________________
• जयदेवमिश्राभिप्रायाऽऽविष्करणम् •
३४१ प्रतिष्ठायाः क्रियेच्छारूपत्वे तद्ध्वंसस्य प्रतिमाऽनिष्ठत्वात् ।
अयमाशयः अस्पृश्यस्पर्शकालादऽर्वाक् प्रतिष्ठितप्रतिमागतस्य प्रतिष्ठाध्वंसस्य पूज्यत्वप्रयोजकत्वम्, विशिष्टसत्त्वात् । प्रतिष्ठोत्तरं चाण्डालादिस्पृष्टप्रतिमागतस्य प्रतिष्ठाध्वंसस्य न पूज्यत्वप्रयोजकत्वम्, प्रतिष्ठाकालीनाऽस्पृश्यस्पर्शप्रागभावप्रच्यवेन विशेषणाऽभावप्रयुक्तविशिष्टाभावसत्त्वात् । यत्र नैव जातु चाण्डालादिस्पर्शस्तत्र प्रतिमायां सदैव प्रतिष्ठाध्वंसस्य पूज्यत्वप्रयोजकत्वम्, प्रतिबन्धकाऽभावलक्षणविशेषणविशिष्टस्य पूज्यत्वप्रयोजकस्य सत्त्वात् । न चाऽस्पृश्यस्पर्शकालीनप्रतिष्ठयाऽपि पूज्यत्वाऽऽपत्तिरिति वाच्यम्, तत्र कर्मवैगुण्येन प्रतिष्ठाया एवाऽसत्त्वात् । न चानाद्यन्तर्भावे गौरवम्, यावन्तोऽस्पृश्यस्पर्शाऽभावास्तदभावसहितस्यैव प्रतिष्ठाध्वंसस्य पूज्यताप्रयोजकत्वसम्भवादिति वाच्यम्, तावदऽभावसहितप्रतिष्ठाध्वंसस्य हेतुत्वे तावन्तोऽभावा अपि प्रतिबन्धकाऽभावविधया हेतव इति ध्रुवम् । तथा चाऽनाद्यनन्तर्भावे साद्यभावानामपि जनकत्वमिति बहूनां जनकत्वे गौरवमिति अल्पजनकत्वलाघवेन सादिव्यावर्तनार्थमनादिपदोपादानादिति तत्त्वचिन्तामणेः आलोकटीकायां जयदेवमिश्रः ।
ग्रन्थकारः चिन्तामणिकृन्मताऽयुक्तत्वे हेतुमाह- प्रतिष्ठायाः क्रियेच्छारूपत्वे = प्रतिष्ठाविधिबोधितक्रियागोचरेच्छात्मकत्वे स्वीक्रियमाणे तद्ध्वंसस्य = तादृशेच्छाप्रतियोगिकध्वंसस्य प्रतिमाऽनिष्ठत्वात् = स्वरूपसम्बन्धेन बिम्बेऽसत्त्वात्, प्रतिमाया ध्वंसप्रतियोगिसमवायिकारणत्वविरहात्, ध्वंसस्य च स्वप्रतियोगिसमवायिकारणनिष्ठत्वनियमात् । ततश्च ‘इयं प्रतिमा प्रतिष्ठिता' इति व्यवहाराऽनापत्तिः प्रतिमापूज्यत्वाऽनुपपत्तिः प्रतिमापूजाफललाभाऽसङ्गतिश्च दुर्वारा । प्रत्युत तादृशक्रियागोचरेच्छाध्वंसस्य स्वप्रतियोगिसमवायिकारणीभूते प्रतिष्ठाकारयितरि निष्ठत्वात् तस्मिन् पूज्यत्वप्रतिष्ठितत्वव्यवहाराऽऽपत्तेः ।
यद्वा → ‘क्रियेच्छारूपत्वे' इत्यत्र द्वन्द्वसमासमङ्गीकृत्य प्रतिष्ठायाः क्रियारूपत्वे इच्छारूपत्वे च स्वीक्रियमाणे तद्ध्वंसस्य = प्रतिष्ठाविधिबोधिताऽऽह्वानादिक्रियाविशेषप्रतियोगिकध्वंसस्य प्रतिष्ठाकारयितृशरीरनिष्ठत्वात् ‘इयं प्रतिमा प्रतिष्ठिता भवत्वि'त्यादिरूपायाः च इच्छाया ध्वंसस्य स्वरूपसम्बन्धेन प्रतिष्ठाकारकात्मनिष्ठत्वात्, तयोः प्रतिमाऽनिष्ठत्वात्, तस्या ध्वंसप्रतियोगिसमवायिकारणत्वविरहादिति व्याख्यान्तरमप्यत्र योज्यम् । शक्तिवादे तु ‘प्रतिमाऽनिष्ठत्वात्' इत्यत्रस्थाने 'प्रतिमानिष्ठत्वाऽभावादिति पाठः ।
ननु प्रतिष्ठाया न क्रियाविशेषरूपत्वं इच्छाविशेषरूपत्वं वा, उक्तदोषाऽऽपातात् । किन्तु संयोगविशेषरूपत्वमिति न कश्चिद्दोषः, पूज्यत्वप्रयोजकस्य तद्ध्वंसस्य स्वप्रतियोगिसमवायिकारणीभूतप्रतिमानिष्ठत्वेन
तरपयिंतामशिरना मतनुं निरा5रए. ગંગેશ ઉપાધ્યાયની ઉપરોક્ત વાત જ્યાં સુધી વ્યવસ્થિત રીતે વિચાર કરવામાં ન આવે ત્યાં સુધી બહુ સુંદર લાગે તેવી છે. પરંતુ બહુ ઉંડાણથી વિચાર કરતાં આ વાત વ્યાજબી લાગે તેમ નથી. કારણ કે પ્રતિષ્ઠાને જો મંત્રોચ્ચાર વગેરે ક્રિયા સ્વરૂપ માનવામાં આવે, અથવા તો તેવી ક્રિયા કરવાની ઈચ્છાસ્વરૂપ માનવામાં આવે તો પ્રતિષ્ઠાધ્વસ પ્રતિમામાં નહિ રહી શકે, કારણ કે તેવી ક્રિયા અથવા તેની ઈચ્છા સ્વરૂપ પ્રતિષ્ઠા પ્રતિમામાં નથી રહેતી, માટે તેનો ધ્વંસ પણ પ્રતિમામાં ન રહી શકે. આથી પ્રતિમા અપૂજ્ય થવાની આપત્તિ આવશે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org