________________
• रत्नवणिगुदाहरणम् .
५१३ (अष्टक-११/५-६-७) इति ।
तथा ज्ञानादीनां, आदिना शम-संवेग-सुख-ब्रह्मगुप्त्यादिग्रहः, योगेन = सम्बन्धेन (=ज्ञानादियोहिशब्दः स्फुटार्थः, अदुःखदा = न पीडाकारिणी। केषामित्याह, रत्नानि मरकतादीनि आदिर्येषां वस्त्रसुवर्णादीनां तानि तथा तेषां वणिक् वाणिजको = रत्नादिवणिक् स आदिर्येषां कृषीवलादीनां ते तथा तेषां रत्नादिवणिगादीनाम् । ततः किमित्याह तेषामिव = वणिगादीनामिव = तद्वत्, अत्रापि = अनशनादितपोविषयेऽपि भाव्यतां = निपुणधिया पर्यालोच्यताम् । तथाहि - रत्न-सुवर्ण-वसनादिवणिक्कृषीवलादीनां समीहितार्थसंसिद्धिबद्धनिश्चयानां अपारपारावारावतारकान्तारनिस्तरणधरणीप्रकर्षणादिविविधव्यापारपरायणानां क्षुत्पिपासाश्रमादिजनितदेहपीडा न मनोविधुरताऽऽधायिनीति । एवं साधूनामपारसंसारसागरादचिरादुत्तितीर्पूणामनशनोदरतादितपोजनितदेहपीडा न मनोबाधाविधायिनीति ।
इह पुनर्विशेषसम्प्रदाय केचिदेवमूचुः- “किल कोऽपि दरिद्रवणिजको दूरदेशान्तरं गत्वा कथङ्कथमपि रत्नान्युपार्जितवान् चिन्तितवांश्च ‘कथमहमेतानि महामूल्यानि सर्वाशासम्पादकानि महारत्नानि चौरव्याकुलमरण्यं निस्तीर्य स्वनगरं गत्वोपभोगं नेष्यामि' ? ततस्तेनोत्पन्नबुद्धिना तान्येकत्र स्थाने निहितानि, काचादिशकलानि च पोट्टलिकायां बद्धानि, सा च दण्डाग्रे निबद्धा। ततश्चौरपल्लीमध्येन ‘अहो रत्नवणिजको गच्छति' इत्येवं महता शब्देन व्याहरन्नरण्यमतिक्रामति स्म । ततो मार्गपल्लीषु च ये जनास्ते तं वीक्ष्य ससंभ्रममागत्य निभालयन्ति स्म । अपश्यंश्च काचादिशकलानि, अवधीरितवन्तश्च ‘ग्रहगृहीतोऽयमिति विभावयन्तः । ततः पुनरपि तथैव निवृत्तः, तत्रापि यैः पूर्वं न वीक्षित आसीत्ते तथैव वीक्षितवन्तोऽथावधीरितवन्तश्च, एवं पुनरपि असावरण्यमध्येन गतवान् ततस्तृतीयवेलायामतिपरिचितत्वादवधीरितस्तस्करजनेन, ततोऽसौ निश्चितं 'न मां कोऽपि अत्रारण्यमार्गे स्खलयिष्यतीति निश्चित्य रत्नानि गृहीत्वा शीघ्रं शीघ्रं तदुपयो(भो)गाय वाञ्छितपुरप्राप्तावरण्यात्तन्निर्वाहणे चातीवौत्सुक्येनानवरतमहाप्रयाणकैः क्षुत्पिपासाश्रमादीन् भवतो भूयसोऽप्यवगणयन् गन्तुं प्रवृत्तः। बहुतरमार्गमतिलचितः सन् पिपासाभिभूतो भावयामास, 'अहो अहमद्य जलं विना म्रिये, न च रत्नोपभोगभाजनं भवामी'त्येवं भावयता मरणभयभीतेन रत्नोपभोगकाङ्क्षिणा दृष्टं सरः पङ्कप्रायपानीयं पङ्कमग्नमृगादिकलेवरपूयकृमिजलव्याकुलं विलीनमतिदुर्गन्धं विरसं तुच्छजलं दृष्ट्वा च गन्धमजिघ्रता रसमनास्वादयता दुष्करकरणं कुर्वता अक्षिणी निमील्याञ्जलिभिस्तत्पीतवान् परं स्वास्थ्यं चागमत् । तदुपष्टम्भितश्च क्षीणपिपासादुःखोऽक्षेपेणेष्टपुरं प्राप्तः रत्नोपभो(यो)गसुखं चेति” । उपनयस्तु प्रागुक्त एवेति + (अ.प्र.११/५६-७ वृत्ति) ।
तदेवं तपसो दुःखात्मकतां व्युदस्य साम्प्रतं कर्मोदयजन्यतां प्रतिक्षिपन्नाह - तथा ज्ञानादीनामिति । यद्यपि → खंती य मद्दवऽज्जव मुत्ती तव संजमे अ बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ।। - (दशवैकालिकनियुक्ति-अध्य.६/१४८ + आवश्यकनियुक्तिसङ्ग्रहणी गाथा-३-पगामसज्झाय + नवतत्त्वप्रकरण-२९) दशवैकालिकनियुक्त्यादिवचनादेव क्षान्त्यादियतिधर्मे तपसो निर्देशतः क्षायोपशતે પીડા દુઃખદાયક બનતી નથી. તે રીતે પ્રસ્તુતમાં તપ અંગે પણ વિચારવું. ૯ ___ तथा ज्ञाना. । तेम ४ शान, समता, संवेग, प्रसन्नता, ब्रायन पाउनु पालन पो३ गुयोन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org