________________
• जिनालयकर्मकराणां धर्ममित्रता •
३०९ धर्मनिमित्तत्वेन धर्ममित्रत्वात, तेषु वञ्चनविरहितभावेनैव धर्मोपपत्तेः ।।७।। स्वाशयश्च विधेयोऽत्राऽनिदानो जिनरागतः । अन्यारम्भपरित्यागाज्जलादियतनावता ॥८॥
स्वाशयश्चेति । स्वाशयश्च = शुभाऽऽशयश्च विधेयः अत्र = जिनभवनकृत्ये अनेनाऽऽलम्बनत्वाविघ्नेन जिनालयनिर्वाहका भवन्ति । तदुक्तं षोडशके → भृतका अपि कर्तव्या य इह विशिष्टाः स्वभावतः केचित्। 'यूयमपि गोष्ठिका इह' वचनेन सुखं तु ते स्थाप्याः ।। 6 (षो.६/१०) इति ।
सूत्रपिटकाऽन्तर्गते दीघनिकाये पाथिकवर्गे → पञ्चहि खो गहपतिपुत्त ! ठानेहि अय्यिरकेन हेट्ठिमा दिसा दास-कम्मकरा पच्चुपट्ठातब्बा- (१) यथाबलं कम्मन्तसंविधानेन, (२) भत्त-वेतनानुप्पदानेन, (३) गिलानुपट्टानेन, (४) अच्छरियानं रसानं संविभागेन, (५) समये वोस्सग्गेन - (दी.नि. भाग-३ । सिङ्गालसुत्त-२७२ पृष्ठ-१४५) इत्येवं यत् पञ्चधा भृतकप्रत्युपस्थानमुपदर्शितं तदपीह पालनीयम् । अय्यिरकेन = आर्येण श्रावकेण, कम्मन्तसंविधानेन = कार्यप्रदानेन, गिलानुपट्ठानेन = भृतकानां ग्लानदशायां स्वयमुपस्थानेन, अच्छरियानं रसानं संविभागेन = उत्तमरसोपेतफलादिप्रदानेन, समये = यथासमयं, वोस्सग्गेन = व्युत्सर्गेण, विसर्जनेनेति यावत् । शिष्टं स्पष्टम् ।
तेषामपि = जिनभवनकर्मकराणामपि धर्मनिमित्तत्वेन = जिनभवननिमित्तक-जिनदर्शन-वन्दनपूजन-सम्यग्दर्शनादिलक्षणधर्मनिमित्ततया धर्ममित्रत्वात्, तेषु धर्ममित्रेषु भावेन = वञ्चनविरहितभावेनैव जल-कतकरेणुन्यायेन मनोमलोपशान्त्या धर्मोपपत्तेः = धर्मसङ्गतेः, न तु व्याजात् = नैव वञ्चनादिह धर्मो भवति । तदुक्तं षोडशके → अतिसन्धानञ्चैषां कर्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाऽऽशयादेव ।। 6 (षो.६/११) इति ।
स्तवपरिज्ञायामपि → कारवणेऽवि य तस्सिह भयगाऽणतिसंधणं न कायव्यं । अवि याऽहियप्पयाणं दिट्ठाऽदिट्ठप्फलं एयं ।। ते तुच्छया वराया अहिएण दढं उवेंति परितोसं । तुट्ठा य तत्थ कम्मं तत्तो अहियं पकुव्वंति।। धम्मपसंसाए तह केइ, निबंधंति बोहिबीआई । अन्ने य लहुयकम्मा एत्तो च्चिय संपबुझंति ।। लोगे अ साहुवाओ अतुच्छभावेन सोहणो धम्मो । पुरिसुत्तमप्पणीओ पभावणा एवं तित्थस्स ।।
- (स्त.प.१२-१३-१४-१५) इत्यादिना दृष्टाऽदृष्टफलं भृतकाऽनतिसन्धानमुपवर्णितम् ।।५/७ ।।
षोडशकोपदर्शितं चतुर्थं स्वाशयवृद्धिद्वारमवसरप्राप्तम् । तत्र कः स्वाशयः ? इत्याह- ‘स्वाशय' इति जिनभवनकृत्ये = जिनाऽऽलयकर्तव्यमवलम्ब्य शुभाशयश्च विधेयः = कर्तव्यः । अनेन = जिनभवनश्रावने भावधर्म संभवे. (५/७)
શુભાશય નામના વિશેષણને ઉદેશીને ગ્રંથકારશ્રી જણાવે છે કે –
ગાથાર્થ - પ્રસ્તુતમાં ભગવાનની ભક્તિને ઉદેશીને જલ વગેરે સંબંધી જયણાવાળા શ્રાવકે મલિન આરંભનો ત્યાગ કરીને નિયાણારહિત શુભાશય કરવો. (૫૮)
ટીકાર્થ:- અહીં દેરાસર બનાવવાના કર્તવ્યને આશ્રયીને શ્રાવકે શુભ પરિણામ ઉત્પન્ન કરવાનો છે. અર્થાત્ પોતાના શુભાશયનું આલંબન જિનાલય છે. આથી જિનાલયમાં શુભાશયની આલંબનતા આવશે. આથી १. हस्तादर्श 'धर्मापत्तेः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org