________________
५००
• कामोद्रेकस्य विकारविशेषकारित्वम् • द्वात्रिंशिका-७/२० परिग्रहयोश्च दोषयोरवश्यम्भावो दृश्यते । न च कामोद्रेकं विना' मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति । तदिदमुक्तं 'नाऽऽपवादिककल्पत्वान्नैकान्तेनेत्यसङ्गतम्" (अष्टक.२०/३) ।।२०।। कामोदयस्य = वेदमोहनीयविपाकोदयस्य तथाविधारम्भ-परिग्रहयोश्च = मैथुनसेवनाविनाभाविकलत्रयोनिगतनानासत्त्वहिंसायाः पत्नीपरिग्रहस्य पत्नीपुत्रादिनिमित्तकधनादिपरिग्रहस्य च अवश्यम्भावः दृश्यते । मेहनविकारविशेषः = ललनायोन्यधिकरणक-वीर्यप्रक्षेपानुकूलजननेन्द्रियव्यापारविशेषः, तेन वातप्रकोपादितो मेहनविकृतावपि अतिश्रम-ताप-रोगादितश्च वीर्यस्खलनेऽपि नातिप्रसङ्गः । एतेन → स्तब्धलिङ्गत्वं रागस्य लक्षणम् + (का.सू.९/८ वृत्ति) इति कामसूत्रव्याख्याकृतो यशोधरस्य वचनं व्याख्यातम् ।
__ प्रकृते अष्टकप्रकरणसंवादमाह 'नापवादिके'ति । श्रीजिनेवरसूरिकृता तद्वृत्तिश्चैवम् → धर्मार्थमित्यादिविशेषणोपेतमैथुने न दोष इति यदुक्तं तत्, न = नैव । कुत इत्याह अपवादो हि विशेषोक्तिविधिः, तत्रापवादे भवः = आपवादिकः, स चासौ कल्पश्चाचारः = आपवादिककल्प आपवादिकप्रायं वाऽऽपवादिककल्पम् । तद्भावस्तत्त्वम्। तस्मात् = आपवादिककल्पत्वात्, व्यसनगतस्य श्व(स्व?)मांसभक्षणवदिति दृष्टान्तोऽभ्यूह्यः। अयमभिप्रायः - यद्यप्यपवादेन श्व(स्व?)मांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति, प्रायश्चित्ताधप्रतिपत्तिप्रसङ्गात् । किं तर्हि ? गुणान्तरकारणत्वेन गुणान्तरार्थिना तदाश्रीयत इति । एवं मैथुनं स्वरूपेण सदोषमप्याकौमाराद्यतित्वपालनाऽसहिष्णुर्गुणान्तरापेक्षी समाश्रयते। सर्वथा निर्दोषत्वे तु आकुमारत्वाद्यतित्वपालनोपदेशोऽनर्थकः स्यात् गार्हस्थ्यत्यागोपदेशश्च । इत्यतः साधूक्तं धर्मार्थादिविशेषणेन मैथुने दोषाभाव आपवादिककल्पत्वात्तस्येति । ततश्च नैकान्तेन = सर्वथा मैथुने दोष इति यदुक्तं 'न च मैथुने' इत्यनेन वचनेन इति = एतत्, असङ्गतं = अयुक्तम्, रागादिभावेन कथञ्चित् तस्य सदोषत्वात् । धर्मार्थिनोऽपि हि पुंसो मैथुने मेहनविकारकारिणः कामोदयस्य तथाविधारम्भपरिग्रहयोश्चावश्यम्भावित्वात् । न च कामोद्रेकं विना मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति, 'आपवादिककल्पत्वात्' इति क्वचित्पठ्यते तत्रैकवाक्यतया व्याख्या कार्या 6 (अ.प्र.२०/३) इति ।
एतेन → शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः (का.सू. २/४६) इति कामसूत्रोक्तिः निरस्ता वेदितव्या, तथाविधशास्त्राभ्यास-वैराग्य-तपस्त्यागादिनाऽपि कामोद्रेकस्यानुत्थानपराहतत्वाद् विनाऽपि कामोपसेवनं बहूनामखण्डब्रह्मचारिणां देहस्थितिदर्शनात् । કામવાસનાના ઉદય વિના તો ન જ થાય. આથી મૈથુનસેવનમાં કામવાસનાનો ઉદય એ દોષરૂપ છે. તે ઉપરાંત સ્ત્રીયોનિમાં રહેલા કૃમિ વગેરે જીવોની વિરાધના સ્વરૂપ દોષ રહેલ છે. તેમ જ પત્ની વગેરેના ભરણ-પોષણ વગેરે માટે ધનસંગ્રહ-પરિગ્રહ દોષ પણ મૈથુનસેવન સાથે અવશ્ય સંકળાયેલ છે. (“માત્ર ધર્મનિમિત્તને મુખ્ય રાખીને કરવામાં આવતા અબ્રહ્મસેવનમાં કામવાસના હોતી નથી.” આવી શંકા અહીં અસ્થાને છે. કારણ કે) કામવાસનાના ઉદ્રક વિના જનનેન્દ્રિયમાં તથાવિધ ધાતુમ્બલનકારક ઉત્તેજના ન આવે. કામોદ્રક વગર જો તેવી ઉત્તેજના આવતી હોય તો ભય વગેરે અવસ્થામાં પણ તેવી ઉત્તેજના આવવી જોઈએ. પણ ભય-શોક વગેરે દશામાં તેવી ઉત્તેજના આવતી નથી. માટે કામવાસનાનો ઉદય મૈથુનસેવનમાં અપરિહાર્ય દોષ છે. માટે અષ્ટકપ્રકરણમાં જણાવેલ છે કે – “મૈથુન સેવન આપવાદિકપ્રવૃત્તિતુલ્ય હોવાથી તેમાં એકાંતે દોષ નથી.” આવું પૂર્વપક્ષીનું વચન અસંગત છે. ૯ (૨૦) १. हस्तादर्श ‘विना न मे...' इत्यधिकोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org