SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ बहुपुत्राणामपि दुर्गतिगामित्वम् स्यात् गार्हस्थ्यत्यागोपदेशश्चेति । धर्मार्थिनोऽपि पुंसो मैथुने मेहनविकारिणः कामोदयस्य तथाविधाऽऽरम्भनिरस्तम्। तदुक्तं कैवल्योपनिषदि न प्रजया, न धनेन, त्यागेनैकेऽमृतत्वमानशुः ← (कै.१/३) इति । एतेन एष्टव्या बहवः पुत्राः ← ( इति. ३८, बृ. स्मृ. २१, कू.पु. उपरि ३४/१३, म.भा.वन.८७/९) इति इतिहासोपनिषद्-बृहस्पतिस्मृति - कूर्मपुराणवचनं महाभारते धौम्यवचनं च निरस्तम् । तदुक्तं सदानन्दोपनिषदि अपि → न कर्मणा न प्रजया धनेन, त्यागेनैकेऽमृतत्वमानशुः ← (सदा. ९) इति । तदुक्तं शङ्खस्मृती अपि ब्रह्मचारी दिवं याति ← (शं. स्मृ . ब्रह्मचारी. ७२ ) । एतेन पुत्रस्यापि च पुत्रत्वं यत्त्राति नरकार्णवात् ← (बृ. पारा. ६ / १९० ) इति च बृहत्पाराशर - स्मृतिवचनं, पुंनाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ← ( म. भा. आदिपर्व ७४ / ३९) इति महाभारते शकुन्तलावचनं पुन्नामनरकात् त्रायते इति पुत्रः ← ( तै. आ. सा. ६/१/१) इति तैत्तिरीयारण्यकसायणभाष्यवचनं च निरस्तम्, बहुपुत्राद्युपेतानामपि रावण दुर्योधनादीनां नरकश्रवणात् । ब्रह्मचारिणामपवर्गप्राप्तिरपि मैथुनं ये न सेवन्ते ब्रह्मचारिदृढव्रताः । ते संसारसमुद्रस्य पारं गच्छन्ति मानवाः ।। ← (महा.ब्रह्मचर्याधिकार-शान्तिपर्व, ध. स्मृ. २९) इति महाभारत - धर्मस्मृतिवचनात्प्रसिद्धैव । → एकरात्रादुषितस्यापि या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर ! ← ( म.भा. शांति ब्रह्मचर्याधिकारः) इत्यपि महाभारतवचनं ब्रह्मचर्यस्योपादेयतामेवौत्सर्गिकीमाविष्करोति । तदुक्तं विष्णुस्मृतौ अपि एकरात्रावुषितस्यापि यतेर्या गतिरुच्यते । न सा शक्या गृहस्थेन प्राप्तुं क्रतुशतैरपि ।। ← (वि. स्मृ. ) इति । • · = ४९९ प्रकृते त्रिंशत् परान् त्रिंशदपरान् त्रिंशच्च परतः परान् । उत्तारयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ।। ← (शा.३१) इति शाट्यायनीयोपनिषद्वचनं त्रिंशत् परान् त्रिंशदपरान् त्रिंशच्च परतः परान् । सद्यः संन्यसनादेव नरकात् तारयेत् पितॄन् ।। ← (द स्मृ. ) इति दक्षस्मृतिवचनं, → ब्रह्मचर्यं परो धर्मः ← (म.भा. आदि. १६९/७१) इति च महाभारतवचनमप्यवधेयम् । ब्रह्मचारिसहस्रं च वानप्रस्थशतानि च । ब्राह्मणानां हि कोट्यस्तु यतिरेको विशिष्यते ।। ← (अत्रि. ) इति अत्रिवचनमपि यत्याश्रमस्याऽभ्यर्हितत्वं दर्शयति । मैथुनस्य सर्वथा निर्दोषत्वे → मैथुनमिति च वर्जयेत् ← (आ.ध.सू.२/५/५/१६ ) इति आपस्तम्बीयधर्मसूत्रमपि निरर्थकं स्यात् । किञ्चैवं संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजत्यकृतोद्वाहः परं वैराग्यमाश्रितः । । ← ( ना . परि. ३/१५) इति नारदपरिव्राजकोपनिषद्वचनतो गृहस्थः पुत्र-पौत्रादीन् दृष्ट्वा पलितमात्मनः । भार्यां पुत्रेषु निःक्षिप्य सह वा प्रविशेद्वनम् ।। ← (ल.हारि. ५/२) इति लघुहारितस्मृतिवचनतश्च गार्हस्थ्यत्यागोपदेशश्च निरर्थकः स्यात् । प्रकृते कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेद्यतिः ← (ना. प.उ. ३/३२) इति नारदपरिव्राजकोपनिषद्वचनमपि स्मर्तव्यम् । एतेन ब्रह्मानन्दानुभूतेः स्याल्लोभात् स्पर्शेन्द्रियेण वै । दम्पतीसङ्गमः साक्षात् पवित्रः सात्त्विकः शुभः ।। ← (शं.गी. २/५१ ) इति शम्भुगीतावचनमपि प्रत्याख्यातम्, धर्मार्थिनोऽपि = धर्मनिमित्तकपुत्रकामनाशालिनोऽपि पुंसो मैथुने = मैथुनसेवने मेहनविकारिणः पुरुषजननेन्द्रियविकृतिविशेषकारिणः તથા સંસાર છોડવાનો શાસ્ત્રોપદેશ પણ નિરર્થક બની જાય. ભલે ધર્મનિમિત્તક પુત્રકામનાથી માણસ મૈથુન સેવન કરે છતાં ય મૈથુનસેવનમાં જનનેન્દ્રિયની ઉત્તેજના તો અવશ્ય થાય છે. તે ઉત્તેજના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy