________________
• सन्तानाश्रितहिंसाव्यवहाराऽसङ्गतिः •
६०७ यं = विषयं आसाद्य = प्राप्य हन्त इति प्रत्यवधारणार्थः कोमलाऽऽमन्त्रणार्थो वा, एष = शास्त्रोपन्यासः सफलः = सप्रयोजनः भवेत् = स्यात् + (अ.प्र.१५/७) इति । सोऽयं पिण्याकयाचनार्थं गतस्य खारिकातैलदातृत्वाभ्युपगमन्यायमनुसरति ।
तदुक्तं ग्रन्थकृताऽपि बौद्धमतनिराकरणावसरे न्यायखण्डखाद्ये → एकान्ताऽनित्यवादेऽपि स्वरसत एव सर्वेषां प्रतिक्षणध्वंसशीलत्वे कस्य केन हिंसा ? न च विसभागक्षणोत्पत्तिरेव हिंसा, तन्निमित्तत्वस्य प्राक्तनव्याधक्षणस्येव बुद्धक्षणस्याप्यविशेषाद् व्याधवद् बुद्धस्यापि मृगघातकत्वाऽऽपत्तेः । न च विसभागक्षणजननाऽनुकूलाऽध्यवसायवत्त्वमेव हिंसा, यो नरो मृत्वा प्रेत्य नर एव भविता तद्धिंसायामव्याप्तेः । न च विसभागक्षणजनकत्वावच्छिन्नविषयताकाऽध्यवसायवत्त्वं सा, अस्ति च 'नरो म्रियतामि'तीच्छायामपि विसभागक्षणोत्पत्तिविषयताशालित्वमेवेति वाच्यम्, रूपपरावर्त्तादिक्रियाऽध्यवसायेऽतिव्याप्तेः । न च तत्सन्तानत्वाऽवच्छिन्नप्रतियोगिताकविसभागताशालिसन्तानान्तःपातिक्षणजननत्वावच्छिन्नविषयताशाल्यध्यवसायवत्त्वं सा, 'इतो नरत्वं विहाय देवो भूयासमि'त्याद्याकारे दान-दयाद्यध्यवसायेऽतिप्रसङ्गात् । न चाध्यवसाये क्लिष्टत्वविशेषणान्नाऽनुपपत्तिरिति वाच्यम्, हिंसाविषयत्वाऽतिरिक्तस्य क्लिष्टत्वस्य दुर्वचत्वेनाऽऽत्माश्रयात्, सन्तानादेः सांवृतत्वेन पारमार्थिकस्याऽध्यवसायस्यैव चाऽसिद्धेः, आहार्यस्य च हिंसाऽहिंसाद्यध्यवसायस्य व्यवहारनिमित्तत्वेन कल्पितस्य सर्वलोकविगर्हितत्वेनोपहासपात्रतायाः पारमर्षे विस्तरेण प्रतिपादितत्वात् प्रमाकृतहिंसाद्यव्याप्तेश्च न किञ्चिदेतत् (न्या.खं.खा.गा.७७/पृ.६७५) इति ।
आत्मनः सर्वथाक्षणिकत्वे तु → सब्बे तसन्ति दण्डस्स सव्वे भायन्ति मच्चुणो । अत्तानं उपमं कत्वा न हनेय्य न घातये ।। - (ध.प.१०/१), → सब्बे तसन्ति दण्डस्स सब्बेसं जीवितं पियं । अत्तानं उपमं कत्वा न हनेय्य न घातये ।। - (ध.प.१०/२) इति धम्मपदवचनं, → सुखकामानि भूतानि यो दण्डेन न विहिंसति । अत्तनो सुखमेसानो पेच्च सो लभते सुखं ।। 6 (उदा.पृ.१२) इति उदानवचनं → एतादिसं पुञमनुस्सरता ये वेदयता विचरंति लोके । विनेय्य मच्छेरमलं समूलं अनिन्दिता सग्गमुति ठानंति ।। 6 (वि.व.पृ.३३) इति विमानवत्थुवचनं च कथमपि नैवोपपद्येत, एकान्तक्षणिकवादे परलोकस्यैवाऽयोगात् ।
तदुक्तं अध्यात्मोपनिषदि → आनन्तर्यं क्षणानां तु, न हिंसादिनियामकम् । विशेषाऽदर्शनात्तस्य बुद्ध-लुब्धकयोर्मिथः ।। - (अ.उप.१/५७) इति । यथाकथञ्चिद्धिंसाधुपपादनेऽपि कृतनाशाऽकृताभ्यागमादिदोषजालमनिवारितप्रसरमेवैकान्तक्षणिकवादे । तदुक्तं पञ्चलिङ्गिप्रकरणे → अकयाऽऽगमकयनासो विण्णाणखणम्मि भावओ सन्ते । उदयाणंतरनासे जेण कयं सो न भुत्त त्ति ।। संताणो उ' अवत्थू, अचेयणाओ य चेयणमजुत्तं । जुज्जइ सहकारित्तं नृणमुवादाणरूवत्तो ।। - (पं.लि.७९/८०) इति ।
વિશેષાર્થ :- ઉપરોક્ત બૌદ્ધમાન્ય શાસ્ત્રપાઠ હિંસાના વર્જન ઉપર વજન આપે છે. પરંતુ આપણે હમણાં ઉપર જોઈ ગયા તે મુજબ ગૌતમબુદ્ધ જેવા પણ સ્વઅવ્યવહિતોત્તર વિસદેશક્ષણના જનક હોવાથી હિંસક બની જાય છે. તો પછી બીજા સામાન્ય કક્ષાના જીવો તો કઈ રીતે અહિંસક-હિંસાત્યાગી બની શકે ? માટે બૌદ્ધ વિદ્વાનોએ હિંસકત્વની જે વ્યાખ્યા કરી છે તે બરાબર નથી. (૮/૨૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org