________________
३३४
• असर्वज्ञदेवप्रतिष्ठामीमांसा • द्वात्रिंशिका-५/१९ देवतायां सर्वज्ञत्वाऽभावे व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाऽहङ्कारममकाराऽनुपपत्तेः । (श्रा.प्र.३९३) इति श्रावकप्रज्ञप्तिवचनात्, → काम-क्रोधौ महापापौ (ग.गी.२/३७) इति गणेशगीतावचनात्, → को दुक्खं पाविज्जा ? कस्स य दुक्खेहिं विम्महओ हुज्जा ?। को व न लभिज्ज मुक्खं ? राग-द्दोसा जइ न हुज्जा ।। 6 (म.स.१३९) इति मरणसमाधिप्रकीर्णवचनात्, → रागदोसे च दो पावे पावकम्मपवत्तणे (उत्त.३१/३) इति उत्तराध्ययनसूत्रवचनात् → दुविहे बंधे पन्नत्ते । तं जहा- पेज्जबंधे चेव, दोसबंधे चेव - (स्था.२/२/४/१०७) इति स्थानाङ्गसूत्रवचनात्, → रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा - (यो.श.५३) इति योगशतकवचनाच्च तेषां दोषत्वसिद्धेः ।
इत्थञ्च रागाद्युपेतस्येश्वरत्वं नैव युज्यत इति स्थितम् । ततश्च → तुष्टो यच्छेद् वाञ्छितार्थं महेशः - (सि.शि.२४) इति सिद्धान्तशिखोपनिषद्वचनात् रागोपेततयोमापतेः परमोपास्यता बाध्यते । एवमेव → तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं (वि.पु.१/१७/९१) इति विष्णुपुराणोक्तेरपि विष्णोः सरागत्वसिद्ध्या देवत्वं बाध्यते । → रागो द्वेषश्च संसारकारणं सद्भिरिष्यते । तयोर्विवर्जितो ज्ञाता मुक्तः स परमेश्वरः ।। (अर्ह.गी.२१/१६) इति अर्हद्गीतावचनात्, → भग्गरागो ति भगवा, भग्गदोसो ति भगवा - (म.नि.पा.१/१०/८३) इति महानिदेसपालिवचनाच्च योगिनामुपासनीयाया वीतरागदेवताया एव प्रसिद्धेः । एतेन → सन्निधानञ्च तत्र तेषामहङ्कार-ममकारौ, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञः - (न्या कु. ११२ वृ.) इति न्यायकुसुमाञ्जलौ उदयनस्य वचनं निराकृतम्, सरागेश्वरदेवतायाश्च रागविडम्बितैरेवाभ्युपगन्तुमर्हत्वात्, संसारिषु संसारगामिनामितरेषु चेतरेषां भक्तिः स्वरससिद्धेति योगतन्त्रप्रसिद्धम् । तदुक्तं योगदृष्टिसमुच्चये → संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ।। (यो.दृ.स.१९१) इति । __ एतेन वीतरागत्वेन देवत्वमेव न स्यात्, फलदानविरोधादिति प्रत्यस्तम्, रागादिरहितत्वेऽप्यचिन्त्यचिन्तामणिकल्पत्वेन स्वेष्टफलदायकतयाऽपि तस्यैव तत्त्वतो देवत्वात् । तदुक्तं श्रावकप्रज्ञप्तौ पञ्चाशके च → उवगाराभावम्मि वि पुज्जाणं पूयगस्स उवयारो । मंताइसरणजलणाइसेवणे जह तहेहंपि ।। (श्रा.प्र.३४८, पञ्चा.४/४४) इति । यथा चैतत् तथा भावयिष्यतेऽग्रे (द्वा.द्वा.५/३२ पृष्ठ ३७१) ।
वस्तुतो दोषराहित्यमेव परमदेवत्वप्रयोजकं न त्विष्टफलदायकत्वमिति त्ववधेयम् ।
यत्तु शिवानन्दलहाँ → जनन-मृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र 6 (शिवा.३) इत्युक्तं ततः सिद्धानां कर्मशून्यत्वेन जन्माद्यपेतानां परमोपास्यताऽनाविलैवेति ध्येयम् ।
किञ्च देवतायां सर्वज्ञत्वाभावे व्यासङ्गदशायां = अन्यक्रियाकरणव्यग्रावस्थायां व्यवहितनानादेशेषु = मिथोऽतिदविष्ठेषु विविधस्थलेषु प्रतिष्ठाकर्मबाहुल्ये च = युगपत् प्रतिष्ठाविधिबहुलतायां सत्यां तत्र सर्वत्राऽसर्वज्ञसरागदेवस्योपयोगाऽसौकर्यात् अहङ्कार-ममकारानुपपत्तेः, प्रतिष्ठामन्त्राऽऽह्यानादिजन्यसंस्कारवि
વળી, સરાગદેવમાં સર્વજ્ઞતા પણ સંભવિત નથી. તેથી અસર્વજ્ઞ રાગી દેવ અન્ય કાર્યમાં વ્યગ્ર હોય તેવી અવસ્થામાં અત્યંત દૂર રહેલાં અનેક દેશોમાં ઘણી જગ્યાએ એકસમયે તે રાગી અસર્વજ્ઞ દેવની પ્રતિષ્ઠા કરવામાં આવે તો સર્વત્ર તેમનું અહંકાર-મમકારબુદ્ધિ સ્વરૂપ સાંનિધ્ય અવશ્ય હોય તેવું અસંદિગ્ધપણે કહી શકાતું નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org