________________
५१६
• बौद्धमतेऽपि तपसः कर्तव्यता •
द्वात्रिंशिका- ७/२६
दोसपरेतेहि नायं धम्मो सुसम्बुधो ← ( म.नि.१/३/६/२८१ पृ.२२७ + २/४/५/३३७ पृष्ठ- २९९) इति । अन्याऽन्यरथपरिवर्तनसमागत-प्रसेनजितभूपालोदाहरणमेव मज्झिमनिकायगतरथविनीतसूत्रवर्ति सुगतोक्तं परम्परयोग्रतपश्चर्यासाफल्यसिद्धये प्रभवतीत्यवधेयम् ( दृश्यतां मज्झिमनिकाय - रथविनीतसूत्र-१/३/४/२५९पृष्ठ २०६) । तपस्सी अक्कोधनो होति, अनुपनाही । तपस्सी अनिस्सुकी होति, अमच्छरी ← ( दी. नि. ३/२/५) इति दीघनिकायवचनमपि तात्पर्यवृत्त्या तपस उपादेयतामेवाऽऽवेदयति । यथोक्तं सुत्तनिपाते अपि सद्धा बीजं, तपो वुट्ठि ← (सु.नि.१/४/२) इति ।
ततश्च तपोनिषेधे 'निन्दामि च पिबामि चे 'ति न्यायापातो दुर्वारः सुगतस्य ।
वस्तुतः तपस्विसुगतिसाक्षात्करणात् सुगतस्य तपोगर्हादिकं नैव सम्भवति । तदुक्तं सुगतेन दीघनिकाये एकच्चं तपस्सिं अप्पदुक्खविहारिं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नं । योहं, कस्सप, इमेसं तपस्सीनं एवं आगतिञ्च गतिञ्च चुतिञ्च उपपत्तिञ्च यथाभूतं पजानामि, सोहं किं सब्बं तपं गरहिस्सामि सब्बं वा तपस्सिं खाजीविं एकंसेन उपक्कोसिस्सामि उपवदिस्सामि ? ← ( दी. नि. १/८/३८४, पृ. १४७) इति ।
यत्तु केषाञ्चित्तपस्विनामपि दुर्गतिगामित्वं तत्तु न तपोदूषणं किन्तु तादृशजीवगतकषायादीनामेव दूषणम्, अन्यथा बौद्ध भिक्षूणामपि केषाञ्चिद् दुर्गतिगामित्वाद् बौद्धदीक्षाया अपि निन्द्यत्वमेवाऽऽपद्येत । संयुत्तनिकाये तपो च ब्रह्मचरियञ्च तं सिनानमनोदकं ← (सं. नि. जरावर्ग- १/१/६/५८-पृ. ४४) इत्येवं तपो-ब्रह्मचर्ययोः चित्तमलापनायकत्वेन निर्जलस्नानरूपताऽपि सुगतोक्ता इत्थमेव सङ्गच्छते ।
किञ्च, तपोजन्याऽरत्यऽसहनेऽधीरत्वमेव बौद्धानां सिध्यति, जैनानां त्वरतिसहिष्णुतया धीरत्वमेव । तदुक्तं अंगुत्तरनिकाये धीरो हि अरतिस्सहो ← ( अंगु. ४ / ३ / ८) इति । 'तपो दुःखात्मकमिति मत्वा तपःकरणावसरेऽरतिकरणमेव परमार्थतो दुःखं, न तु तपो दुःखम् । एतेन अनभिरति खो आसो ! इमस्मिं धम्मविनये दुक्खा, अभिरति सुखा ← ( अंगु. १०/७/६ ) इति अंगुत्तरनिकायवचनमपि व्याख्यातम् ।
तपस्सि तपं समादियति, सो तेन तपसा
यत्तु दीघनिकाये उदुम्बरिकसिंहनादसूत्रे सुगतेन अत्तानुक्कंसेति परं वम्भेति अयम्पि खो, निग्रोध ! तपस्सिनो उपक्किलेसो होति । यम्पि, निग्रोध ! तपस्सी तपं समादियति, सो तेन तपसा मज्जति मुच्छति पमादमापज्जति । अयम्पि सो, निग्रोध! तपस्सिनो उपक्किलेसो होति । तपस्सी तपं समादियति सो तेण तपसा लाभ-सक्कार - सिलोकं अभिब्बित्तेति, सो न लाभ - सक्कार - सिलोकेन अत्तानुक्कंसेति परं वम्भेति । अयम्पि सो, निग्रोध ! तपस्सिनो उपक्किलेसो होति.... तपस्सि तपं समादियति, सो तेन तपसा लाभ-सक्कार-सिलोकं अभिनिब्बत्तेति, सो तेन लाभ - सक्कार - सिलोकेन मज्जति मुच्छति पमादमापज्जति ← ( दी. नि. ३/२/५८-५९, पृ ३०-३१) इत्यादिना ये तपस्विदोषा दर्शिताः, तत्रैव चाग्रे तपस्सी तपं समादियति, सो तेन तपसा न अत्तानुक्कंसेति, न परं वम्भेति । एव सो तस्मिं ठाने परिसुद्धो होति ।... यम्पि, निग्रोध ! तपस्सी तपं समादियति, सो तेन तपसा न मज्जति, न मुच्छति, न पमादमापज्जति । एवं सो तस्मिं ठाने परिसुद्धो होति । .... तपस्सी तपं समादियति, सो तेन तपसा लाभ-सक्कार-सिलोकं अभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org