SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३१२ • द्रव्यहिंसायाः एकान्तेनाऽशोभनत्वाभावः • द्वात्रिंशिका-५/९ इत्थमिति । इत्थं च = यतनावत्त्वे च एषः = प्रकृत आरम्भः अधिकत्यागाद् = निष्फलाऽधिकाऽऽरम्भनिवृत्तेः फलाऽन्वितः = श्रेयःफलयुक्तः सदारम्भः प्रत्यहं = प्रतिदिवसं भाववृझ्या = कृताऽकृतप्रत्युपेक्षणादि-शुभाशयाऽनुबन्धरूपया आप्तैः = साधुभिः भावयज्ञः = भावपूजारूपः प्रकीर्तितः। तदाह 'एतदिह भावयज्ञः' (षो.६/१४) इति । न चैवं द्रव्यस्तवव्यपदेशाऽनुपपत्तिः, ___ साध्यत्वाऽऽख्यविषयतया शुद्धर्माहात्म्यमाह- 'इत्थमिति । यतनावत्त्वे च = स्वकृतिसाध्ययतनासत्त्वे हि प्रकृतः = जिनभवनकृत्यालम्बनो भगवद्भक्त्युद्देश्यको निदानशून्य आरम्भः = द्रव्यारम्भः = द्रव्यप्राणाऽतिपातः निष्फलाऽधिकाऽऽरम्भनिवृत्तेः श्रेयःफलयुक्तः = अभ्युदय-निःश्रेयसलक्षणफलद्वितयसमेतः सदारम्भः = शोभनाऽऽरम्भः सम्पद्यते । तत्र हि जिनभवनादिविधाने सर्वाऽऽदरेण प्रवर्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतोऽवश्यमेवाऽस्त्यारम्भान्तरनिवृत्तिविशेषः । जिनभवनविधाने यतनायां सत्यां भावहिंसाऽनुपपत्तेः, तस्या एव शास्त्रे परिहार्यत्वेन प्रतिपादनात्, द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुःपरिहारत्वात् । यतनाया एव हिंसानिवृत्तिफलकत्वात्, जिनभवनस्य विहितत्वाच्च नाऽयमारम्भोऽशोभनः । तदुक्तं षोडशके → यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ।। - (षोड.६/१६) इति । स्वाशयवृद्धिमाह- प्रतिदिवसं कृताऽकृतप्रत्युपेक्षणादिशुभाऽऽशयाऽनुबन्धरूपया = जिनभवनप्रतिबन्धेन ‘एतदिह निष्पन्नं तच्च निष्पाद्यमि'त्यवलोकनादिलक्षणस्य प्रशस्ताऽध्यवसायस्याऽविच्छिन्नप्रवाहात्मिकया भाववृद्ध्या भावपूजारूपः । तदुक्तं स्वाशयवृद्धिद्वारनिरूपणे षोडशके → प्रतिदिवसमस्य वृद्धिः कृताऽकृतप्रत्युपेक्षणविधानात् । एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ।। एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाऽविच्छित्त्या नियमादपवर्गबीजमिति ।। 6 (षो.६/१४-१५) इति । न च एवं = द्रव्यस्तवस्यापि दर्शितविधिशुद्धिद्वाराऽऽज्ञाऽऽराधनलक्षणभावपूजांऽशमवलम्ब्य भावस्तवत्वविधाने द्रव्यस्तवव्यपदेशानुपपत्तिः = द्रव्यस्तवोक्त्यसङ्गतिस्स्यादिति भवद्भिरत्र शङ्कनीयम्, 53. छे. (५/८) ટીકાર્ય - ઉપરોક્ત રીતે દેરાસર બનાવનાર શ્રાવક જયણાવાળો હોવાથી દેરાસરસંબંધી થતો આરંભ સુંદર આરંભ છે. કારણ કે દુકાન-ઘરસંબંધી નિષ્ફળ આરંભ-સમારંભ તથા અજયણા નિમિત્તે થનાર અધિક આરંભ સમારંભની પ્રસ્તુતમાં નિવૃત્તિ છે. તેમજ દેરાસર સંબંધી પ્રસ્તુત આરંભ કલ્યાણકારી ફળથી યુક્ત છે. તેમજ દેરાસરસંબંધી આટલું કામ થયું, આટલું કામ બાકી છે.” આવા નિરીક્ષણ વગેરે સ્વરૂપ શુભાશયનો અનુબંધ પડવા સ્વરૂપ રોજની ભાવવૃદ્ધિના લીધે દેરાસરનું નિર્માણ ભાવપૂજાસ્વરૂપ બને છે. એવું આપ્ત સાધુભગવંતો વડે કહેવાયેલ છે. શ્રીહરિભદ્રસૂરિ મહારાજે ષોડશક પ્રકરણમાં “અહીં દેરાસરનું નિર્માણ ભાવયજ્ઞ = ભાવપૂજા બને છે.” એમ જણાવેલ છે. “જો દેરાસરનિર્માણને ભાવયજ્ઞ કહેવામાં આવે તો તેનાં વિશે દ્રવ્યસ્તવનો વ્યવહાર અસંગત બની જશે.” આવી શંકા અહીં ન કરવી. કારણ કે, ભાવસ્તવનો પ્રયોજક ભાવ અને દ્રવ્ય આ બન્નેનું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy