________________
५७० • विविधानां प्रमाणलक्षणानां निर्देशः •
द्वात्रिंशिका-८/१२ सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीतिपर्यवसानेनानवस्थाऽभावात् । स्यान्यप्रमाणत्वापत्तिवारणाय 'विभाजकोपाध्यवच्छिन्ने'ति, चाक्षुषादावपि व्यापारवत्तासम्बन्धेन मनसः कारणत्वात्तत्राऽतिव्याप्तिपरिहारकृते 'असाधारणे'त्युक्तम्; 'साधनाश्रयाऽव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वं प्रमाणमिति परे; 'विवादनिर्णयसाधनं प्रमाणमि'त्येके,१० 'कर्तव्यनिश्चायकं प्रमाणमिति ११ऋजवः; 'करणबाह्यभावबोधः प्रमाणमिति १२साङ्ख्याः ; 'असन्दिग्धाऽविपरीताऽनधिगतविषयकबोधरूपप्रमाकरणं प्रमाणम्, संशय-विपर्ययस्मृतिकरणेष्वतिव्याप्तिवारणायोपात्तं बोधरूपप्रमांशे क्रमशो विशेषणत्रितयमि'ति योगिनः१३; 'सम्यगनुभवसाधनं प्रमाणमिति (न्या.सा.परि.१/पृ.१) १४न्यायसारे भासर्वज्ञाचार्याः ‘दोषाऽसहकृतज्ञानकरणं प्रमाणमिति (अ.सि.पृ.१२४) अद्वैतसिद्धिकृतः१५; 'संवादिप्रवृत्तिजननयोग्यज्ञानजनकं प्रमाणमिति १ ब्रह्मविद्याभरणकृतः; 'प्रमाणमात्रसमवेतं प्रमेयार्थावभासनमिति ( ) शैवपरिभाषाकृतः१५; ‘स्वाऽपूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति (परी.मु.१/१) १८परीक्षामुखकृतः; 'यथार्थानुभवो मानमनपेक्षतयेष्यते' (न्या.कु.४/१) इति च १९न्यायकुसुमाञ्जली उदयनाचार्याः, → प्रमाकरणं = प्रमाणम् + (त.सं.१/३) इति २°तर्कसङ्ग्रहकृतः,→ बोधश्च पौरुषेयः फलं = प्रमा, तत्साधनश्च प्रमाणम् - (सां.त.कौ.गाथा.४) इति २१साङ्ख्यतत्त्वकौमुद्यां वाचस्पतिमिश्रा वदन्ति। एतेषां नानाभ्युपगमवतां तीर्थ्यानां विपर्यासलक्षणस्य मुग्धबुद्धीनाञ्चानध्यवसायात्मकस्य व्यामोहस्य निवृत्तिः प्रमाणलक्षणप्रतिपादनप्रयोजनमित्यप्यवगन्तव्यम् । तदुक्तं श्रीसिद्धसेनदिवाकरेणैव न्यायावतारे → प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्व्यामोहनिवृत्तिस्स्याद् व्यामूढमनसामिह ।। - (न्या.अव.३) इति।
ननु समानाऽसमानजातीयव्यवच्छेदादेः प्रमाणलक्षणप्रयोजनत्वपक्षेऽपि नानाविधतल्लक्षणेषु तद्विशेषोपादाने किमनिश्चितं निश्चितं वा तत्? आद्ये प्रेक्षावत्ताहानेः, द्वितीये च किमप्रमाणानिश्चितं प्रमाणाद्वा? आद्ये स एव दोषः, अन्त्ये च तदलक्षणं सलक्षणं वा ? आद्ये सर्वप्रमाणानां लक्षणाऽभिधानमनतिप्रयोजनम्, अन्त्ये च तल्लक्षणं निश्चितमनिश्चितं वा ? इत्येवं विकल्पपरम्परोपनिपातेनाऽनवस्था दुर्वारैवेति चेत् ? अत्रोच्यते - सामान्यतो व्युत्पन्नस्य = ‘लक्षणमात्रमतिव्याप्त्यव्याप्त्यसम्भवदोषरहितं सदर्थादिव्यवस्थापकमिति सामान्यव्युत्पत्तिशालिनः पुरुषस्य तच्छास्त्रात् = स्वाऽभ्युपगततन्त्रराद्धान्तप्रतिपादकग्रन्थविशेषात् अधिकृतविशेषप्रतीतिपर्यवसानेन = प्रमाणलक्षणविशेषबोधविश्रान्त्या अनवस्थाऽभावात् = निरुक्ताऽनवस्थादोषाऽसम्भवात्, व्याकरणादौ शब्दप्रयोगसाधुत्वादिलक्षणवत् ।
નૈયાયિક :- સમાન-અસમાન જાતીયની બાદબાકીને લક્ષણનું પ્રયોજન માનશો તો પ્રમાણલક્ષણરૂપે પ્રમાણલક્ષણના સજાતીય લક્ષણાભાસોની અથવા અન્યવિધ લક્ષણોની અને વિજાતીય એવા ઘટાદિની બાદબાકી કરવા માટે એક નવા પ્રમાણલક્ષણની આવશ્યકતા ઊભી થશે. આમ તમારા મતે પણ અનવસ્થા દોષ તો ઉભો જ રહેશે ને ?
સ્યાદ્વાદી :- ના, આવી અનવસ્થાને પ્રસ્તુતમાં અવકાશ નથી. આનું કારણ એ છે કે સામાન્ય રીતે “અવ્યાપ્તિ-અતિવ્યાપ્તિ દોષ વગરનું લક્ષણ સજાતીય-વિજાતીયની બાદબાકી કરી શકે છે. તેથી પ્રસ્તુતમાં પ્રમાણલક્ષણ તેવું જ હોવું જોઈએ' - આવી સમજણ ધરાવનાર વ્યક્તિને પ્રમાણલક્ષણદર્શક શાસ્ત્રના આધારે પ્રસ્તુત વિશિષ્ટ પ્રમાણલક્ષણની પ્રતીતિ થઈ શકે છે. તેથી અનવસ્થાને અહીં કોઈ અવકાશ નથી. વ્યાકરણ વગેરેમાં પદલક્ષણ વગેરેની જેમ આ બાબતમાં અનવસ્થા આવી નહિ શકે. १. मुद्रितप्रतो. ....प्रतीत्यप...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org