________________
३५४ • स्तोत्रपूजाविधिप्रदर्शनम् •
द्वात्रिंशिका-५/२४ (=पिण्डक्रिया-गुणोदारैः) पापानां = राग-द्वेष-मोहपूर्वं स्वयंकृतानां गर्दा = भगवत्साक्षिकनिन्दारूपा तया परैः = प्रकृष्टैः (=पापगर्हापरैः) सम्यक् = समीचीनं यत्प्रणिधानं = ऐकाग्र्यं तत्पुरःसरैः (=सम्यक्प्रणिधानपुरःसरैः) स्तोत्रैश्चैषा = पूजा सङ्गता ।।२४।। लक्षणात् आशयविशुद्धिजनकैः संवेगपरायणैरित्यादिकमप्यत्रानुसन्धेयम् । तदुक्तं पूजाषोडशके → पिण्ड-क्रिया-गुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ।। पापनिवेदनग:ः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ।।
6 (षो.९/६-७) इति । प्रकृतस्तोत्रपूजाविधिस्तु ललितविस्तरायां → साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिपातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभावं स्थान-वर्णाऽर्थाऽऽलम्बनगतचितः सर्वसाराणि यथाभूतानि असाधारणगुणसङ्गतानि भगवतां दुष्टाऽलङ्कारविरहेण प्रकृष्टशब्दानि, भाववृद्धये परयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिम्, अन्येषां सद्विधानतः सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि, भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनिं तत्प्रवेशात्, अगणयन् दंश-मशकादीन् देहे, योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति (ल.वि.शक्रस्तवान्ते पृ. ७८) इत्येवमावेदितः स इहानुसन्धेयो जिनभक्तिनिर्भरहृदयैः ।
न च पुष्पादिविरहे केवलस्तोत्रेभ्यः कथं पूजा सङ्गता स्यादिति शङ्कनीयम्, पुष्पादिपूजायाः शुभभावार्थं विहितत्वात्, तस्य च स्तोत्रेभ्यः समरसाऽऽपत्त्या सद्भूतगुणोत्कीर्तनसंवेगेन प्रकृष्टताऽऽपादनात् । तदुक्तं षोडशके → शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूतगुणोत्कीर्तनसंवेगात् समरसाऽऽपत्त्या ।। 6 (षो.९/८) इति । ततश्च पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धं भवति । न च → सव्वे सरा नियटुंति, तक्का जत्थ न विज्जइ, मइ तत्थ न गाहिया (आचा.१/५/६) इत्यादिना आचाराङ्गे कर्मशून्यस्य परमात्मनः शब्दाऽतीतत्वप्रदर्शनात् कथं स्तोत्रपूजागम्यत्वं स्यादिति वाच्यम्, परमात्मनः कर्माऽतीतत्वेन शब्द-मति-तर्काऽगम्यत्वेऽपि तत्साक्षात्कारप्रणिधानगर्भभक्तिप्रयुक्तस्तोत्रादिसहायेन परोक्षतया गम्यत्वाऽभ्युपगमात् । __इत्थमेव स्वाऽऽवरणविलये तदपरोक्षसाक्षात्कारोपपत्तेः । सम्मतञ्चेदं परेषामपि । तदुक्तं संन्यासगीतायां → तत्त्वाऽतीतं पदं तद्वदवाङ्मनसगोचरम्। सर्वे ज्ञातुं यतन्ते वै साहाय्याच्छब्द-भावयोः ।। - (सं.गी.४/६०) इति । अत एव परमात्मान्वेषण-दिदृक्षा-भक्त्यादिप्रयुक्तानां शब्दानां ब्रह्मत्वोपपत्तेरिति । यद्वा परिभाषान्तरेण परब्रह्मणः शुद्धात्मनो द्रव्यास्तिकनयाभिप्रेतस्य तर्काद्यगोचरत्वेऽप्यपरब्रह्मणः पर्यायास्तिकनयाभिमतस्य शुद्धशब्दादिविषयताऽपि सम्मतैव । ___ एतेन → वचसां मनसां यत्स्यात् शुद्धानां विषयः परम् । तद् ब्रह्म मध्यमं विद्धि 'तन्मे ब्रूही'ति श्रुतेः ।। ( (रा.गी.४/३) इति रामगीतावचनमपि व्याख्यातम् । प्रकृते → जपं निवेद्य देवाय स्तुत्वा તે સ્તોત્રપૂજા કહેવાય. તેમજ રાગ, દ્વેષ અને મોહથી જાતે કરેલા પાપોની ભગવાનની સાક્ષીએ નિંદા કરવામાં તત્પર એવા સ્તોત્રો દ્વારા પણ સ્તોત્રપૂજા થાય. પરંતુ, આ સ્તોત્ર સારી રીતે ચિત્તની એકાગ્રતાપૂર્વક भने महामापूर्व बोटावा मे. (५/२४)
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org