________________
• जिनगृहभूमिपरीक्षणम् •
३०५ तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।३।।
तत्रेति । तत्र = जिनभवनकारणे प्रक्रान्ते, शास्त्रनीतितः = वास्तुविद्या-धर्मशास्त्रोक्तन्यायाऽनतिक्रमेण । परोपतापः = प्रातिवेश्मिकादिखेदः ।।३।।
___ भूमिगतां द्रव्यशुद्धिमाह- 'तत्रे'ति । शुद्धां = धनिकपराभवेनाऽगृहीतां महीं = भूमिं गृह्णीयात् वास्तुविद्या-धर्मशास्त्रोक्तन्यायाऽनतिक्रमेण इति । स च न्यायः प्रतिष्ठासारोद्धारे → रम्ये स्निग्धं सुगन्धादि दुर्वाद्याढ्यां स्वतः शुचिम् । जिनजन्मादिना वास्ये स्वीकुर्याद् भूमिमुत्तमाम् ।। - (प्रति.सा.१८) इत्थमावेदितः । भूमिशुद्धिनिरूपणं श्राद्धविधिवृत्तौ श्रीरत्नशेखरसूरिभिः → सुस्थानं पुनः शल्य-भस्मक्षात्रादिदोषैनिषिद्धायादिना च रहितं बहुलदुर्वा-प्रवाल-कुश-स्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादुजलोद्गमनिधानादिमच्च 6. (श्रा.वि.वृ.६/१२/पृ.३१) इत्येवमकारि । भूमिगतां भावशुद्धिमाह- प्रातिवेश्मिकादिखेदः, तेन रहितां महीं गृह्णीयादित्यन्वयः । द्विविधाऽपि भूमिशुद्धिः स्तवपरिज्ञायां → दव्वे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दव्वेऽपत्तिगरहिया अन्नेसिं होइ भावे उ ।। - (स्त.प.४) इत्येवं वर्णिता । कथारत्नकोशेऽपि → एत्थ विही पुण सुद्धा दब्वे सल्लाइवज्जिया भूमी । भावे य पराऽपत्तियरहिया पढमं निरूवेज्जा ।। - (कथार.को. पृ.६७/गा.५) इत्युक्तम् । ___ भविष्यद्भद्रसन्ततिं = अनागतकालीन-स्वाऽन्यकल्याणपरम्पराऽऽवहां, आत्मनिस्तारार्थं क्रीताया अपि तस्याः ‘गृहार्थमारोपितस्य देहलीदीपस्य रथ्योपकारकत्वमिति न्यायेन परेषामप्युपकारकत्वसम्भवात् । यथोक्तं “एतद् दृष्ट्वाऽऽर्हतं चैत्यमनेके सुगतिं गताः। यास्यन्ति बहवश्चान्ये ध्याननिधूतकल्मषाः ।। यात्रा-स्नात्रादि कर्मेह भूतमन्यच्च भावि यत् । तत्सर्वं श्रेयसां बीजं ममाऽर्हच्चैत्यनिर्मितौ ।। साधु जातो विधिरयं कार्योऽतः परमेष मे । अर्हच्चैत्येष्विति ध्यानं श्राद्धस्य शुभवृद्धये ।। अहंपूर्विकया भक्तिं ये च कुर्वन्ति यात्रिकाः । तेऽपि प्रवर्धयन्त्येव भावं श्रद्धानशालिनाम् ।।”( ) इति ।
शुद्धभूमिस्वरूपनिरूपणे षोडशकेऽपि → शुद्धा तु वास्तुविद्याविहिता संन्यायतश्च योपात्ता । न परोपतापहेतुश्च सा मुनीन्द्रैः समाख्याता ।। 6 (षोड.६/४) इत्युक्तम् ।।५/३।। કરેલ છે. સંભવતઃ આ બધા વિશેષણો ઉત્સર્ગ માર્ગે હોય તે જરૂરી છે. તો તેવા શ્રાવક જિનાલયો બનાવવાના ઉત્તમ અધિકારી તરીકે ગણી શકાય. અમુક ગુણ ઓછાં હોય તો મધ્યમ અધિકારી ગણી शाय. त्या पातो गुरुगमथी l सेवी. (५/२)
ગાથાર્થ - તેમાં સૌપ્રથમ બીજાને અપ્રીતિ ન થાય તેવી અને ભવિષ્યમાં કલ્યાણની પરંપરા પ્રાપ્ત થાય તેવી રીતે શુદ્ધ જમીનને શાસ્ત્રનીતિથી ગ્રહણ કરવી જોઈએ. (૫/૩)
ટીકાર્ય - દેરાસર બનાવવાનું અહીં પ્રસ્તુત છે. તેમાં સૌ પ્રથમ ભૂમિગ્રહણની વિધિ બતાવાય છે. વાસ્તુવિદ્યા અને ધર્મશાસ્ત્રમાં બતાવવામાં આવેલી મર્યાદાનું ઉલ્લંઘન કર્યા વિના શુદ્ધભૂમિને ગ્રહણ કરવી. તેમજ પાડોશીને ઉગ ન થાય તેવી રીતે ગ્રહણ કરવી તથા જે ભૂમિમાં ભવિષ્યમાં અનેક કલ્યાણની પરંપરા પ્રાપ્ત થવાની શક્યતા હોય તેવી ભૂમિને ગ્રહણ કરવી. (૩)
વિશેષાર્થ :- હાડકાં, રાખ વગેરે દોષોથી યુક્ત જમીન લેવાનો ઉપરના વાક્યોથી નિષેધ સૂચિત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org