास्त्रे स्मृतम् । कर्तृपरिणामवशाज्जिनपूजनाधिकारानधिकारयोर्व्यवस्थितत्वात् यो गृही प्रकृत्या = स्वभावतः आरम्भभीरुः = पृथिव्याधुपमर्दभीरुः तस्यापि = आरम्भभीरोर्गृहस्थस्याऽपि जिनपूजारूपे अर्थे अधिकारित्वं न शास्त्रे स्मृतम् ।
ગાથાર્થ - માટે જે પ્રકૃતિથી પાપભીરૂ હોય અથવા તો સામાયિકવાળા ગૃહસ્થ હોય તેનો પણ पूमा अधि।२उवायेतो नथी. (५/२८)
ટીકાર્ય :- ભાવસ્તવમાં આરૂઢ હોવાના લીધે સાધુને જિનપૂજામાં અધિકાર નથી. આવું પૂર્વે કહી ગયા છીએ. તે જ કારણે જે ગૃહસ્થ સ્વભાવથી જ પાપભીરૂ હોય એટલે કે જિનપૂજાનિમિત્તક સ્નાનાદિ કરવામાં “હાય-હાય ! હું વિરાધના કરું છું.” આ પ્રકારનો પરિણામ જાગતો હોય અથવા તો જે ગૃહસ્થ સામાયિકમાં રહેલો હોય તેમને પણ જિનપૂજાનો અધિકાર કહેવાયેલો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org