________________
५७६
• तत्त्वप्रतिपत्तिप्रयोजकद्योतनम् • द्वात्रिंशिका-८/१४ अर्थयाथात्म्यशङ्का तु तत्त्वज्ञानोपयोगिनी । शुद्धार्थस्थापकत्वं च तन्त्रं सद्दर्शनग्रहे ।१४।। ____ अर्थेति । अर्थस्य = अहिंसादेर्याथात्म्यस्य = स्वतन्त्रप्रसिद्धनित्याश्रयवृत्तित्वाऽनित्याऽऽश्रयवृत्तित्वादेः शङ्का (=अर्थयाथात्म्यशङ्का) तु विचारप्रवृत्त्या तत्त्वज्ञानोपयोगिनी । ततश्च प्रतीयमानं शुद्धार्थस्य = सर्वथा शुद्धविषयस्य व्यवस्थापकत्वं = प्रमितिजनकत्वं (=शुद्धार्थस्थापकत्वं च) ___ अहिंसादेः स्वतन्त्रप्रसिद्धनित्याऽऽश्रयवृत्तित्वाऽनित्याश्रयवृत्तित्वादेः तद्गताऽभिप्रेतसकलविचारोपन्यासार्थं कृत्वाचिन्तान्यायेन जायमाना शङ्का तु इति साङ्ख्य-नैयायिकादितन्त्रप्रसिद्धो यः कूटस्थनित्य आत्माऽहिंसाश्रयविधया, तद्वृत्तित्वमहिंसादौ सङ्गच्छते न वा ? इति साङ्ख्य-नैयायिकादिशङ्का, एवमेव बौद्धदर्शनप्रसिद्धो य एकान्तक्षणिक आत्माऽहिंसाश्रयविधया, तद्वृत्तित्वमहिंसादौ सङ्गच्छते न वा ? इति बौद्धशङ्का च विचारप्रवृत्त्या = माध्यस्थ्यगर्भतत्त्वबोधाऽनुकूलविचारविमर्शद्वारा तत्त्वज्ञानोपयोगिनी = तत्त्वप्रतिपत्तिप्रयोजिका । विचारपाटवेन यावद् यावद् विवेकदाढ्यं भवति तावत् तावद् भ्रमशैथिल्यं जायते, तरतमभावाऽऽपन्नसाधनाऽऽयत्तं फलं तरतमभावाऽऽपन्नमिति न्यायात् । विचारविषयत्वं च नाऽज्ञातस्य नापि निश्चितस्य किन्तु सन्दिग्धस्य, ‘सन्दिग्धं सप्रयोजनं च विचारमर्हती'ति न्यायादिति रघुनाथः । तदुक्तं नैष्कर्म्यसिद्धिवृत्तौ ज्ञानोत्तमेन अपि → 'सन्दिग्धे न्यायः प्रवर्तत' इति न्यायात् सन्दिग्धस्यैव विचार्यत्वात् + (नै.सि.४/३ वृत्ति) । इत्थञ्च ह्रद-नक्रन्यायेन तत्त्वज्ञानाऽर्थयाथात्म्यशङ्कयोरन्योऽन्योपयोगित्वमेवेति भावः । न चैवमन्योन्याश्रयः शङ्कनीयः, वनसिंहन्यायेन तदपाकरणात् । यथा किरातवध्यः सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः किरातेभ्यो न बिभेति वनं च सिंहाधिष्ठानानुगृहीतं किरातैः दुष्प्रवेशं भवति तथाऽत्र यथातन्त्रमनुयोज्यम् ।
यत्तु तन्त्रवार्तिके → दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद् भारैकदेशावतारणार्थं संशयोत्थापनमात्रमेव तावद् युक्तम् + (त.वा.१/३/२२/पृ.२२१) इत्युक्तं तदयुक्तम्, तत्त्वज्ञानस्याऽऽत्मस्वभावानुगुण्येन भाराऽसम्भवात्, स्वोत्पत्तिपूर्वं तस्य अर्थयाथात्म्यशङ्काद्यपेक्षणेऽपि स्वोत्पादनन्तरं तदपेक्षाया अनावश्यकत्वाच्च । क्वचित् परिशुद्धपर्यायान्तरोत्पादार्थं तदपेक्षणेऽपि सर्वत्र तथानियमाऽभावादिति दिक् ।
प्रकृतमुच्यते - ततश्च = तादृशतत्त्वज्ञानाच्च प्रतीयमानं सर्वथा शुद्धविषयस्य = हेतु-स्वरूपाऽनुबन्धादिप्रकारप्रयुक्तशुद्धिसाकल्योपेतगोचरस्य नित्यत्वानुविद्धाऽनित्यत्वशालिन आत्मादिपदार्थस्य प्रमितिजनकत्वं =
ગાથાર્થ :- જ્ઞાનમાં અર્થના માથાભ્યની શંકા તો તત્ત્વજ્ઞાનમાં ઉપયોગી છે. આમ શુદ્ધ અર્થનો પ્રમાત્મક બોધ જે ઉત્પન્ન કરે છે તે સાચા દર્શનને ધર્મને ગ્રહણ કરવામાં પ્રયોજક બને છે. (૮/૧૪)
ટીકાર્થઃ- “અહિંસા વગેરેમાં પોતપોતાના દર્શનશાસ્ત્રમાં જણાવેલ એકાન્ત નિત્ય એવા આશ્રયભૂત આત્મામાં રહેવાપણું સંગત થાય છે કે નહિ?' આવી નૈયાયિક, સાંખ્ય વગેરેને થતી શંકા તેમજ “અહિંસા વગેરેમાં પોતપોતાના દર્શનશાસ્ત્રમાં જણાવેલ એકાન્ત અનિત્ય એવા આશ્રયભૂત આત્મામાં રહેવાપણું સંભવે કે નહિ?” આવી બૌદ્ધ વિદ્વાનોની શંકા વિચારદશા દ્વારા તત્ત્વજ્ઞાનમાં ઉપયોગી છે. કારણ કે તેવી શંકાથી-જિજ્ઞાસાથી મધ્યસ્થ વાદીને ચિંતન કરતાં-કરતાં સર્વ પ્રકારે શુદ્ધ એવા જ્ઞાનવિષયભૂત આત્માનો પ્રયાત્મક બોધ ઉત્પન્ન થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org