________________
• बौद्ध-जैनतन्त्रे निर्निदानतपसः कर्तव्यता •
५१७
निब्बत्तेति, सो तेन लाभ - सक्कर - सिलोकेन न अत्तानुक्कंसेति परं न वम्भेति । एवं सो तस्मिं ठाने परिसुद्धो होति ।..... तपस्सी तपं समादियति, सो तेन तपसा लाभ-सक्कार - सिलोकं अभिनिब्बत्तेति, सो तेन लाभ-सक्कार-सिलोकेन न मज्जति, न मुच्छति न पमादमापज्जति । एवं सो तस्मिं ठाने परिसुद्धो होति ← (दी.नि. ३/२/६४, पृ.३३ ) इत्येवं या तपस्विशुद्धिरुपदर्शिता तदुभयाभ्युपगमोऽस्माकमनाविल एव । → नो इहलोगट्ठाए तवमहिट्टिज्जा ← (द.वै. ९/४/४) इत्यादिना दशवैकालिकसूत्रे तपःसमाधिप्रदर्शनावसरे तपः शुद्धिर्दर्शितैवेति विवेकपूर्वं तपःकरणे योग्यस्य न दोषसम्भवः, अन्यथा शीलप्रज्ञादेरपि त्याज्यतैवाऽऽपद्येत । विनयद्वात्रिंशिकायां ( द्वा.२९/२४ पृष्ठ - १९९८) स्पष्टीभविष्यतीदम् ।
किञ्च तपोऽकरणतः सुखशीलतयाऽकुशलधर्मवृद्ध्यादिदर्शने तु तपश्चर्यादरेण दुःखोदीरणतोऽकुशलधर्महान्याद्यानयनं सुगतस्याऽप्यभिप्रेतमेव । इदमेवाऽभिप्रेत्य सुगतेन मज्झिमनिकाये “भिक्खवे ! भिक्खु इति पटिसञ्चिक्खति - 'यथासुखं खो मे विहरतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; दुक्खाय पन मे अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति यंनूनाहं दुक्खाय अत्तानं पदहेय्यन्ति । सो दुक्खाय अत्तानं पदहति तस्स दुक्खाय अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति ← (म.नि. ३/१/१/१२, पृ.१०) इति यदुक्तं तदपि सापेक्षभावेन तपश्चर्यायाः साफल्यमुपादेयत्वञ्चोपदर्शयतीत्यवधेयम् ।
प्रकृते
किञ्च तपश्चर्यायामाहारादित्यागानुबृंहणमस्ति तच्च सुगतेन मज्झिमनिकाये धातुविभङ्गसूत्रे → चागमनुब्रूहेय्य ← ( म.नि. ३/४/१०/३४३, पृ.२८८) इत्येवं विहितमित्यर्थतः तपश्चर्याया विहितत्वमेवेति । तपसा प्राप्यते सत्त्वं सत्त्वात् सम्प्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्माऽपत्त्या निवर्तते ।। ← (मैत्रे.१/४/२) इति मैत्रेय्युपनिषद्वचनं नाऽतपस्कस्याऽऽत्मज्ञानेऽधिगमः कर्मसिद्धिर्वा ← (मैत्रा.४/३) इति च मैत्रायण्युपनिषद्वचनं यद् दुस्तरं यद् दुरापं यद् दुर्गं यच्च दुष्करम् । सर्वं तत् तपसा साध्यं तपो हि दुरतिक्रमम् ।। ← (मनु. ११ / २३९) इति मनुस्मृतिवचनं, → तपसो हि परं नास्ति ← ( म.भा.वन. ९१ / १९) इति महाभारतवचनं तपसा चीयते ब्रह्म ← (मुण्ड १/ १/८) इति च मुण्डकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
तपःकरणे सुवर्णघटनन्यायः सङ्गच्छते । यथाऽघटितं सुवर्णमुल्कामुखेऽतितपनोत्तरं कुण्डलाद्याकारसंस्थितं सत् शीतलीक्रियते सौवर्णिकैः तथैवाऽयमात्माऽपि प्रबलतरतपोदहननिर्दग्धकर्ममलोत्तरं शुद्धचैतन्यैकस्वरूपसंस्थितः सन् कार्त्स्न्येन शीतीभूतः सम्पद्यत इति दिक् ।
तपः कुलके अपि अथिरं पि थिरं, वंकं पि उजुअं, दुल्लहं पि तह सुलहं । दुस्सज्झं प सुसज्झं तवेण संपज्जए कज्जं । ← (त. कु. ३) इत्येवं तपः फलमुपदर्शितम् । तत्त्वार्थभाष्ये उमास्वातिवाचकैः अपि → षड्विधादपि बाह्यात् तपसः सङ्गत्याग-शरीरलाघवेन्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ← ( त.भा.९/२९) इत्येवमनशनादिबाह्यतपःफलमुपदर्शितम् । यथोक्तं उत्तराध्ययनसूत्रे अपि तवेणं भंते ! जीवे किं जणेइ ? वोयाणं जणेइ ← ( उत्त. २९/२८) इति । व्यवदानं = पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिम् ← ( उत्त. २९/२८ पृष्ठ - ५८६ ) इति तद्वृत्तौ शान्तिसूरयः । प्रकृते न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति यथा लोके पारदमन्तरेण विषव्रणानां नोपशान्तिः ← (जै. न्या. मा.३/८/४) इति जैमिनीयन्यायमालाविस्तरवचनमपि यथातन्त्रं भावनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.