________________
३४९
• प्रतिमाऽभिषेकादेर्निर्दोषताद्योतनम् • मपि अश्लील(न) स्यादतो नैव शङ्का-व्यभिचारित्वम्(?त्वे)]। ____ अष्टौ दिनानि यावत् अविच्छित्त्या = नैरन्तर्येण पूजा बिम्बस्य दानं च (भावतः) विभवानुसारेण शासनोन्नतिनिमित्तमिति ।।२०।। पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः। भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः ।।२१।।
पूजेति व्यक्तः ।।२१।। = प्रतिष्ठितप्रतिमालक्षणस्थापनासत्यमपि गड्डरिकाप्रवाहन्यायेन अश्लीलं = विकृतं = अनुपपन्नं न = नैव स्यात्, अन्यथा पद्मासनाद्यालिङ्गितायां स्थापनायामपि सिद्धाऽवस्थाकल्पनं अनुपपन्नं स्यात्, पद्मासनादेः सिद्धावस्थायां विरहात्, तस्य तत्पूर्वकालीनत्वात् । स्थापनायां जन्माद्यवस्थाकल्पनानङ्गीकारे तुल्यन्यायेन सिद्धावस्थाकल्पनमप्यनङ्गीकार्यं स्यादिति भावः । न च भाववृद्ध्यै प्रतिमायां सिद्धावस्था कल्प्यत इति वाच्यम्, तत एव जन्माद्यवस्थाकल्पनेऽपि क्षतिविरहात् । अतः = अस्मात् कारणात् = सिद्धावस्थावज्जन्माद्यवस्थाविभावनस्याऽपि प्रतिमायां भाववृद्ध्यै शास्त्रविहितत्वात् नैव शङ्का-व्यभिचारित्वे अविरतसम्यग्दृशां देशविरतानाञ्च शास्त्रविहितत्वात् प्रतिमाऽभिषेकाद्यनापत्तिलक्षणा शङ्का न लब्धावकाशा, सर्वसावधनिवृत्तिमतामवद्यस्फुरणेन निषिद्धत्वात् प्रतिमाऽभिषेकाद्यनिष्टापत्तिलक्षणा शङ्काऽपि न लब्धावकाशा, सिद्धावस्थावज्जन्माद्यवस्थाकल्पनाया भाववृद्ध्यै शास्त्रविहितत्वादेव ‘पद्मासनाद्यालिङ्गितप्रतिमायां जन्माद्यवस्थाविरहेण जलाऽभिषेकादिकरणलक्षणो व्यभिचारोऽपि = विसंवादोऽपि न सावकाशः इति दृढतरमवधेयम् ।
एवं साक्षेप-परिहारं प्रतिष्ठाविधिं परिसमाप्य तच्छेषमाह- ‘अष्टौ दिनानी'त्यादि । तदुक्तं षोडशके → अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्तव्या । दानञ्च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः ।। 6 (षो.८/१६) इति ।।५/२०।।।
प्रतिमाप्रतिष्ठाऽधिकारं समाप्य तत्पूजाधिकारमवतारयति- 'पूजे'ति । यद्वा ‘अष्टौ दिनान्यविच्छित्त्या पूजा' इत्युक्तम् । सैव स्वरूपतोऽभिधीयते- 'पूजे'ति ।
इत्थं = निरुक्तरीत्या प्रतिष्ठितस्य अर्हतः = तीर्थकरस्य बिम्बस्य भक्त्या = "भवाम्भोधौ निमज्जतां जन्तूनां प्रवहणरूपोऽयं भुवनगुरु रित्यादिकुशलपरिणामरूपया विलेपनं चन्दन-कुङ्कुमादिभिः, स्नानं गन्धद्रव्यादिसंयोजितं स्नात्रं, पुष्पाणि सुगन्धीनि जात्यादीनि, धूपः सुगन्धी काकतुण्डादिः, तदादिभिः = विलेपनस्नानपुष्पधूपादिभिः अपरैरपि शुभैः गन्धद्रव्यविशेषैः स्वविभवाऽनुसारेण त्रिसन्ध्यं स्ववृत्त्यविरुद्ध કલ્પના કરવી એ ભાવવૃદ્ધિ માટે શાસ્ત્રવિહિત છે. તેથી જિનપ્રતિમામાં જન્મઅવસ્થાનું ઉદ્દભાવન કરી, ભક્તિભાવપૂર્વક કરવામાં આવતો જળાભિષેક વગેરે પણ સુસંવાદી જ છે.
પ્રતિષ્ઠા પછી આઠ દિવસ સુધી સતત પ્રતિષ્ઠિત પ્રતિબિંબની પૂજા કરવી તથા પોતાનાં વૈભવ મુજબ શાસનની પ્રભાવના મુજબ દાન કરવું. (પ/૨૦)
ગાથાર્થ :- આ રીતે પ્રતિષ્ઠિત થયેલ જિનપ્રતિમાની વિલેપન, સ્નાત્ર, પુષ્પ, ધૂપ વગેરે ઉત્તમ द्रव्योथी मस्तिपूर्व पू. ४२वी. (५/२१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org