________________
६०६
• बौद्धमतेऽहिंसाप्रतिपादकशास्त्राऽसङ्गतिः • द्वात्रिंशिका-८/२३ विशेषात्, एवं = उक्तप्रकारेण तद्विरतिः = हिंसाविरतिः क्वापि न स्यात्, ततः शास्त्रादीनाम् = अहिंसाप्रतिपादकशास्त्रादीनामसङ्गतिः (= शास्त्राद्यसङ्गतिः) स्यात् । न चैतदिष्टं परस्य, "सब्बे' तसंति दंडेन सब्वेसिं जीवितं २पियं, अत्तानं उपमं कत्ता नेव हन्ने न घातये" ।। ( ) इत्याद्यागमस्य परैरभ्युपगमात् ।।२३।। जनकत्वसाम्यात्, लुब्धकस्य बुद्धस्य च तत्सम्भवात् । तदेतत् 'पुत्रलिप्सया देवं भजन्त्या भर्ताऽपि नष्ट' इति न्यायमनुसरति । शिष्टं स्पष्टम् ।
तदुक्तं अष्टकप्रकरणे → तस्यापि हिंसकत्वेन, न कश्चित्स्यादहिंसकः। जनकत्वाऽविशेषेण, नैवं तद्विरतिः क्वचित् ।। - (अ.प्र.१५/६) तवृत्तिस्त्वेवम् → तस्यापि = म्रियमाणस्य हरिणादेरन्त्यक्षणस्यापि, आस्तां व्याधस्य, हिंसकत्वेन = व्यापादकत्वेन न = नैव कश्चित् = कोऽपि बोधिसत्त्वादिरपि, स्यात् = भवेद् अहिंसकः = अव्यापादकः। कथमेतदित्याह - जनकत्वाऽविशेषेण बुद्धादेर्लुब्धकादेश्च अनन्तरक्षणस्योत्पादकत्वेऽविशिष्टत्वात् । उपादान-सहकारिभावेन तयोर्यदि परं विशेषस्तत्र च यदि सहकारितयापि हिंसकत्वं तदोपादानभावेन सुतरां तद् भविष्यतीति । अथ भवतु नामाऽविशेषेण हिंसकत्वं को दोषः ? इत्याशङ्क्याह - नैवं = नामुना प्रकारेणाऽविशेषेण जनकहिंसकत्वाऽभ्युपगमलक्षणेन तद्विरतिः = हिंसानिवृत्तिः क्वचित् = देशान्तरे कालान्तरे पुरुषान्तरेऽवस्थान्तरे विषयान्तरे वेति + (अ.प्र. वृ.१५/६)। __मा भूदहिंसा का नो हानिर्भविष्यतीति चेत्? अत्र आह अष्टकप्रकरणकारः → उपन्यासश्च शास्त्रेऽस्याः, कृतो यत्नेन चिन्त्यताम् । विषयोऽस्य यमासाद्य, हन्तैष सफलो भवेत् ।। - (अ.प्र.१५/७) इति । तवृत्तिस्त्वेवम् → उपन्यासश्च = उपादानं पुनः कृत इति सम्बन्धः । यदि उपन्यासं नाऽकरिष्यत्तदा हानिरपि नाऽभविष्यदिति भावः। क्वासौ कृतः ? इत्याह- शास्त्रे = सौगतशासने, यदाह “सर्वे त्रसन्ति दण्डेन, सर्वेषां जीवितं प्रियम् । आत्मानमुपमा मत्वा, नैव हिंसेत् न घातयेत् ।।” ( ) अस्याः = अहिंसायाः कृतो = विहितः इत्यतो यत्नेन = आदरेण चिन्त्यतां = पर्यालोच्यतां त्वया क्षणवादिना । कोऽसावित्याह विषयो = गोचरः अस्य = शास्त्रे अहिंसोपन्यासस्य । किम्भूतो विषयश्चिन्त्यताम्, બની જશે. કહેવાનો આશય એ છે કે ગૌતમબુદ્ધને કોઈ શિકારી બાણ મારે અને એનું મૃત્યુ થાય તો વિસદશ ક્ષણનું ઉત્પાદન કરવામાં જેમ શિકારી નિમિત્ત કારણ છે તેમ ગૌતમબુદ્ધ પોતે તેનું ઉપાદાન કારણ છે જ. કારણ કે તે બન્નેની અવ્યવહિત ઉત્તર ક્ષણમાં વિસદશ વિજ્ઞાન ક્ષણની ઉત્પત્તિ થાય છે. આમ સ્વ અવ્યવહિત ઉત્તર ક્ષણનું ઉત્પાદકત્વ ગૌતમ બુદ્ધ અને શિકારી બન્નેમાં આવવાથી તે બન્ને હિંસકરૂપે સમાન બની જશે. આ રીતે હિંસાની વિરતિ ક્યાંય પણ થઈ નહિ શકે. તેથી અહિંસાનું પ્રતિપાદન કરનાર શાસ્ત્ર વગેરે અસંગત થઈ જશે. પરંતુ આ વાત તો બૌદ્ધ વિદ્વાનોને પણ માન્ય નથી. તેમના પ્રાચીન શાસ્ત્રોમાં જણાવેલ છે કે – “બધા જીવો દંડ-પ્રહાર વગેરેથી ત્રાસ પામે છે. બધા જીવોને જીવન પ્રિય છે. તેથી બધા જીવોને આત્મસમાન-સ્વતુલ્ય માનીને કોઈને હણવો ન જોઈએ भने ओछने uquो न भे.' (८/२3) १. 'सत्त्वेऽस्य संति' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'सच्चे त्र' इत्यशुद्धः पाठः। २. मुद्रितप्रतौ 'प्रियं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org