________________
• अधिकारवशाच्छास्रोक्तानुष्ठानकर्तव्यतास्थापनम् •
=
सिद्धेः । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्याऽपि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे नियताऽधिकारिकत्वेन व्यवस्थितत्वात् । तदुक्तं- “ अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुण-दोषयोः || ” ( अष्टक २ / ५ ) ||२८|| हि यद् औषधाऽध्ययन- यानादिकं आद्यभूमिकावस्थस्य प्राथमिकदशागतस्य गुणकरं तद् उत्तरभूमि - कावस्थस्यापि = अग्रेतनावस्थावर्तिनोऽपि तथा = गुणकरम्, रोगचिकित्सावद् धर्मस्य जिनेश्वरप्ररूपितस्य शास्त्रे नियताऽधिकारिकत्वेन प्रतिनियताधिकारिकर्तव्यतया व्यवस्थितत्वात् = निश्चितत्वात्, अन्यथाऽजीर्णादिज्वरादौ प्राथम्येन गुणकरं मुद्गपानीयादिकमेवाऽग्रेतनावस्थायामपि प्रदेयं स्यात् । प्रकृते दोषा अपि गुणायन्ते दोषायन्ते गुणास्तथा । सत्त्व - रजस्तमः कर्मजाता द्रव्याद्यपेक्षया ।। ← ( महा. गी. ५/ २७४) इति महावीरगीतावचनमपि स्मर्तव्यम् । किञ्च दग्धेन्धनवह्निन्यायेन यतीनामारम्भसम्पृक्तानुष्ठानाऽभिलाषस्यैवोपशान्तत्वेन कुतः तत्करणसम्भवः परमार्थतः । अष्टकप्रकरणसंवादमाह - 'अधिकारिवशादि'ति । एतच्छ्लोकवृत्तौ श्रीजिनेश्वरसूरिभिः यतयो हि सर्वथा सावद्यव्यापारान्निवृत्ताः । ततश्च कूपोदाहरणेनापि तत्र प्रवर्त्तमानानां तेषामवद्यमेव चित्ते स्फुरति न धर्मः, तत्र सदैव शुभध्यानादिभिः प्रवृत्तत्वात् । गृहस्थास्तु सावद्ये स्वभावतः सततमेव प्रवृत्ताः, न पुनर्जिनार्चनादिद्वारेण स्वपरोपकारात्मके धर्मे । तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति न पुनरवद्यमिति कर्तृपरिणामवशादधिकारेतरौ मन्तव्याविति स्नानादौ गृहस्थ एवाधिकारी न यतिः ← (अ.प्र. २/५ वृ.) इति प्रोक्तम् । तदुक्तं महावीरगीतायां अपि स्वाधिकारं विना धर्मो नास्ति स्वात्मोन्नतिप्रदः ← ( म.गी. ५ / १७५) इति ।
३६१
एतेन जिनपूजनपरित्यागे साधोस्तत्र द्वेषाऽऽपातेन सामायिकव्याघात इति निरस्तम्, अत्र निष्प्र - योजनपरित्यागस्य न द्वेषप्रयुक्तत्वमपि तु विशदतरविवेकदृष्टिप्रयुक्तत्वमिति सामायिकव्याघाताऽभावात् । न हि यानाऽऽरूढो विवेकी पथिको गृहादावागतेऽपि यानं न मुञ्चति, न वा तन्मोचने तस्य तत्र द्वेषप्रसङ्गः, तथाऽननुभवात् । दृश्यते हि प्रयोजनाऽधिकारव्याप्ता शिष्टानां प्रवृत्तिः ।
परेषामपि सम्मतमिदम् । तदुक्तं रामगीतायां संन्यासिनां तु शास्त्रोक्तवर्त्मनैवाऽस्त्यकर्मिता । गृहिणामप्यकर्मित्वेन शास्त्रं प्रतिभाति मे ।। ← ( रा.गी. ९ / ६ ) इति । पूजाधिकारव्यवस्था तु महानिशीथे → भावच्चणमुग्गविहारया दव्वच्चणं जिणपूआ । पढमा जईण, दुण्ह वि गिहीण ।। ←
શકાતું નથી. બરોબર આ જ રીતે શ્રાવકઅવસ્થામાં જિનપૂજા લાભકારી હોવાથી સાધુઅવસ્થામાં પણ જિનપૂજા લાભકારી બને એવો કોઈ નિયમ નથી. રોગની ચિકિત્સા જેમ નિયત હોય છે. અર્થાત્ અમુક વ્યક્તિને અમુક રોગની અવસ્થામાં અમુક પ્રમાણમાં અમુક ઔષધ અપાય છે. તેમ અમુક અવસ્થાવાળા જીવો અમુક પ્રકારનો જ ધર્મ કરી શકે. આ રીતે ચોક્કસ અધિકારી વ્યક્તિને આશ્રયીને શાસ્ત્રમાં ધર્મની વ્યવસ્થા દર્શાવવામાં આવેલ છે. અષ્ટકજીમાં જણાવેલ છે કે → ધર્મના સાધનોની વ્યવસ્થા શાસ્ત્રમાં અધિકારીને આશ્રયીને બતાવેલી છે. જેમ રોગની ચિકિત્સા રોગી ઉ૫૨ ચોક્કસ રીતે કરવામાં આવે તો લાભ થાય, અન્યથા નુકશાન થાય. તેમ સાવદ્યપ્રવૃત્તિરૂપી રોગ જેને લાગુ પડેલ હોય તેવા ગૃહસ્થોને જિનપૂજા ઔષધ તરીકે કામ કરે, સર્વ પાપથી નિવૃત્ત થયેલા સાધુ માટે નહિ. ૯ (૫/૨૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org