________________
• लौकिकदयाविचारः •
५२१ दयापीति । लौकिकी = लोकमात्रप्रसिद्धाऽरण्यवासिनां तापसादीनां दयापि षटकायाऽनवबोधतः = पृथिव्यादिजीवाऽपरिज्ञानाद् नेष्टा = न फलवती, दयाया ज्ञानसाध्यत्वात्, पढमं नाणं तओ दया' (दशवै.४/१०) इति वचनात्।।
लौकिकसंमतमद्य-मांसभक्षणादिकं प्रतिषिध्य साम्प्रतं लौकिकदयामधिकृत्याह - ‘दयापी'ति । दयायाः = जीवदयाया ज्ञानसाध्यत्वात् = षड्जीवनिकायस्वरूप-तन्नाशसंरक्षणोपायादिविषयकसज्ज्ञानसाध्यत्वात् 'पढमं नाणं तओ दया' (द.वै.४/१०) इति दशवैकालिकवचनात् । जीवदयाकारणीभूतज्ञानाभावे तस्याः परमार्थतोऽसिद्धेरिति भावः । यद्यपि 'प्रथमं = आदौ ज्ञानं = जीवस्वरूप-संरक्षणोपाय-फलविषयं ततः = तथाविधज्ञानसमनन्तरं दया = संयमः, तदेकान्तोपादेयतया भावतः तत्प्रवृत्तेः' (द.वै. ४/१० वृ.) इत्येवं श्रीहरिभद्रसूरिभिः ‘दया'पदं संयमपरतया तत्र व्याख्यातं तथापि संयमौपयिकदयाया अपि तादृशज्ञानसाध्यत्वमनाविलमेव ।
→ मा हिंसीस्तन्वा प्रजाः - (य.वे.१२/३२) इति यजुर्वेदवचनं, → नान्योऽन्यं हिंस्याताम् - (श.प.बा.३/४/१/२४) इति शतपथब्राह्मणवचनं, → अभयं सर्वभूतेभ्यः - (प्राणा.१/१) इति प्राणाग्निहोत्रोपनिषद्वचनं, → अहिंसा परमो धर्मः सर्वप्राणभृतां वरः (म.भा.११/१३) इति महाभारतवचनं, → अहिंसया च भूतानाममृतत्वाय कल्पते 6 (म.स्मृ.६/६०) इति मनुस्मृतिवचनं, → दुष्टं हिंसायाम् - (वै.सू.६/१/७) इति वैशेषिकसूत्रं, यद्वा → पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। - (अष्टक-१३/२), → श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् । - (म.भा.धर्मसर्वस्वाधिकार उद्योगपर्व-२३८) इत्यादिकं पुरस्कृत्य पुष्प-फल-शेवालादिभोक्तृणां निर्जनाऽरण्यवासिनां तापसादीनां लौकिक्या दयायाः पालनेऽपि 'निकृष्टदृष्टिर्नोत्कृष्टे' इति न्यायेन षड्जीवनिकायज्ञानविरहेण → द्रव्यार्थिकनयं श्रित्वा, नित्यात्मा कथ्यते जिनैः । पर्यायार्थिकतोऽनित्य, आत्मा ज्ञेयो विचक्षणैः ।। (आ.द.गी.४८) - इति आत्मदर्शनगीतादिवचनतात्पर्यावगमानर्हतया च न तद्धिंसावर्जनं सम्भवति, तस्याः तत्त्वतो ज्ञाननिवर्तनीयत्वादिति लौकिकी दया न फलवतीति सिद्धम्।
तदुक्तं रघुनाथेन अपि → अनवबुद्धार्थे प्रवृत्तिः बिलवर्तिगोधाविभजनन्यायेनाऽशक्या - ( )। लो५ न डोपाथी मन्तिी . या ५९ ट नथी. (७/२७)
ટીકાર્ય - વનવાસી તાપસ વગેરેની લોકમાત્રમાં પ્રસિદ્ધ એવી લૌકિક દયા પણ પૃથ્વી, પાણી વગેરે પજીવનિકાય વિષયક બોધ ન હોવાથી સફળ નથી. કારણ કે “પ્રથમ જ્ઞાન અને પછી અહિંસા - આ પ્રમાણે શ્રીદશવૈકાલિકસૂત્રના વચનથી જણાય છે કે દયા જ્ઞાનજન્ય છે. (અર્થાત્ દયાનું કારણ સભ્ય જ્ઞાન છે. જેને “પૃથ્વી, પાણી વગેરે જીવ છે.' એવું સમ્યફ જ્ઞાન જ નથી તે તાત્ત્વિક દયા પાળી ન જ શકે. કારણ વિના કાર્ય કઈ રીતે થઈ શકે ? કારણ વિના કાર્ય ઉત્પન્ન થાય તો કાર્યકારણભાવ ભાંગી પડે. અથવા તે ઉત્પન્ન થયેલ કાર્ય વિરક્ષિત કારણનું તાત્ત્વિક કાર્ય કહી ન શકાય. એટલું નિશ્ચિત માનવું પડે.). १. एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही किं वा नाहीइ छेअपावगं ।। इति गाथाशेषः । दशवै.अध्य.४/१० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org