________________
=
• जाति- जल्पस्वरूपविचारः •
=
प्रधानोक्तिः ) विवादो
विरुद्धो वादः ।
=
अत्रापि विवादेऽपि विजयाऽलाभः परस्याऽपि च्छल-जात्याद्युद्भावनपरत्वात्, वा अथवा विघ्नकारिता, अत्यन्ताऽप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात् । बाधते च पराऽपायनिमित्तता तपस्विनः परलोकसाधनमिति नाऽत्रोभयथाऽपि फलमिति भावः ||३||
सू.१/५९) इति न्यायसूत्रकारः । स्वव्याघातकमुत्तरं जातिरित्येके । स्वप्रतिबन्धकमुत्तरं जातिरित्यन्ये । सिद्धमपि दूषणाऽसमर्थमुत्तरं जातिरितीतरे । छलादिभिन्नदूषणाऽऽभासा जातिरित्यपि कश्चित् । साधर्म्यप्रत्यवस्थानादिभेदेन चतुर्विंशतिभेदभिन्ना जातिः नैयायिकमत इष्यते । तदुक्तं न्यायसूत्रे साधर्म्य वैधर्म्यात्कर्षाऽपकर्ष-वर्ण्याऽवर्ण्य-विकल्प-साध्य-प्राप्त्यप्राप्तिप्रसङ्ग-प्रतिदृष्टान्ताऽनुत्पत्ति-संशय-प्रकरण हेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धि-नित्यानित्यकार्यसमाः ← ( न्या. सू. ५ / १ / १ ) इति । न्यायकन्दलिकाकारस्तु → सम्यग्हेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाऽप्रतिभासे तु प्रतिबिम्बनप्रायं किमपि प्रत्यव - स्थानं जातिरित्युच्यते ← ( न्या. कं.) इत्याह ।
श्रीहेमचन्द्रसूरयस्तु प्रमाणमीमांसायां अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ← (प्र.मी. २/१/२९) इत्थं तल्लक्षणं निष्टङ्कितवन्तः । छल- जात्योरुपलक्षणतया निग्रहस्थानमपि ग्राह्यम् । तल्लक्षणं तु न्यायसूत्रे विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ← ( न्या. सू. १ / २ / ६० ) इति । छलादिमयोऽयं विवादो नैयायिकैः जल्पशब्देनाऽभिधीयते । तदुक्तं न्यायसूत्रे यथोक्तोपपन्नच्छल-जाति-निग्रहस्थान
साधनोपालम्भः = जल्पः ← (न्या.सू.१/२/३) इति ।
=
अस्माकमपि विवादस्य जल्पशब्दवाच्यता सम्मतैव । तदुक्तं निशीथचूर्णी परिगृह्य सिद्धान्तं प्रमाणं च छल-जाति-निग्रहस्थानपरं भाषणं यत्र (सः) जल्पः ← (नि.भा.२१३० चू. उद्दे. ५ ) इति । जल्प एव प्रतिपक्षस्थापनाहीनत्वे वितण्डोच्यते नैयायिकैः । तदुक्तं न्यायसूत्रेस प्रतिपक्षस्थापनाहीनः वितण्डा ← (न्या.सू.१/२/४ ) इति । स = जल्पः । स्वमते विवादस्य वितण्डोपलक्षकत्वं विज्ञेयम् यद्वा वितण्डाय विवादेऽन्तर्भावोऽवसेयः । जयन्तभट्टमते चार्वाकवार्ता वितण्डावादरूपाऽवसेया । तदुक्तं न्यायमञ्जर्यं न हि लोकायते किञ्चित् कर्तव्यमुपदिश्यते । वैतण्डिककथैवाऽसौ न पुनः कश्चिदागमः ।। ← (न्या.मं.प्रमाणप्रक. पृष्ठ - १४६ ) । शीलाकाचार्यमते शुष्कवाद-विवादयोरैक्यम्। तदुक्तं सूत्रकृताङ्गावृत्तौ → विरुद्धवादं = विवादं शुष्कवादमित्यर्थः ← (सू.कृ. १/९/१६ वृ.) इति । विजयो दुर्लभः । तदुक्तं अष्टक
વિપરીતવાદ કહેવાય.
विवादेऽपि, अपिना शुष्कवादसमुच्चयः कृतः, विजयाऽलाभः જવાબ આપવો તે જાતિ કહેવાય. આ છલ-જાતિમય ચર્ચા વિવાદ છલ-કપટના વારંવાર પ્રયોગ પ્રતિવાદી કરતો હોવાથી અહીં વાદીને વિજય મળવાની શક્યતા લગભગ રહેતી નથી. કદાચ વાદી અત્યન્ત સાવધાની રાખીને છળ વગેરેનું નિરાકરણ કરીને વિજય મેળવે તો પણ પ્રતિવાદી ધન વગેરેનો અર્થી હોવાથી ચર્ચામાં હારી જાય તો ધનપ્રાપ્તિ, પ્રસિદ્ધિ વગેરેમાં તેને અવશ્ય અંતરાય થાય છે. બીજાને નુકશાનીમાં નિમિત્ત બનવું એ પણ ધર્માત્માને પોતાને જ પરલોકની સાધનામાં નડતરરૂપ થાય છે. માટે તેમાં વિજય મળે તો પણ આપણને વાદીને જ નુકસાન અને પરાજય મળે તો જિનશાસનની હિલનારૂપ નુકશાન- આમ વિવાદમાં પણ બન્ને રૂપે નુકસાન જ છે.(૮/૩)
Jain Education International
For Private & Personal Use Only
,
=
=
—-
५४५
=
www.jainelibrary.org