________________
५१४
• तपसः क्षायोपशमिकत्वसाधनम् • द्वात्रिंशिका-७/२६ गेन) क्षायोपशमिकत्वतः = चारित्रमोहनीयकर्मक्षयोपशमसमुद्भवत्वान्न तप औदयिकत्वादनादरणीयम् । तदाह___“विशिष्टज्ञान-संवेग-शमसारमतस्तपः। क्षायोपशमिकं ज्ञेयमव्याबाधसुखात्मकम् ।।(अ.११/८)" मिकत्वं सिद्धमेव । न हि यतिधर्माणामौदयिकभावरूपताऽभिमता । तथापि तपसः क्षायोपशमिकत्वे अष्टकसंवादमाह 'विशिष्टे' ति ।
तवृत्तिस्त्वेवम् → 'विशिष्टाः' प्रधानाः सम्यग्दर्शनविशेषितत्वात्, 'ज्ञान' च तत्त्वसंवेदनम्, 'संवेगश्च' संसारभयं मुक्तिमार्गाभिलाषिता वा, शमश्च कषायेन्द्रियमनसां निरोधो ज्ञानसंवेगशमाः, विशिष्टाश्च ते ते चेति कर्मधारयः, त एव सारः = अन्तर्गर्भो यस्य तैर्वा सारं यत्तत्तथा, ज्ञानादिसारमेव तपः तपो भवति नेतरत्, अल्पफलत्वात् । यदाह- “सद्धिं वाससहस्सा" (उपदेशमाला-८१) गाथा, “छज्जीवकायवहगा” (उपदेशमाला-८२) गाथा । 'अतः' इति यस्मादुक्तयुक्तेरदुःखात्मकमत एतस्माद्धेतोः, तपः = अनशनादि, किमित्याह, क्षयेण = उदीर्णचारित्रमोहनीयकर्मणश्छेदेन सह उपशमस्तस्यैव विपाकापेक्षया विष्कम्भितोदयत्वं = क्षयोपशमस्तत्र भवं क्षायोपशमिकं ज्ञेयं = ज्ञातव्यम्, न पुनः कर्मोदयस्वरूपम् । तथा अविद्यमाना व्याबाधा अविरतिजनिताः अनन्तराः पारम्पर्यकृता वा ऐहिक्यः पारत्रिक्यो वा यस्मिंस्तदव्याबाधम्, तच्च तत्सुखं च तदेवात्मा = स्वभावो यस्य तद् ‘अव्याबाधसुखात्मकं' = प्रशमसुखात्मकं सिद्धसुखानुकारीत्यर्थः । अनेन च श्लोकेन तपसोऽकर्मोदयस्वरूपत्वमदुःखत्वरूपत्वं चावेदितम् । उक्तं चैतदन्यत्रापि"जं इय इमं न दुक्खं, कम्मविवागो वि सव्वहा णेवं । खाओवसमियभावे, एयंति जिणागमे भणियं ।। खन्ताइसाहुधम्मे, तवगहणं सो य खओवसमियम्मि । भावम्मि विणिद्दिट्ठो, दुक्खं चोदइयगे सव्वं ।।
(पञ्चवस्तुक-८५७-८५८) एतेन च तपसो दुःखरूपत्व-कर्मोदयस्वरूपत्वपरिहारेण “सर्व एव हि दुःख्येव” इत्यादिश्लोक(अ.११/२-३)द्वयाभिहितं तपोदूषणं सर्वं परिहृतमवगन्तव्यं, दुःखस्वरूपत्वाश्रयत्वात्तस्येति - (अष्टकवृत्ति-११/८)।
‘सद्धिं वाससहस्सा' इत्यत्र 'तिसत्तखुत्तो दएण धोएण। अणुचिण्णं तामलिणा अन्नाणतवुत्ति अप्पफलो'।। इत्येवं गाथापूर्तिः करणीया उपदेशमालातः (उप.मा. ८१) । 'छज्जीवकायवहगा' इत्यत्राऽपि 'हिंसकसत्थाई उवइसंति पुणो । सुबहुं पि तवकिलेसो बालतवस्सीण अप्पफलो' ।। (उपदेशमाला८२) इत्येवं गाथापूर्तिः तत एव कार्या ।
किञ्च तपसा विघ्नविच्छेदो भवतीति बौद्धानामपि सम्मतम् । प्रव्रज्यार्थं अग्रकुलिकपुत्रस्य राष्ट्रपाસંસર્ગથી તપધર્મ ક્ષાયોપથમિક છે. અર્થાત ચારિત્રમોહનીય તથા વર્યાન્તરાય કર્મના ક્ષયોપશમથી ઉત્પન્ન થયેલ હોવાથી ઉપવાસાદિ તપ ઔદયિકરૂપ નથી. અશાતાવેદનીય કર્મના ઉદયથી તપ ઉત્પન્ન થયેલ નથી. માટે જ તપ અનાદરણીય બનતો નથી. અષ્ટકજીમાં જણાવેલ છે કે “વિશિષ્ટ કોટિના જ્ઞાન, સમતા, સંવેગ વગેરેથી ગર્ભિત હોવાના કારણે તમને ક્ષાયોપથમિક જાણવો. તથા તપ અવ્યાબાધ સુખરૂપ छ.” (भाटे पूर्व ७/२५ पृ४-५१० ५२ ४ ४९॥वेल तुं 'त५ दु:५३५ छे, मार्तध्यान३५ छ, मसातवहनीयन्य छे...' माघी पात पालियात छ- मेम सालित थाय छे.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org