________________
• निष्कारणवादकरणे प्रायश्चित्तम् •
अपवादमाह देशो
नगर-ग्रामजनपदादिः, आदिना काल - राज - सभ्य-प्रतिवाद्यादिग्रहः, तत्र तु स्वयुथ्यैः सह वाद- जल्पवितण्डावादकरणस्य विधानमित्यवच्छेदकभेदान्न कश्चिद्दोष इति वाच्यम्, 'सव्वेहि' पदेन तीर्थान्तरीयस्यापि ग्रहणात्, तदुक्तं निशीथचूर्णो तद्व्याख्याने 'असंभोतियातीहिं सव्वेहिं अण्णतित्थिएहिं वि समं करेति' ← (नि. २१३० चू.) इति । न च जल्पवितण्डयोर्धर्मवादरूपत्वादनुत्थानपराहतेयमाशङ्केति वक्तव्यम्, परपक्षनिराकरणपूर्वकं स्वपक्षस्थापनात्मकस्य विजिगीषुवचनस्य जल्परूपत्वात्, स्वपक्षस्थापनहीनत्वे सति परपक्षोक्तिमात्रखण्डनोद्देश्यकस्य विजिगीषुवचनस्य च वितण्डारूपत्वात् तयोधर्मवादेऽन्तर्भावाऽसम्भवात्। न हि विजिगीषायास्तत्र प्रवेशोऽभिमतः, मध्यस्थताभङ्गापत्तेरिति चेत् ? अत्रोच्यते प्रकृतग्रन्थे उत्सर्गतस्तत्त्वजिज्ञासया तत्त्वजिज्ञापयिषया वा धर्मवादस्य कर्तव्यतोपदर्शिता, निशीथभाष्यादौ त्वपवादतो वाद जल्पवितण्डानां कर्तव्यतावेदिता । निष्कारणं तु वादकरणमपि प्रतिषिद्धम्, तस्य रागाद्युत्पादकत्वात् । तदुक्तं आचाराङ्गचूर्णो राग-दोसकरो वादो ← ( आ. चू. १/७/१) इति । परेषामपि सम्मतमिदम् । अत एव अवधूतगीतायां केवलतत्त्वनिरञ्जनपूतो वादविवाद: कथमवधूतः ? ← (अव.गी.७ / २ ) इत्युक्तम् । प्रकृते → हेतुवादैर्विनाशिताः ← (सं.गी.५/२८) इति, → अतिवादाँस्तितिक्षेत ← (सं.गी. ८/४८) इति, अतिवादास्त्यजेत् तर्कान् पक्षं कञ्चन नाऽऽश्रयेत् ← (ना.परि.५/२१, सं.गी. १० / २४ ) इति च संन्यासगीतादिवचनमप्यवधेयम् । तदुक्तं नारदपरिव्राजकोपनिषदि मनुस्मृतौ रामगीतायामपि च अतिवादाँस्तितिक्षेत ← (ना. परि. ३/४२, मनु. ६/४७ रा.गी. १५/ ५६) इति । यथोक्तं महाभारते अतिवादं न प्रवदेन्न वादयेत् ← ( म.भा. उद्योग. ३६ / ११) इति । यत्तु महावीरगीतायां विधर्मिसर्वलोकानां स्पर्धायां मज्जनैः सदा । देश - कालानुयोगेन स्थातव्यं शक्तियुक्तिभिः ।। ← ( म.गी. १६ / २३) इत्युक्तं तत्त्वपवादाऽपेक्षयाऽवगन्तव्यम् । उत्सर्गाऽपवादाऽनुविद्धाऽनेकान्तवादमभिप्रेत्य पञ्चकल्पभाष्यचूर्णो संभोइओ संभोइएण समं निक्कारणं वादं करेइ पायच्छित्तं । एवं पासत्थाइसु वि । कारणे वि जइ न करेइ पायच्छित्तं विसंभोगो वा ← (पं.क.चू.गा. १५०२) इत्युक्तमिति दिक् ।
-
=
-
अत्रैव ग्रन्थकृद् अपवादमाह देशाद्यपेक्षयेति । देश: नगर-ग्राम-जनपदादिः कुतीर्थिकप्रचुरेतरस्वरूपः, कालो दुर्भिक्षेतरलक्षणः, राजादयो मध्यस्था विज्ञा इतरे वा ? प्रतिवादी वादयोग्यस्तदन्यो वा ? उपलक्षणात् आत्मा वादादिसमर्थोऽन्यो वा ? इत्यपि ज्ञेयम् । तदुक्तं पञ्चतन्त्रे → कः कालः कानि मित्राणि को देशः कौ व्ययाऽऽगमौ ? | कश्चाऽहं का च मे शक्तिः ? इति चिन्त्यं मुहुर्मुहुः ।। ← (पं.तं. १/कथा - ११/२७१) इति । एतेन नाऽदेश-काले किञ्चित् स्यात्, देशकालौ प्रतीक्षताम् ← ( म.भा. वनपर्व २८/३२) इति महाभारतवचनमपि व्याख्यातम् । प्रकृते कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महानप्युपकारोऽपि रिक्ततामेत्यकालतः । । ← ( यो. वा. वैराग्यप्रकरण-७/२६) इति योगवासिष्ठवचनं देश-काल- प्रमाणज्ञस्तस्य सिद्धिरसंशयम् ← (च.सं. अध्यायક્ષેત્ર, તથા અનુકૂળ-પ્રતિકૂળ કાળ, રાજા, સભ્યો અને પ્રતિવાદી વગેરેની અપેક્ષાએ નુકસાન ઓછું થાય અને લાભ વધુ થાય તેમ જાણીને અન્ય શુષ્કવાદ-વિવાદ પણ વાદી કરી શકે છે.(૮/૬)
Jain Education International
For Private & Personal Use Only
५५१
=
www.jainelibrary.org