________________
५६४
• अर्थसिद्धिप्रकारप्रकाशनम्
द्वात्रिंशिका-८/११ सत्यां चास्यां तदुक्त्या किं तद्वद्विषयनिश्चितेः । तत एवाऽविनिश्चित्य तस्योक्तिया॑न्ध्यमेव हि"।।
(अष्टक-१३/६-७) प्रमाणान्तरेण वा ? तत्र यदि तेनैव, तदा इतरेतराश्रयः । तथाहि - प्रमाणात् तल्लक्षणनिश्चयः, तल्लक्षणनिश्चये च तत्प्रमाणमिति यावत्तल्लक्षणं न निश्चितं न तावत्प्रमाणस्य प्रमाणत्वम्, यावच्च न प्रमाणस्य प्रामाण्यं न तावत्तल्लक्षणनिश्चय इति । नापि प्रमाणान्तरेण तल्लक्षणनिश्चयः, अनवस्थाऽऽपत्तेः । तथाहि यत्तत्प्रमाणाऽन्तरं तनिश्चितलक्षणमन्यथा वा ? नान्यथा, वक्ष्यमाणदोषापत्तेः। नापि निश्चितलक्षणम्, यतस्तल्लक्षणनिश्चयः किं तेनैव, उताऽन्येन ? यदि तेनैव, तदा पूर्ववदितरेतराश्रयः । अथ प्रमाणाऽन्तरेण, तदा तदपि निश्चितलक्षणमन्यथा वेत्यनवस्थानात् । तन्न निश्चितलक्षणमिति पक्षः । नाप्यनिश्चितलक्षणमिति वाच्यम्, यत आह अलक्षितात् = अनिर्णीतलक्षणात् प्रमाणलक्षणनिश्चायकात्प्रमाणात् कथं = केन प्रकारेण, न कथञ्चिदित्यर्थः, युक्ता = सङ्गता न्यायतो = नीत्या अस्य प्रमाणलक्षणस्य विनिश्चितिः = निर्णीतिः । अयमभिप्रायः - निश्चितलक्षणेन प्रमाणेन विनिश्चित्य प्रमाणलक्षणं वक्तव्यं भवतीति न्यायः । न च चिकीर्षितप्रमाणलक्षणव्युत्पादकशास्त्रं विना प्रमाणलक्षणविनिश्चायकप्रमाणस्य लक्षणनिश्चयः, ततश्चाऽनिश्चितलक्षणमेव तदित्युपलक्षितात्प्रमाणान्न युक्ता तल्लक्षणविनिश्चितिरिति (अ.प्र. १३ / ६वृत्ति)। अथाऽनिश्चितलक्षणादपि प्रमाणात्प्रमाणनिश्चितिर्भविष्यति इत्यस्यां शङ्कायामाह - सत्यां = भवन्त्याम्, चशब्दः पुनरर्थः, अस्यां = अनन्तरोक्तायामनिर्णीतलक्षणात्प्रमाणात्प्रमाणलक्षणनिश्चितौ तदुक्त्या = प्रमाणलक्षणप्रतिपादनेन किं ? न किञ्चित्प्रयोजनमित्यर्थः । कुतः ? इत्याह तद्वत् = प्रमाणलक्षणवत् विषयनिश्चितेः = प्रमेयपरिच्छेदात् । यथा हि - अनिर्णीतलक्षणेनापि प्रमाणेन प्रमाणलक्षणं निश्चीयते, एवं चिकीर्षितलक्षणेन प्रमाणेन प्रमेयस्यापि निश्चितिप्रसङ्गात् व्यर्थं प्रमाणलक्षणप्रणयनमिति भावः । तदेवं “प्रमाणेन विनिश्चित्य तदुच्यते” इति पक्षो निराकृतः। अथानिश्चित्येति पक्षस्य दूषणायाह - तत एव इति यत एव प्रमाणेन विनिश्चित्य प्रमाणलक्षणप्रतिपादनमुक्तयुक्त्या मोहरूपं वर्त्तते तत एव अविनिश्चित्य = प्रमाणेनाऽविनिर्णीय तस्योक्तिः = प्रमाणलक्षणप्रतिपादनम्, किमित्याह, ‘धियो' = बुद्धेः, 'आन्ध्यम्' = अन्धत्वं = सम्मोहः ध्यान्ध्यम्, तद् एव वर्त्तते । प्रमाणलक्षणप्रतिपादयितुर्मूढतैव, निष्फलाऽऽयासनिबन्धनत्वात्तस्या इति भावना। हिशब्दो यस्मादर्थे, तस्य चोत्तरश्लोके तस्मादित्यनेन सम्बन्धः - (अ.प्र.वृ.१३/७) इति । प्रमाणान्तराऽनिश्चितलक्षणेन प्रमाणनिश्चयोत्तरं तल्लक्षणप्रामाण्याऽन्वेषणं तु कृतक्षौरस्य नक्षत्रपरीक्षान्यायमनुसरतीत्यवधेयम् । યુક્તિસંગત બની શકે ? તથા જેના લક્ષણનો પ્રમાણથી નિશ્ચય ન થયો હોવા છતાં તેવા પ્રમાણથી પ્રમાણલક્ષણનો નિશ્ચય જો થઈ જતો હોય તો પ્રમાણલક્ષણનું પ્રતિપાદન કરવાની શી જરૂર છે ? કારણ કે પ્રમાણના લક્ષણની જેમ પ્રમાણવિષયનો = પ્રમેયનો નિશ્ચય પણ અનિર્ણાત લક્ષણવાળા પ્રમાણથી થઈ જશે. (અર્થાત પ્રમાણલક્ષણથી પ્રમાણરૂપે અનિશ્ચિત પ્રમાણ જેમ પ્રમાણલક્ષણનો નિશ્ચય કરાવે છે તેમ પ્રમાણલક્ષણથી પ્રમાણરૂપે અનિશ્ચિત પ્રમાણ પ્રમેયનો પણ નિશ્ચય કરાવી દેશે.) માટે પ્રમાણથી નિર્ણય કર્યા વિના પ્રમાણલક્ષણનું પ્રતિપાદન કરવું એ કેવલ બુદ્ધિનો અંધાપો જ છે.” ૯
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org