________________
• दुःखत्वेन प्रतिभासेऽपि तपः साफल्यम् •
५१५
। तदुक्तं
लस्य सप्ताहकालं यावदुपोषितस्य लब्धजननी- जनकसम्मतेः बौद्धप्रव्रज्यालाभः श्रूयत एव मज्झिमनिकाये अथ खो रट्ठपालो कुलपुत्तो ' न मं माता- पितरो अनुजानन्ति अगारस्मा अनगारियं पब्बज्जाया'ति तत्थेव अनन्तरहिताय भूमिया निपज्जि 'इधेव मे मरणं भविस्सति पब्बज्जा वा'ति । अथ खो रट्ठपालो कुलपुत्तो एकम्पि भत्तं न भुञ्जि, द्वेपि भत्तानि न भुञ्जि, तीणिपि भत्तानि न भुञ्जि, चत्तारिपि भत्तानि न भुञ्जि, पञ्चपि भत्तानि न भुञ्जि, छपि भत्तानि न भुञ्जि, सत्तपि भत्तानि न भुञ्जि' ← (म.नि. २/४/२९६, पृ. २५७ रट्ठपालसुत्त) इत्यादि । ततश्च सुष्ठुक्तं महावीरगीतायां तपोयोगेन सर्वेषां चित्तशुद्धिः प्रजायते । तपोयोगो महायोगो मोहादीनां विनाशकः । । ← (महा. गी. ११/३) इति ।
एतेन मृद्वी शय्या, प्रातरुत्थाय पेया, भक्तं मध्ये, पानकं चापरा । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।। ← ( ) इति वाममार्गीयबौद्धैः मिथ्या कल्पितः प्रलापोऽपि निरस्तः स्वयमेव सुगतेन सदैवैकाशनतपः पालनात् परेषामपि तद्विधानात्, रात्रिभोजननिषेधाच्च । तदुक्तं मज्झिमनिकाये भगवा एतदवोच- 'अहं खो, भिक्खवे, एकासनभोजनं भुञ्जामि, एकासनभोजनं खो, अहं, भिक्खवे भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च । एत्थ तुम्हेपि, भिक्खवे एकासनभोजनं भुञ्जथ, एकासनभोजनं, खो भिक्खवे, तुम्हेपि भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च ← (म.नि. २.२.१३४ पृ.१०९)। रात्रिभोजनत्यागश्च मज्झिमनिकाये भगवा भिक्खू आमन्तेसि- 'इङ्ध तुम्हे भिक्खवे, एत्तं रत्तिं विकालभोजनं पजहथा ← (म.नि. २.२.१४९ पृ. १२५ ), तत्र खो भगवा भिक्खू आमन्तेसि- 'अहं खो, भिक्खवे, अञ्ञत्रेव रत्तिभोजना भुञ्जामि । अञ्ञत्र खो पनाहं, भिक्खवे, रत्तिभोजना भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासविहारञ्च । एत्थ तुम्हेपि, भिक्खवे अञ्ञत्रेव रत्तिभोजना भुञ्जथ । अञ्ञत्र खो पन, भिक्खवे, तुम्हे पि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा'ति ← (म.नि.२.२. १७६ पृ. १४८) इति दर्शितः ।
न च तथाप्युपवास - षष्ठाऽष्टमादीनां दुःखरूपतया हेयत्वमेव स्यादिति वाच्यम्, तवस्स मूलं धिती ← (नि.भा. ८४ चू.) इति निशीथचूर्णिवचनाद् धृतिसम्पन्नानामुग्रतपसोऽपि दुःखरूपत्वाऽभानात्, स्वल्पसत्त्वेऽपि सहिष्णोर्मुमुक्षोर्दुःखवेदनतोऽकुशलकर्मक्षयादिलाभात् । तदुक्तं सुगतेनैव मज्झिमनिकाये की - टागिरिसूत्रे अश्वजिदादिकं प्रति यस्मा च खो एतं भिक्खवे ! मया आतं दिट्टं विदितं सच्छिकतं फस्सितं पञ्ञाय - 'इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति, कुसला धम्म अभिवदन्तीति । तस्माहं 'एवरूपं दुक्खं वेदनं उवसम्पज्ज विहरथा'ति वदामि ← (म.नि. २/२/१०/१७९-पृष्ठ-१५१ ) इति । प्रकृते उपवासादिसहिष्णुत्वं च ← (बा. सू. ३/४ ) इति बार्हस्पत्यसूत्रमपि स्मर्तव्यम् ।
किञ्च सुगतस्य सम्बोधिप्राप्तिः षड्वर्षीयोग्रतपश्चर्यादित एवोपदर्शिता । तदुक्तं सुगतेनैव मज्झिमनिका पाशराशिसूत्रे बोधिराजकुमारसूत्रे च किच्छेन मे अधिगतं हलं दानि पकासितुं । राग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org