________________
५२३
• निश्चय-व्यवहारसंमतदयाविचारः . दया नेष्टा, तदभिमताया हिंसाया एवातिप्रसक्तत्वात्, तदभावस्याऽऽभिमानिकत्वात्, तादृशदयास
द्भावेऽपि तत्त्वज्ञानाऽभावसद्भावाच्चेति भावः ।।२७।।। योगात्प्राणव्यपरोपणं हिंसा' इति (त.सू.७/८) प्रमाणाभिप्राय इत्येवं हिंसागोचरनयप्रमाणज्ञानविरहात् अहिंसापालनकृते गुरुकुलवास-तविनयकरण-शास्त्राभ्यासादेः शेषधर्मस्थानस्याऽहिंसास्वरूपपरिज्ञानाभ्युपगमपरिपालनोपायभूतस्य परित्यागेनोद्यच्छतामगीतार्थानां मुनीनां ऐकान्तिकी = स्थूलव्यवहारमात्राभिमता = निश्चयनिरपेक्षकेवलस्थूलव्यवहारदुर्नयसम्मता या लोकोत्तराभा = लोकोत्तरदयासदृशी दृश्यते बहिर्वृत्त्या सापि दया नेष्टा = नैवाभीष्टफलवती, तदभिमतायाः = स्वच्छन्दविहारिणामपि त्याज्यत्वेन सम्मताया हिंसाया एव एकाकिभिक्षागमनादौ → ‘एगाणियस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खविसोहि महव्वय' - (ओ.नि.४११) इत्यादिना ओघनियुक्तिदर्शितरीत्या अतिप्रसक्तत्वात् = अतिशयेन प्राप्तत्वात् । तदुक्तं श्रीहरिभद्रसूरिभिः उपदेशपदे → धम्मट्ठाणमहिंसा सारो एसोत्ति उज्जमति एत्तो। सव्वपरिच्चाएणं एगो इह लोगनीतीए ।। 6 (उप.पद.१८३) इति । अत एव महावीरगीतायां → निश्चय-व्यवहाराभ्यां गौण-मुख्यविभेदतः । महालाभविचारेण चाऽहिंसापालनं शुभम् ।। (म.गी. ५/२१९) इत्युक्तम् । न च तथाप्याधाकर्मिकादित्यागेनाऽहिंसालक्षणा दयाऽव्याहतैवेति शङ्कनीयम्, तदभावस्य = आधाकर्मिकादिदोषपरिहाररूपस्य हिंसाविरहस्य आभिमानिकत्वात् = मोहपारवश्येन काल्पनिकत्वात् । अत एव तेषां श्रमः परमार्थतस्तु अपराद्धेषुधानुष्काऽऽडम्बरन्यायेन वृथैवाऽवसेयः ।
वस्तुतस्तु सा लोकोत्तराऽपि नास्ति, आज्ञाबाह्यत्वात् । केवलं लोकोत्तरद्रव्ययतिकृतत्वाद् लोकोत्तरत्वेनोपचर्यते, न तु परमार्थतो लौकिकबाह्या । तदुक्तं उपदेशरहस्यवृत्तौ → आज्ञाबाह्या = सूत्रविषयस्वतन्त्रविश्वासाऽप्रयोज्यप्रवृत्तिका अहिंसैव तावल्लोकोत्तरनीतितो न भवति, प्रासुकपुष्पफलशैवालादिभोजिनां विजनारण्यवासिनां बालतपस्विनां स्वच्छन्दाऽगीतार्थानां लोकोत्तरयतीनाञ्च गुरुकुलवास-तद्विनयकरण-शास्त्राभ्यासादिवर्जितायाः केवलायास्तस्या लोकमूलत्वेन लौकिकत्वानपायात् + (उप.रह.गा. ४/पृ.७-वृ.) इति। अत एव पञ्चाशकेऽपि → पायं अभिन्नगंठीतमा उ तह दुक्करंपि कुव्वंता । बज्झा व ण ते साहू धंखाहरणेण विण्णेया ।। - (पञ्चा.११/३८) इत्युक्तं स्वच्छन्दयतीनधिकृत्य ।
एतेन गुरुकुलवासं परित्यजतां स्वच्छन्दयतीनां दुष्करतपःकरणद्वाराऽऽधाकर्मिकादिदोषपरिहारे दयाऽव्याहतेति प्रतिक्षिप्तम् तादृशदयासद्भावेऽपि = यथाकथञ्चित्तादृशदयास्तित्वोपपादनेऽपि तत्त्वज्ञानाभावसद्भावात् = दयाकारणीभूततत्त्वज्ञानविरहात् । अत एव सा दया न तात्त्विकी, कारणविरहे कार्याऽयोगात् । न चाज्ञानादस्तु पापकर्मबन्धः, दयातश्च संवरादिरपि तत्राबाधित एवेति शङ्कनीयम्, अर्धजरतीयन्यायप्रसङ्गात् । न हि वृद्धा एकदेशे युवतीति वक्तुं युज्यते, न वा कुक्कुट्यादेरेकदेशो भोगाय पच्यते, तदन्यदेशस्तु प्रसवाय कल्प्यते, विरोधात् । एवमेव कर्मबन्धाद्यध्यवसायेष्वपि भावनीयम् । તથા તેવી દયા હાજર હોવા છતાં દયાકારણભૂત તત્ત્વજ્ઞાનનો અભાવ પણ હાજર છે. આ કારણસર तवी या मान्य नयी वो 8 माशय छे. (७/२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org