________________
३४५
• अङ्गवैकल्ये प्रधानाऽनिष्पत्तिः • सम्प्रदायागतं चेह मन्त्रन्यासादि युक्तिमत् । अष्टौ दिनान्यविच्छित्त्या पूजा दानं च भावतः ॥२०॥
सम्प्रदायेति । इह = प्रतिष्ठाविधौ मन्त्रन्यासादिकं च क्षेत्रसंशोधनाऽभिवर्षणादिनिष्पत्तये वायु-मेघकुमारादिविषयं संप्रदायाऽऽगतं = शिष्टपारम्पर्याऽऽयातं युक्तिमद् भवति ।
[परः प्राह- इत्थं विशिष्टन्यायार्जने(? न्यायार्जितद्रव्य)भावशुद्धनिष्पन्नबिम्बस्य स्थापनाऽवसरे बल्यादेः विघ्नोपशान्त्यर्थमापादनमसारम्, भावशुद्धनैव(? भावशुद्ध्यैव) सिद्धेः । ____ उपचरितप्रतिष्ठाविधिं सक्षेपेणाह- 'सम्प्रदायेति । मन्त्रन्यासादिकं = मन्त्रन्यासाऽऽह्वान-पूजनस्वकर्मनियोगादिकम् । शिष्टपारम्पर्याऽऽगतं इति हेतुमुखेन विशेषणम् । ततश्च ‘मन्त्रन्यासादिकं युक्तिमत्, शिष्टसम्प्रदायाऽऽगतत्वात्, विशिष्टजितव्यवहारवदिति प्रयोगः प्रकृते कर्तव्यः । एतेन मुख्यप्रतिष्ठाया मुख्यदेवतोद्देशेनात्मनि ‘सोऽहमि'त्यात्मभावस्थापनरूपत्वात् उपचरितप्रतिष्ठायाश्च प्रतिमागतायाः ‘स एवायमिति मुख्यदेवताविषयस्य निजभावस्याऽऽरोपात्मकत्वात् प्रतिमायां मन्त्रन्यासादि-वायुकुमाराद्यावानादिकमयुक्तमिति प्रत्यस्तम्, शास्त्रानुसारि-शिष्टसम्प्रदायाऽऽयातमन्त्रन्यासादेरपि तदङ्गत्वात्, अङ्गवैकल्ये प्रधानाऽनिष्पत्तेः । अत्र सोपयोगित्वात् षोडशककारिका दर्श्यन्ते → एषा च लोकसिद्धा शिष्टजनाऽपेक्षयाखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः ।। आवाहनादि सर्वं वायुकुमारादिगोचरं चाऽत्र । सम्मार्जनादिसिद्ध्यै कर्तव्यं मन्त्रपूर्वं तु ।। न्याससमये तु सम्यक् सिद्धाऽनुस्मरणपूर्वकमसङ्गम् । मुक्तौ तत्स्थापनमिव कर्तव्यं स्थापनं मनसा ।। बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः । सकलाऽवञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च ।। लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमॆत्र्यादिसङ्गतैर्वृहणीय इति ।।
• इति (षो.८/१०-११-१२-१३-१४)
परः प्राहः इत्थं = न्यायोपात्तवित्ताऽनघशिल्पिनियोजन-विभवोचितमूल्यदान-दौहृदपूरण-वैज्ञानिकाऽप्रीतिपरिहार-मुख्यदेवतोद्देश्यकनिजभावस्थापनादिप्रकारेण विशिष्टन्यायाऽर्जने = आगमोक्तशोभननीतिसम्पादने 'यद्यस्य सत्कमिहाऽनुचित्तं वित्तं तज्जं पुण्यं तस्य भवतु' इति शुद्धाऽऽशयकरणात् भावशुद्धनिष्पन्नबिम्बस्य स्थापनाऽवसरे = मुख्यदेवोद्देशेन ‘स एवायमिति निजभावाऽऽरोपणप्रस्तावे विघ्नोपशान्त्यर्थं बल्यादेः आपादनं = बल्यादिढौकनं गर्दभरोमगणनाऽऽयासन्यायेन असारं = तुच्छं, भावशुद्धेनैव = भावशुद्ध्यैव
હ મંત્રજાસ બલિ વગેરેની આવશ્યક્તા હા ગાથાર્થ :- પ્રસ્તુતમાં સંપ્રદાયથી આવેલ મંત્રજાસ વગેરે ક્રિયા યુક્તિસંગત થાય છે. પ્રતિષ્ઠા પછી ૮ દિવસ સુધી નિરંતર પૂજા કરવી જોઈએ અને ભાવથી દાન દેવું જોઈએ. (૫/૨૦).
ટીકાર્ય - પ્રતિષ્ઠાવિધિમાં ક્ષેત્રશુદ્ધિ, જલવૃષ્ટિ વગેરે કાર્યની નિષ્પત્તિ માટે વાયુકુમાર, મેઘકુમાર વગેરે દેવ સંબંધી શિષ્ટ પરંપરાથી આવેલ મંત્રન્યાસ વગેરે કરવા એ યુક્તિસંગત છે.
પૂર્વપક્ષ - આ રીતે ન્યાયઉપાર્જિત ધન વિનિયોગ, વ્યસનમુક્ત શિલ્પીને સન્માનપૂર્વક ઉચિત મૂલ્યનું અર્પણ વગેરે શાસ્ત્રોક્ત વિધિના પાલન સ્વરૂપ વિશિષ્ટન્યાયનું સંપાદન થવાથી શુદ્ધ આશયથી નિષ્પન્ન થયેલ १. हस्तादर्श ‘भवतः' इति पाठः । २. [ ] असम मापे पृ४.३४८ सुधानो विस्तृत 46 संवे॥ ७॥श्रयनी तम४ पाटन मंst२नी .लि. प्रतम नथी. ३. मुद्रितप्रतौ 'बल्यादिवि...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org