________________
५२२ • दयामीमांसा •
द्वात्रिंशिका-७/२७ निश्चय-व्यवहारयोरज्ञानादैकान्तिकी च स्थूलव्यवहारमात्राऽभिमता' लोकोत्तराऽऽभा साऽपि युक्तञ्चैतत् । न ह्यज्ञानिनां तात्त्विकसंवेगगर्भज्ञानपरिणतिः पापनिवृत्तिर्वा परमार्थतः सम्भवति । तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां → जो संवेगपहाणो अच्चंतसुहो उ होइ परिणामो । पापनिवित्ती य परा नेयं अन्नाणिणो उभयं ।। - (धर्म.सं.५४०) इति । ___अत एव संयुक्तनिकाये ब्राह्मणसंयुक्ते अर्हद्वर्गे अहिंसकसूत्रे →यो च कायेन वाचाय मनसा च न हिंसति । स वै अहिंसको होति, यो परं न विहिंसति ।। - (सं.नि. १।१७।१।५।१९१/ पृ.१९२) इति यदुक्तं सुगतेन तदपि न कृत्स्नाऽहिंसाप्रतिपादकं सम्भवति, कारिताऽनुमोदितहिंसाया अत्यागात् । इदमेवाभिप्रेत्य दशवैकालिकनियुक्तौ श्रीभद्रबाहुस्वामिभिः अपि → जह जिणसासणनिरया धम्मं पालेंति साहवो सुद्धं । न कुतित्थिएसु एवं दीसइ परिवालणोवाओ ।। (द.वै.नि.९४) इति कथितम् । यथोक्तं आचाराङ्गनिर्युक्तौ अपि → पव्वयंति य अणगारा ण य तेहि गुणेहिं जेहि अणगारा । पुढविं विहिंसमाणा न हु ते वायाहि अणगारा ।। - (आ.नि.९९) इति । ज्ञानविरहे जीवहिंसानिवृत्तिस्तत्त्वतोऽनिवृत्तिरेव । तदुक्तं दशवैकालिकनियुक्तौ एव → कायाणं ते जयणं न मुणंति न करेंति - (द.वै.नि.१३३) इति । तदुक्तं उपदेशपदे अपि → जाणइ उप्पण्णरुई जइ ता दोसा णियत्तई सम्मं । इहरा अपवित्तीइ वि अणियत्तो चेव भावेणं ।। 6 (उ.प.५१२) इति । ततश्च तस्करकन्दुन्यायेनैषामज्ञानकष्टभाजनत्वमवसेयम् । तथाहि - कश्चित् तस्करः चौर्यं कृत्वा स्वकीयचौर्य संवरणार्थं सन्निहितं कन्दुगृहं प्रविष्टः, गृहस्वामिना कन्दुना कन्दुकर्मणि नियुक्तः । तत्कर्मण्यशक्ये नियुक्तत्वात् तत्कुर्वन् राजपुरुषैः तस्करमन्वेषमाणैः तत्र झटिति समागतैरुक्ते कर्मण्यकुशलतां समालोच्य 'तस्करोऽयमि'ति ज्ञात्वा गृहीतः कन्दुकर्मणि व्यर्थक्लेशभागी संवृत्तः तथेमेऽपि तापसाः षड्जीवनिकायतत्त्वमजानानाः तद्रक्षणे प्रवृत्ताः शेवालभक्षणादिनाऽहिंसायामकुशलाः कुकर्मबन्धभाजनतां नातिक्रामन्ति । लोकदृष्ट्या दयापालनेऽपि उष्णभोजिन्यायेन तत्स्वभावानपगम एव । तथाहि- उष्णं भोक्तुं शीलमस्येति उष्णभोजी । स च कदाचित् शीतलमप्यशनादिकं भुञ्जन नोष्णभोजनकरणस्वभावं विमुञ्चति । तथैवात्रावगन्तव्यम् । ततश्च व्यवहारतः स्थूलदयापालनेऽपि अवसरापेक्षिवधकन्यायेन तदानीमपि हिंसाकरणस्वभावस्याव्याहतत्वात् । इत्थमेव सूत्रकृताङ्गद्वितीयश्रुतस्कन्धादौ (श्रु.स्कं.२ अ.४) एकेन्द्रियादीनां कर्मबन्धकत्वोक्तिः सङ्गच्छते । ___ ननु षड्जीवनिकायबोधविकलानां लौकिक्या दयाया अस्तु नैष्फल्यम् । किन्तु शुद्धोञ्छादिकृते त्यक्तगुरुकुलवासादीनां तु दया फलवती स्यान्न वा? इत्याशङ्कायामाह - निश्चय-व्यवहारयोरज्ञानात् = 'प्रमत्तयोगो हिंसा' इति निश्चयनयाभिप्रायः, 'प्राणव्यपरोपणं हिंसा' इति व्यवहारनयाभिप्रायः, 'प्रमत्त
તેમજ નિશ્ચય-વ્યવહારનું જ્ઞાન ન હોવાથી સ્થૂલ વ્યવહારમાત્રથી માન્ય એવી ઐકાન્તિકી જે દયા લોકોત્તર જેવી દેખાતી હોય તે પણ શાસ્ત્રમાન્ય નથી, ઈષ્ટફલસાધક નથી. કારણ કે તેમને અભિમત એવી હિંસા જ અત્યંત પ્રસક્ત થાય છે. માટે હિંસાનો અભાવ અભિમાનમાત્રરૂપ = કાલ્પનિક છે. १. मुद्रितप्रतौ ....मात्राभिमतलोको...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org