________________
• पञ्चविधशुद्धिप्रज्ञापनम् •
३११ जलादियतनावता), अनेन साध्यत्वाऽऽख्यविषयतया शुद्धिरभिहिता ॥८॥ इत्थं चैषोऽधिकत्यागात्सदारम्भः फलाऽऽन्वितः। प्रत्यहं भाववृद्ध्याऽऽप्तैर्भावयज्ञः प्रकीर्तितः।।९।। ख्यविषयतया शुद्धिरभिहिता । जिनभवनोपयोगिजलगालन-परिमितत्वादिना जलादिजीवपीडापरिहारं प्रसाध्य शुभाऽऽशयः क्रियत इति साध्यविधया शुद्धिं प्रति यतना कारणम् । अत एवेयं श्राद्धवत् साधुनाऽप्युपादेया । तदुक्तं दशवैकालिके → जयं चरे जयं चिट्ठे जयमासे जयं सए । जयं भुंजतो भासंतो पावं कम्मं न बंधइ ।। - (द.वै.४/८) इति । बौद्धानामपि सम्मतमिदम् । अत एव इतिवृत्तके → यतं चरे यतं तिढे यतं अच्छे यतं सये ८ (इति.५/१२ सम्पन्नसुत्त) इत्युक्तम् ।
प्रकृतमुच्यते - प्रकृत आशयः शुद्धः, स्वकृतिसाध्ययतनोपेतत्वात्, मुनिकृतिसाध्यमहाव्रतपालनोपेताशयवदिति प्रयोगः प्रकृते दृश्यः । जिनभवनकृत्याऽऽलम्बनत्वाद् भगवद्भक्त्युद्देश्यकत्वात् स्वकृतिसाध्ययतनोपेतत्वाच्चाधिकृताऽऽशये त्रिधा शुद्धिरनाविला ज्ञातव्या। यतनोपेतत्वात् हेतुशुद्धिः; निदानरहित्वात् स्वरूपशुद्धिः, भवनिस्तारफलकजिनभक्त्युद्देश्यकत्वाच्चाऽनुबन्धशुद्धिरधिकृताशये विज्ञेया । यद्वाऽत्र हेतुशुद्धिः जिनरागात् = शुद्धात्मस्वरूपरागात् = शुद्धचैतन्यमात्रविशेष्यकोपादेयत्वप्रकारकनिश्चयादिति यावत्; स्वरूपशुद्धिस्त्वसदारम्भत्यागाद् यतनोपेतत्वाच्च; अनुबन्धशुद्धिश्च गृहाऽऽपणादिसत्काऽऽरम्भपरित्यागोद्देश्यकत्वादिति नयमतभेदेन परिभावनीयमेतदागममर्मपर्यालोचनपरैर्विमुक्ताऽभिनिवेशैरशठैः ।
एवमेव 'भवाम्भोधिनिमग्नसत्त्वानामालम्बनभूतोऽयमि'त्येवं भुवनगुरुजिनेन्द्रगुणपरिज्ञया जिनबिम्बस्थापनाऽवसरे स्वाशयशुद्धिरवसेया । तदुक्तं स्तवपरिज्ञायां → सासयवुड्ढी वि इहं भुवनगुरुजिणिंदगुणपरिण्णाए । तब्बिंबगठवणत्थं, सुद्धपवित्तीइ णियमेणं ।। - (स्त.प.१६) इति । अयञ्च समुदितविधिः दर्शनशुद्धिप्रकरणे → जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भियगाऽणइसंधाणं सासयवुड्ढी य जयणा य ।। ( (द.शु.प्र.१।१७) इत्येवमावेदितः षोडशकानुसारेणेति ध्येयम् ।
इह शम्भुगीतायां → देश-काल-मनो-द्रव्य-क्रियाशुद्धिर्हि पञ्चधा 6 (शं.गी.३/९०) इत्येवमुपदर्शिता पञ्चविधा शुद्धिरपि योज्या । तथाहि- 'शुद्धां महीम्' (पृ.३०५) इत्यनेन देशशुद्धिरुक्ता, 'पूर्णकलशादिसुशकुनपूर्वमिष्टकादिदलोपादानमपि' (पृ.३०८) इत्यनेन कालशुद्धिरावेदिता, ‘परोपतापरहितां' (पृ. ३०५) 'शुभाशयस्फात्या' (पृ.३०७) 'गवाद्यपीडया' (पृ.३०७) 'स्वाशयश्च विधेयः' (पृ.३०९) इत्यादिना मनःशुद्धिः कथिता, 'न्यायार्जितधनः' (पृ.३०४) इत्यनेन द्रव्यशुद्धिः, 'शास्त्रनीतितो गृह्णीयात्' (पृ.३०५) इत्यनेन क्रियाशुद्धिोतिता । यथातन्त्रं तन्त्रान्तरीयशुद्धिरप्यत्रानुयोज्या समाकलितस्व-परसमयसिद्धान्तैः ।।५/८।। નામની વિષમતારૂપે પણ અહીં શુદ્ધિ જણાવાયેલ છે. (૫૮).
હ દ્રવ્યસ્તવ પણ ભાવસ્તવ બને જ સાધ્યત્વસ્વરૂપ વિષયતારૂપે શુદ્ધિનું મહાભ્ય જણાવતા ગ્રંથકારશ્રી જણાવે છે કે –
ગાથાર્થ :- આ રીતે દેરાસરસંબંધી પ્રવૃત્તિ અધિક આરંભના ત્યાગથી પ્રવર્તેલ હોવાથી સદ્ આરંભ સ્વરૂપ છે. તેમજ ફલયુક્ત છે. તથા રોજ ભાવવૃદ્ધિના લીધે આમ પુરુષોએ તેને ભાવયજ્ઞ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org