________________
• अष्टोपचारादिपूजाद्योतनम् •
३५१ 'सीसमुरोअरपिट्ठी दो बाहू उरूआ य अट्ठङ्गा' (आवश्यकनियुक्तिभाष्य-१६०) । ( (गु.गी.८४) इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- देवपूजायामष्टाङ्गानां उपलक्षणात् गन्धमाल्याद्यष्टकमपि बोध्यम् । तदुक्तं पूजाप्रकरणे उमास्वातिवाचकैः → 'गन्ध-धूपाऽक्षतैः स्रग्भिः' 'प्रदीपैः बलि-वारिभिः । प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः ।। - (पू.प्र।१४) इति । सम्बोधप्रकरणे च → तहियं पंचुवयारा कुसुम-क्खय-गंध-धूव-दीवेहिं । नेविज्ज-फल-जलेहिं जुत्ता अट्ठोवयारा वि ।। - (सं.प्र.१८७) इत्युक्तम् । श्रीचन्द्रमहत्तरैरपि → वरगंध-धूव-चुक्खक्खएहिं कुसुमेहिं पवरदीवेहिं । नेविज्जफल-जलेहिं य जिणपूआ अट्ठहा होइ - (चन्द्र.) इत्येवमष्टोपचारा पूजोपदर्शिता । योगशास्त्रवृत्ती हेमचन्द्रसूरिभिः → गन्धेर्माल्यैर्विनिर्यद्बहलपरिमलैरक्षतेधूप-दीपैः, सान्नाज्यैः प्राज्यभेदैश्चरुभिरुपहृतैः पाकपूतैः फलैश्च । अम्भैः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ।।
6 (यो.शा.प्रकाश-३/१२४ वृ.) इत्येवमष्टधा पूजोपवर्णिता ।
चैत्यवन्दनमहाभाष्यकृतस्तु → तहियं पंचुवयारा कुसुम-क्खय-गंध-धूव-दीवेहिं । फल-जल-नेविज्जेहिं सहऽट्ठरूवा भवे सा उ ।। अन्ने अढुवयारं भणंति अटुंगमेव पणिवायं । सो पुण सुए न दीसइ न य आइन्नो जिणमयम्मि ।।
6 (चै.म. २१०-२११) इत्याहुः । दर्शनशुद्धिप्रकरणे तु → कुसुम-क्खय-धूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूआ घय-सलिलेहिं अट्ठविहा तस्स कायव्वा ।। - (द.शु. १/२४) इत्यवेमष्टधा पूजोपदर्शिता । प्रकृते → सर्वात्मकत्वं दृश्यविलयो गन्धः, दृगविशिष्टात्मानः = अक्षताः, चिदादीप्तिः = पुष्पम्, सूर्यात्मकत्वं दीपः, परिपूर्णचन्द्राऽमृतरसस्यैकीकरणं = नैवेद्यम्, निश्चलत्वं = प्रदक्षिणम्, सोऽहंभावः = नमस्कारः, परमेश्वरस्तुतिः = मौनम् - (आ.पू.२) इति आत्मपूजोपनिषद्वचनमपि भावग्राहकाऽऽध्यात्मिकनयाभिप्रायेण यथातन्त्रमनुयोज्यं स्व-परतन्त्ररहस्यवेदिभिः ।
एतेन → सदाऽमनस्कमय॑म् । सदादीप्तिरपाराऽमृतवृत्तिः = स्नानम्, सर्वत्र भावना = गन्धः, दृक्स्वरूपाऽवस्थानं = अक्षताः, चिदाप्तिः = पुष्पम्, चिदग्निस्वरूपं = धूपः, चिदादित्यस्वरूपं = दीपः, परिपूर्णचन्द्राऽमृतरसस्यैकीकरणं = नैवेद्यम्, निश्चलत्वं = प्रदक्षिणम्, सोऽहंभावः = नमस्कारः
(मं.बा.२/३) इत्यादि मण्डलब्राह्मणोपनिषद्वचनमपि व्याख्यातम् ।
प्रकृते → स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणं = विभूषणम् । सच्चित्सुखपरिपूर्णतास्मरणं = गन्धः । समस्तविषयाणां मनसः स्थैर्येणाऽनुसन्धानं = कुसुमम् - (भाव.१) इति भावनोपनिषद्वचनमपि भावपूजापेक्षया योज्यम् । प्रकृते →
अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ।।
कूर्यात् संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् । पूजयेद् ध्यानयोगेन सन्तोषैः कुसुमैः सितैः ।। છાતી, પેટ, પીઠ, બે હાથ અને બે સાથળ- આ આઠ અંગ દ્વારા સાષ્ટાંગ પ્રણામ કરવામાં આવે તે અષ્ટોપચાર પૂજા કહેવાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org