________________
• जिनालयकारणाधिकारिस्वरूपवर्णनम् • द्वात्रिंशिका-५/२ न्यायेति । धीरः = मतिमान् गुर्वादिसम्मतः = पितृ-पितामह-राजाऽमात्यप्रभृतीनां बहुमतः। ईदृग्गुणस्यैव 'जिनभवनकारणाऽधिकारित्वमिति भावः ।।२।।
द्रव्यस्तवस्वरूपजिनभवनविधानाधिकारिणमेवाऽऽह- 'न्याय'ति ।
न्यायेन = ब्राह्मण-क्षत्रिय-विट्-शूद्राणां स्वजातिविहितव्यापारेण शुद्धमान-तुलोचितकलाव्यवहारादिरूपेण आसेवनीयावसरोचिताराधनादिरूपेण च अर्जितं धनं येन सः न्यायार्जितधनः (षोड.५/१३ यशोवि. वृत्तिः + धर्मबिन्दुवृत्ति-१/३) । धीरः = मतिमान् = आयतिहितज्ञः । सदाचारः = अनिन्द्याऽऽचारः । शुभाशयः = प्रवृद्धधर्माऽध्यवसायः । ईदृग्गुणस्यैव जिनभवनकारणाधिकारित्वं, शास्त्राऽऽज्ञाशुद्धत्वात् । तदुक्तं षोडशके → न्यायाऽर्जितवित्तेशो मतिमान् स्फिताऽऽशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याऽधिकारीति ।। 6 (षोड.६/२) इति । उपलक्षणात् शुभस्वजनादिगुणवैशिष्ट्यमप्यधिकारिविशेषणमवगन्तव्यम्। तदुक्तं पञ्चाशके → अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुलओ। अक्खुद्दो धिइबलिओ मइमं तह धम्मरागी अ।। गुरुपूयाकरणरई सुस्सूसाऽऽइगुणसंगओ चेव । णायाऽहिगयविहाणस्स धणियमाणप्पहाणो य ।।
6 (पञ्चा.७/४-५) इति । सम्यक्त्वप्रकरणे अपि → अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुलजो । अक्खुद्दो धिइबलिओ मइमं तह धम्मरागी य ।। 6 (स.प्र. १/२१) इत्येवमेतदधिकारी दर्शितः । कथारत्नकोशे देवभद्रसूरिभिरपि → अहियारी य इह च्चिय निम्मलकुलसंभवो विभवभागी । गुरुभत्तो सुहचित्तो अच्चंतं धम्मपडिबद्धो ।। बहुसुहिसयणो सुस्सूसपमुहगुणसंगओ विसुद्धमई। आणापहाणचिट्ठो दह्रब्यो जिणहरविहाणे ।।
८ (कथार.को. पृ.६७ गा.३/४) इत्युक्तम् । एतादृशाऽधिकारिकारितजिनालयस्य महागुणत्वम् । यथोक्तं पञ्चाशके → एसो गुणद्धिजोगा अणेगसत्ताण तीइ विणिओगा। गुणरयणवियरणेणं तं कारिता हियं कुणइ ।। तं तह पवत्तमाणं दह्र केइ गुणरागिणो मग्गं । अण्णे उ तस्स बीयं सुहभावाओ पवज्जंति ।।
- (पञ्चा.७/६-७) इति । अनधिकारिणा तत्करणे तु दोषः ।
तदुक्तं दर्शनशुद्धिप्रकरणे → अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ च्चिय धम्मो आणाइ पडिबद्धो ।। (द.शु. १/१८) ।।५/२।।
ટીકાર્થ - જિનાલય બનાવનાર ગૃહસ્થના અહીં જે પાંચ વિશેષણ બતાવવામાં આવેલ છે, તેમાંથી ધીર એવા બીજા વિશેષણનો અર્થ બુદ્ધિમાન એવો કરવો. અર્થાત “ભવિષ્યનાં આત્મહિતને જાણનાર’ એવો અર્થ સમજવો. તથા “ગુરુ આદિને સંમત” આ વિશેષણમાં ગુરુ શબ્દથી પિતાજી, દાદાજી વગેરે લેવાં. તેમજ આદિપદથી રાજા, મંત્રી વગેરે લેવાં. આ બધાને માન્ય એવા ગૃહસ્થ જિનાલય બનાવવાના અધિકારી છે. આવા પાંચ ગુણથી યુક્ત હોય તે જ દેરાસર બનાવવાના અધિકારી છે. (૧૨)
વિશેષાર્થ :- અશુદ્ર, સંસ્કારી પરિવારથી યુક્ત, શુશ્રુષા આદિ ગુણથી યુક્ત... ઈત્યાદિ વિશેષણો પણ જિનાલય બનાવવાના અધિકારી શ્રાવકમાં હોવા જરૂરી છે. આવો ઉલ્લેખ પંચાશક વગેરે ગ્રંથોમાં १. हस्तादर्श 'जिनभन....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org