________________
५४४ • छलस्वरूपाऽऽवेदनम् •
द्वात्रिंशिका-८/३ भिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिश्चासदुत्तरं, ताभ्यां प्रधानोक्तिः (=छलजातिसह । अर्थिना = लाभ-ख्यात्यादिप्रयोजनिना = सुवर्णरत्नादिप्राप्ति-प्रसिद्ध्याद्यर्थिना, उपलक्षणादनुदारचित्तेनेत्यपि गम्यम् । स च दुर्विदग्धो हि 'अम्बुनि मज्झन्त्यलाबूनि ग्रावाणः प्लवन्ते' इति न्यायेन प्रत्यक्षादिविरुद्धं वदन् निर्जितोऽपि सन्न लज्जते किन्तु महागलप्रमाणेनाऽऽरटन् जयमेवेच्छति । यथोक्तं बृहत्कल्पभाष्ये → न य निज्जितो वि लज्जइ, इच्छइ य जयं गलरवेण + (बृ.क.भा.३७०-पीठिका) इति। तदुक्तं श्रीहरिभद्रसूरिभिः अपि अष्टकप्रकरणे → लब्धि-ख्यात्यर्थिना तु स्याद्दःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः, स विवाद इति स्मृतः ।। 6 (अ.प्र.१२/४) तद्वृत्तिस्तु → लब्धिः = सुवर्णादीनां लाभः, ख्यातिश्च = प्रसिद्धिः, ताभ्यामर्थः = प्रयोजनं यस्यास्ति स तथा तेन, तुशब्द: ‘पुनः' शब्दार्थः, स चाऽऽद्यवाद-विवादयोर्विशेषद्योतकः, स्यात् = भवेत्, यो वाद इति सम्बन्धः, दुःस्थितेन = दरिद्रेण मनोदुःस्थितेन वा, अमहात्मना = अनुदारचित्तेन, एवंविधस्य हि पराजये विषाद-वृत्तिच्छेदादिदोषप्रसङ्गेन साधोः परलोकबाधेति कृत्वा वादस्य विरुद्धता स्यात् । अत एव कारणाद् विशेषितोऽसाविति, इह च सह वादिनेति गम्यम्। छलजातिप्रधानो यः, तत्र छलं = वाक्छलादि, यथा नवकम्बलो देवदत्तः। जातयो = दूषणाभासाः, यथाऽनित्यः शब्दः, कृतकत्वात्, घटवदिति । अस्य हेतोः दूषणम् । तथाहि'यदि घटगतं कृतकत्वं हेतुः तदा तच्छब्देनाऽसिद्धमित्यसिद्धो हेतुः, अथ शब्दगतं तदा तदनित्यत्वेन व्याप्तं न सिद्धमित्यसाधारणाऽनैकान्तिको हेतुरि'ति, तत्प्रधानो यः स तथा, स = एवंविधो वादः, विवाद इति स्मृतः = एवमभिहित 6 (अ.प्र.१२/४ वृत्ति) इति ।
छलं = अन्याऽभिप्रायेणोक्तस्य शब्दस्य अभिप्रायान्तरेण = वक्तृतात्पर्यभिन्नतात्पर्येण दूषणम्। यथा नवीनकम्बलाऽभिप्रायेण 'नवकम्बलोऽयं देवदत्तः' इत्युक्ते सति 'कुतोऽस्य नव कम्बलाः ? एक एव कम्बल' इत्येवं सङ्ख्याभिप्रायेण दूषणं छलमुच्यते । ‘परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः छलमि'ति परे । अन्ये तु 'विपरीताऽर्थकल्पनोपपत्त्या वचनविघातः छलमिति वदन्ति । 'शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः छलमि'तीतरे । 'परोक्तस्याऽर्थान्तरं परिकल्प्य तद्दषणेन परोक्तभङ्ग' इत्यपि केचित् । 'वक्तृतात्पर्याऽविषयार्थकल्पनेन दूषणाऽभिधानं छलमिति कश्चित् । वाक्छलं, सामान्यच्छलं, उपचारच्छलमित्येवं छलत्रैविध्यमवगन्तव्यम् । प्रकृते → वचनविघातोऽर्थविकल्पोपपत्त्या छलम् (न्या.सू.१/५१), तत् त्रिविधं, वाक्छलं सामान्यच्छलमुपचारछलञ्च (न्या.सू.१/५२), अविशेषाभिहितेऽर्थे वक्तुरभिप्रायाद
र्थान्तरकल्पना = वाक्छलम् (न्या.सू.१/५३) सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूताऽर्थकल्पना = सामान्यच्छलम् (न्या.सू.१/५४), धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् + (न्या.सू.१/५५) इति न्यायसूत्राणि स्मर्तव्यानि ।
जातिश्च असदुत्तरं = दूषणाभासेत्यर्थः। → साधर्म्य-वैधाभ्यां प्रत्यवस्थानं = जातिः - (न्या. પ્રસિદ્ધિ વગેરેનો ઈચ્છુક હોય તો તેવો પ્રતિવાદી પોતાનું પ્રયોજન સિદ્ધ કરવા માટે ચર્ચામાં છલ, જાતિ વગેરેનો અવાર-નવાર પ્રયોગ કરે તો તે ચર્ચા વિવાદ કહેવાય. એક અભિપ્રાયથી બોલાયેલ શબ્દનું અન્ય અભિપ્રાયથી અર્થઘટન કરીને સામેની વ્યક્તિના વચનમાં દૂષણ બતાવવું તે છલ કહેવાય. ખોટો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org