SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ • प्रतिष्ठाविधिजनितशक्तिमीमांसा • .३३९ यत्पुनरुच्यते चिन्तामणिकृता - 'प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः' कारणत्वं न बोध्यते, किं तु भूताऽर्थे क्ताऽनुशासनादतीतप्रतिष्ठे पूज्यत्वं बोध्यते । नात्र कोऽप्यतिप्रसङ्गः किन्तु प्रतिमापूज्यताप्रयोजकसम्बन्धकुक्षावननुगततत्तत्सौवर्ण-राजत-ताम्र-लेप्यमार्त्तप्रतिमादिवैशिष्ट्यनिवेशेऽननुगमदोषस्य सुदुर्निवारता स्पष्टैवेति नव्यनैयायिकमतं न श्रद्धेयम् । ___यत्तु → प्रतिष्ठाकारयितृगताऽदृष्टं न पूजाफलप्रयोजकम्, परेषां तदभावात् तददृष्टक्षये प्रतिमापूज्यताऽनापत्तेः, चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशाऽयोगाच्चेति प्रतिष्ठाऽऽहिता चाण्डालादिस्पर्शनाश्या शक्तिः पूजाफलप्रयोजिका 6 इति मीमांसकैर्मीमांसितं तदसत्, प्रतिष्ठितत्वज्ञानाऽऽहितभक्तिविशेषद्वारा प्रतिष्ठायाः पूजाफलप्रयोजकत्वात्, अस्पृश्यस्पर्शादिप्रतिसन्धानस्य च भक्तिविशेषव्याघातकत्वेनाऽनुपपत्त्यभावात् । शक्तिपक्षे चाऽप्रतिष्ठितत्वभ्रमेऽपि विशिष्टपूजाफलापत्तेरिति व्यक्तं योगदीपिकायाम् (षो.८/ ४ यो.दी.व.पृ.१८७) __ अनादिमत्यां हि प्रतिमायां सर्वस्यामेव भगवदऽ भेदाध्यारोप इष्टसाधनम् । आदिमत्यां तु प्रतिष्ठितायामेवेति प्रतिष्ठाऽऽहितशक्तिकल्पनमनतिप्रयोजनमित्यापातदर्शिनः ।। अत्रेदमवधेयम्- यद्यपि प्रतिमायां प्रतिष्ठितत्वज्ञानं प्रतिष्ठाविधिप्रतिसन्धानोत्थापितवचनाऽऽदरभगवबहुमानाऽऽहितसमापत्तिद्वारा विशिष्टफलप्रयोजकमित्युक्तम् । अत एव मूलोत्तरगुणसहस्रसमेतसूरिप्रतिष्ठैवोत्सर्गतः प्रमाणम्, प्रतिष्ठोत्कर्षस्य समापत्त्युत्कर्षकत्वात् । तथापि वस्तुतः प्रतिष्ठितायां प्रतिमायां भगवदाऽऽरोपस्तत्पूजनं वा सामान्यफलं नाऽतिक्रामतीत्युक्त्या तृणाऽरणिमणिन्यायेन तन्नियामकशक्तिसिद्धिः 'विषयभेदात् फलभेद' इति व्यवहारनयसाम्राज्यात् । अत एव साधुत्वाऽसाधुत्वविवेचनाऽभावेऽपि पात्रभेदाद्दानफलभेदस्तत्र तत्र व्यवतिष्ठते । आलम्बनमतन्त्रं, भावभेद एव फलभेदहेतुरिति नयान्तरमतमिति व्यक्तं गुरुतत्त्वविनिश्चये (गु.त.वि.१/१६) । .. ___ गङ्गेशमतमावेदयति- यत्पुनरिति 'तदप्यविचारितरमणीयमि'त्यनेनान्वेति । 'प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः कारणत्वं = पूज्यताकारणत्वं पूजाफलप्रयोजकत्वं वा न बोध्यते = नैव ज्ञाप्यते, किन्तु भूतार्थे = अतीताऽर्थे क्ताऽनुशासनात् = व्याकरणशास्त्रेण क्तप्रत्ययविधानात् अतीतप्रतिष्ठे = प्रतिष्ठाक्रियाध्वंसविशिष्टे देवताबिम्बे पूज्यत्वं बोध्यते । तेन ‘प्रतिष्ठाध्वंसविशिष्टबिम्बप्रतियोगिकं पूजनमिष्टसाधनमिति बोधो जायते । ‘सविशेषणौ हि विधि-निषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायात् अप्रतिष्ठितबिम्बे तद्बाधात् 'प्रतिष्ठाध्वंसः पूज्यत्वप्रयोजक' इत्यर्थो लभ्यते । न चैवं હ તત્વચિંતામણિકરનો મત છે यत्पुनः । प्रतिक्षास्थलमा तत्वयिंतामण गणेश पाध्यायन मंतव्य मेछ । "प्रतिष्ठितम् पूजयेत्" આ પ્રમાણે જે વિધિવાક્ય શાસ્ત્રમાં સંભળાય છે તેના દ્વારા પ્રતિસાગત પૂજ્યતા પ્રત્યે પ્રતિષ્ઠા કારણ છે એવું જણાવવામાં આવતું નથી. કારણ કે “પ્રતિષ્ઠિત” શબ્દમાં કર્મણિભૂતકૃદંતનો “” પ્રત્યય ભૂતકાળના અર્થમાં વપરાય છે. તેથી ઉપરોક્ત વાક્ય દ્વારા ભૂતકાળનું જ્ઞાન થવું જરૂરી છે. તેથી ઉપરોક્ત વાક્યનો અર્થ એ १. मुद्रितप्रतौ 'प्रतिष्ठिताया' इति पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy