SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ • इष्टफलसिद्धौ कायपीडा न दुःखदा • द्वात्रिंशिका-७/२६ मनइन्द्रिययोगानामहानि चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य युक्त्या (ता) स्याद् दुःखरूपता ।। याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रियासमा सापि ' नेष्टसिद्ध्याऽत्र' बाधनी ।। दृष्टा चेष्टाऽर्थसंसिद्धौ कायपीडा दुःखदा । रत्नादिवणिगादीनां तद्वदत्राऽपि भाव्यताम् ।। वीरभद्रसूरिभिः अपि आराधनापताकाप्रकीर्णके सो नाम बाहिरतवो जेण मणो मंगुलं न चिंतेइ । जेण य न जोगहाणी मणनिव्वाणी य से होइ ।। ← ( आ.प. १४९) इति । इत्थं भावितका तया भावितचित्ततया च दुःखमय- सुखमयान्यतरवेदनाभिष्वङ्गविरहेण बौद्धनीत्यापि विवेकयुक्तबाह्यतपसः कल्याणकारिताऽनाविलैव । ५१२ अष्टकप्रकरणसंवादमाह कारिकात्रितयेन 'मन' इत्यादि । तद्वृत्तिश्चैवम् पूर्वपक्षवादिना यदुक्तम्, 'दुःखात्मकं तपो न युक्तिमत् कर्मोदयस्वरूपत्वात्', तत्र दुःखात्मकमिति विशेषणं तपसो न सिद्धमिति तावदावेदयति । कथम् ? मनश्च चित्तमिन्द्रियाणि च करणानि योगाश्च प्रत्युपेक्षणादयः संयमव्यापारा मन- इन्द्रिय-योगास्तेषाम्, अहानिः = अनाबाधता चोदिता अभिहिता । अथवा च-शब्दः समुच्चये, तेन अनुपप्लुतता च, उदिता = उक्ता, जिनैः तीर्थङ्करैः, यतो यस्मात्कारणात्, अत्र तपसि । यदाह - 'सो हु तवो कायव्वो, जेण मणो मंगुलं न चिन्तेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ।।' (पञ्चवस्तुक-२१४ + महानिशीथचूर्णि - २४ ) । तथा - " ता जह न देहपीडा, न यावि चियमंससोणियत्तं तु । जह धम्मज्झाणवुड्ढी, तहा इमं होइ कायव्वं ।। ( पञ्चवस्तुक-८५३) तत् इति तस्मात्कारणात् कथं केन प्रकारेण न कथञ्चिदित्यर्थः, तु इति वितर्के, अस्य = तपसः युक्ता = उपपन्ना स्यात् भवेत् दुःखरूपता = असुखस्वभावता ? तदेवं दुःखात्मकत्वं तपसो - ऽसिद्धं तदसिद्धावयुक्तिमत्त्वमप्यसिद्धमित्युक्तमिति । ननु देहपीडाकारित्वेनानशनादीनां दुःखस्वरूपत्वमनुभूयमानमपि कथमसिद्धमिति व्यपदिश्यत इत्याह यापि इति । अनशनादिभ्यः उक्तन्यायेन तावद्देहपीडा न भवत्येव । यापि च अनशनादिभ्य उपवासादिभ्यः, आदिशब्दादूनोदरतादेः सकाशात्, कायपीडा शरीरबाधा, न तु मनःपीडा, मनाक् = स्वल्पा, क्वचित् = देशे काले वा न पुनः सर्वत्र सर्वदा सा सम्भवति उक्तन्यायप्रवृत्तस्य साऽपि इति इह दृश्यं तेनासावपि न बाधनी = नैव बाधिका, न मनसो दुःखदा । किमित्यत आह इष्टसिद्ध्या वाञ्छितार्थसाधनात् अत्र = प्रवचने । किंविधासावित्याह व्याधिक्रियासमा रोगचिकित्सातुल्या । यथाहि रोगचिकित्सायां मनाक् देहस्य पीडा सत्यपि न बाधिका आरोग्यसिद्धेः, एवं तपस्यपि देहपीडा भावारोग्यसंसिद्धेर्न भावतो बाधिकेति भावनेति । इष्टार्थसंसिद्धौ देहपीडाया अदुःखरूपतां दृष्टान्तेन समर्थयन्नाह न केवलमस्माभिरेवेहोपन्यस्ता, = = - = = = = = दृष्टा च लोकेऽवलोकिता, इष्टार्थसंसिद्धौ अभिप्रेतप्रयोजनप्राप्तौ सत्याम्, कापीडा देहबाधा, સ્વાધ્યાય આદિ યોગોની હાનિ ન થાય એવું શ્રી જિનેશ્વર ભગવંતોએ જણાવેલ છે. તેથી આ તપમાં દુઃખરૂપતા કઈ રીતે યુક્તિસંગત બને? તથા અણસણ-ઉપવાસ વગેરે દ્વારા ક્યાંક જે થોડી દેહપીડા થાય છે તે રોગની ચિકિત્સાતુલ્ય છે. તેથી તે પીડા ભાવઆરોગ્યરૂપ ઈષ્ટની સિદ્ધિ થવા દ્વારા પ્રસ્તુતમાં બાધક બનતી નથી. લોકમાં પણ દેખાય છે કે રત્ન વગેરેના વેપારીઓને ધંધામાં શારીરિક તકલીફ હોવા છતાં ધન વગેરેની સિદ્ધિ થવાથી = = १. हस्तादर्शे ‘नेत्रा..’ इत्यशुद्धः पाठः । २. हस्तादर्शविशेषे 'सिद्ध्याऽर्थबाधनी' इति पाठः । ३. हस्तादर्शे 'तेद्' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy