________________
५२७
• नैगमनयसम्मतहिंसाप्रदर्शनम् • णेनैव निश्चयेन दयाऽभ्युपगमात् । अत एवोक्तमागमे
"आया चेव अहिंसा आया हिंसत्ति णिच्छओ एसो ।
जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ।।” (ओ.नि.७५४) नैगमस्य हि जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो भवन्ति- “जीवोऽनेन हिंसितो, घटोऽनेन हिंसितः” इति । इत्थं च हिंसाशब्दाऽनुगमाज्जीवेष्वजीवेषु च हिंसेति । स्वभावः प्रशस्ततरण्डस्थानीयोऽनायासेन संसारसागरपारकारी, प्रशस्तसङ्कल्पो विषमतरण्डसमो महाऽऽयासेन संसारसमुद्रतारकोऽशुभसङ्कल्पश्च महाशीलातुल्यः भवसागरनिमज्जनकारी। → 'अप्रादुर्भावः खलु रागादीनां भवत्यहिंसा (पुरु.४४) इति पुरुषार्थसिद्ध्युपायदर्शितरीत्या आत्मलक्षितनिश्चयनयेन मोहक्षोभविहीननिर्विकल्पवीतरागस्वभावरक्षणमेव दया, सा च शुद्धोपयोगलक्षणा प्रशस्ततरण्डतुल्या । वस्तुलक्षितनिश्चयनयेन निर्विकल्पस्वभावप्राणरक्षणं दया, साऽपि शुभतरण्डसमा । परप्राणरक्षणदशायां प्रशस्ताप्रशस्तविकल्पयोर्मध्यादप्रशस्तविकल्पविलयाद् देशनिवृत्तिगर्भतया विषमतरण्डस्थानीयस्य शुभसङ्कल्पस्य स्वकीयभावप्राणरक्षकत्वमनपायमेव । तदानीमपि अध्यवसायविशुद्ध्या स्वभावप्राणत्राणेनैव निश्चयेन दयाभ्युपगमात्, न तु परप्राणिद्रव्यप्राणसंरक्षणेनेति । परं व्यावहारिकदयातिरस्काराऽपलापादिकरणे तु नैश्चयिकदयाया अप्यसम्भव एव । इदमेवाऽभिप्रेत्य भक्तपरिज्ञाप्रकीर्णके → जीववहो अप्पवहो, जीवदया अप्पणो दया होइ - (भ.प.प्र.९३) इत्युक्तमित्यवधेयम् । तथा निश्चयनयबोधशून्यस्य व्यवहारतो दयापालनापेक्षया निश्चयतात्पर्यविदो दयापालने मणिविक्रयन्यायेन फलोत्कर्षो विज्ञेयः। दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाऽऽधिक्यात्फलाऽऽधिक्यम् । तथैवात्रानुयोज्यम् । ___अत एव = परप्राणरक्षणदशायामपि निश्चयनयः स्वभावप्राणत्राणत्वांशमेवावलम्ब्य दयामभिधत्ते, न तु परप्राणत्राणत्वांशमपेक्ष्येति हेतोरेव उक्तं श्रीभद्रबाहुस्वामिना आगमे = ओघनिर्युक्तौ ‘आया' इत्यादि। द्रोणाचार्यकृतव्याख्यामवलम्ब्याह - 'नैगमस्येति । ‘णेगाइं माणाइं सामन्नोभयविसेसनाणाइं । जं तेहिं मिणइ तो णेगमो णओ णेगमाणो त्ति ।।' (वि.आ.२१८६) इति विशेषावश्यकभाष्यदर्शितस्य यद्वा → निश्चितो गमः = निगमः = विविक्तवस्तुग्रहणं, स एव नैगमः । यदि वा निगम्यन्ते = नियतं परिच्छिद्यन्ते इति निगमाः = अर्थाः तेषु भवोऽभिप्रायः नियतपरिच्छेदरूपः स नैगमः (गा.२९ वृ.पृ.७५) इति न्यायावतारवृत्तिप्रदर्शितस्य यद्वा 'निगमेषु भवोऽध्यवसायविशेषो नैगमः, तद्भवत्वञ्च लोकप्रसिद्धार्थाभ्युपगन्तृत्वमिति रूपेण नयरहस्य(पृ.७४)दर्शितस्य नैगमनयस्य मते हि जीवेषु अजीवेषु રૂપે જ દયાને સ્વીકારે છે. (નિશ્ચયથી શુદ્ધ સંકલ્પ = સુંદર તરાપો અથવા નોકા. શુભસંકલ્પ = વિષમ તરાપો.)
માટે જ ઓઘનિર્યુક્તિમાં જણાવેલ છે કે “આત્મા જ અહિંસા છે અને આત્મા જ હિંસા છે. આ નિશ્ચયનયનો મત છે. અપ્રમત્ત હોય, તે અહિંસક હોય, પ્રમાદી હોય તે હિંસક હોય.
અનેક નયથી હિંસાદિ વિચારણા હ नैगमस्य. । नैगम नय तो १ सने अ पने विशे हिंसा भने मडिंसा स्वी॥२ छे. सानु કારણ એ છે કે દુનિયામાં એવું બોલનારા પણ હોય છે કે આના દ્વારા જીવ ખતમ કરાયો. આના દ્વારા १. हस्तादर्श .....पमात्' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org