SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ५५० • वादोपयोगिसम्पत्प्रकाशनम् • द्वात्रिंशिका-८/६ गृहभञ्जने' इति न्यायेन प्रवृत्तत्वात् । तदुक्तं ज्ञानसारे अपि श्रेयः सर्वनयज्ञानां विपुलं धर्म वादतः। शुष्कवादाद् विवादाच्च परेषां तु विपर्ययः ।। ← ( ज्ञा. सा. ३२ / ५ ) इति । अन्येषामपि सम्मतमिदम् । तदुक्तं मनुस्मृती शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ← (मनु. ४ / १३९) इति । वैर-वैश्वानर-व्याधि-वाद-व्यसनलक्षणाः महानर्थाय जायन्ते वकाराः पञ्च वर्धिता ।। ← (पार्श्व.च./द्वि.सर्ग. पृष्ठ-४३) इति पार्श्वनाथचरित्रे उदयवीरगणिवचनमपि वादपदेन शुष्कवाद-विवादयोरनर्थकारितामावेदयतीत्यवधेयम् । यद्यपि व्यवहारसूत्रभाष्ये → अत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं । गुरुणा णीएण तवसिणा य सह वज्जए वादं ।। ← (व्य. भा. भाग ३ - उ. १ गा. ९० पृ.७६ ) इत्युक्त्या तपस्विना सह वादो व्यवच्छिन्नस्तथापि प्रकृते तपस्विपदेन प्रतिवादी न ग्राह्योऽपि तु वाद्येव । व्यवहारभाष्यनिषिद्धस्तु तपस्वी प्रतिवादिरूपेण बोध्यः । प्रकृते तपस्विपदोपादानाद्धि तस्य सार्वत्रिक - सार्वदिकोचितप्रवृत्तिशालितया योग्यत्वेन धर्मवादाधिकारित्वमुपदर्शितमिति न कश्चिद् विरोधः । एवमेवाऽतिदुर्बलेनाज्ञेनाऽपि साकं वादो न समारभ्यः, तस्य पराजयेऽपि । न हि हरिणशावको भवति प्रतिपक्षः तरक्षोः' इति न्यायेन स्वयशोहानिसम्भवात् । व्यक्ताऽक्षरा वाग्, शरीरलाघवं, अपूर्वप्रेक्षा, शारीरं बलं, धारणा, तेजस्विता, सत्त्वञ्च वादोपयोगीति तत्सम्पादनाय प्रयतितव्यम् । तदुक्तं व्यवहारभाष्ये वाया पुग्गललहुया, मेहा उज्जा य धारणाबलं च । तेजस्सिया य सत्तं वायामइयंमि संगामे ।। ← (व्य. भा. उ. १ / भाग-३- पृ. ८४-गा. १३१) इति । प्रतिवादी चाऽजुगुप्सितकर्मकारी, गुणगणसम्भावनीयः, विज्ञः, धर्मप्रतिज्ञः सत्यवादी शीलकुलाऽऽचारसमन्वितोऽन्वेषणीयः । तदुक्तं व्यवहारभाष्ये अज्जेण भव्वेण वियाणएण धम्मपतिष्णेण अलीयभीरुणा । सील-कुलायारसमन्निएण तेणं समं वायं समायरेज्जा ।। ← (व्य. भा. १ / ३ / ८७ ) इति । → पसत्थेसु निमित्तेसु पसत्थाणि समारभे । अप्पसत्थनिमित्तेसु सव्वकज्जाणि वज्जए ।। ← (ग.वि. ८२) इति गणिविद्याप्रकीर्णकवचनानुसारेण प्रशस्तनिमित्तग्रहणपूर्वं दर्शितस्वरूपेण प्रतिवादिना साकं धर्मवादो विधेयो बलाऽबलादिविवेकेनेत्यवधेयम् । सोऽपि मध्यस्थ-प्राज्ञसभापत्यादिषु सत्सूत्सर्गतः कार्यः, न त्वन्यथा । तदुक्तं श्रीहरिभद्रसूरिभिरेव धर्मसङ्ग्रहण्याम् वादो वि वादि-नरवइ - परिच्छगजणेसु निउणबुद्धिसु । मज्झत्थेसु विहिणा उस्सग्गेणं अन्नाओ ।। ← ( धर्मसं. ५१६ ) इति । ननु प्रकृत एवकारेण शुष्कवाद-विवादयोः निषेधे तु १वादो २जप्प वितण्डा पइण्णगकहा य " णिच्छयकहा य । 'संजोगविहिविभत्ता कधपडिबंधे वि छट्ठाणा । । वादं जप्प-वितंडं सव्वेहिं वि कुणंति समणीवज्जेहिं ।। ← (नि.भा. २१२९/२१३०) इत्येवं निशीथभाष्यवचनविरोधोऽपरिहार्यः, तत्र षड्विधकथाप्रबन्धमध्यात् वाद-जल्प-वितण्डाकथानां कर्तव्यत्वोक्तेः । न चात्र तीर्थान्तरीयैः साकं वादद्वयकरणनिषेधः ગાથાના ઉત્તરાર્ધમાં અપવાદને બતાવતા ગ્રંથકારશ્રી જણાવે છે કે ગામ-નગર-દેશ-રાજ્ય વગેરે For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy