________________
४९४ • सप्तव्यसननिर्देशः .
द्वात्रिंशिका-७/१७ ततश्च भ्रष्टसामर्थ्यः स मृत्वा दुर्गतिं गतः। इत्थं दोषाऽऽकरो मद्यं विज्ञेयं धर्मचारिभिः ।।
(अष्टक.१९/४-८) इति ।।१७।। मद्यस्य भोगः = आसेवनं = तद्भोगस्तस्मात् (=तद्भोगात्) नष्टा भ्रष्टा धर्मस्य = कुशलानुष्ठानलक्षणस्य स्थितिः = व्यवस्था यस्य स तथा (=नष्टधर्मस्थितिः), ततश्च मदात् = चित्तविप्लुतिलक्षणात्, विदंशार्थं = मद्यपानोपदंशार्थं अजं = छागं हत्वा = विनाश्य सर्वमेव = निरवशेषमपि यत्ताभिरभिहितमनभिहितं च पापमजपिशितपचननिमित्तमिन्धनार्थमाराध्यदेवतादारुमयप्रतिमास्फोटनादि तत् चकार = कृतवान् स = इत्यसावृषिः ।। ततश्च = मद्याऽऽसेवनानन्तरं पुनः भ्रष्टसामर्थ्यो = निहततपोवीर्यः, स ऋषिः मृत्वा = प्राणान्परित्यज्य, दुर्गतिं = नरकरूपां गतः = प्राप्त इति दृष्टान्तः। अथ प्रकृतयोजनायाह इत्थम् = अनेन प्रकारेण, दोषाऽऽकरो = दूषणोत्पत्तिभूमिः मद्यं = मदिरा विज्ञेयं = ज्ञातव्यं धर्मचारिभिः = कुशलानुष्ठानसेवाशीलैरिति + (अ.प्र.१९/४-८ वृत्ति) इति अष्टकवृत्तिकारः।
→ एकतः सर्वपापानि मद्य-मांसं चैकतः (ध.स्मृ.३९) इति धर्मस्मृत्युक्तेरपि त्याज्यत्वेन सिद्धयोर्मद्य-मांसयोः व्यसनसप्तकमध्ये श्रवणादपि त्याज्यतैव । तदुक्तं उदयवीरगणिभिः पार्थनाथचरित्रे → धुतं च मांसं सुरा च वेश्या पापर्द्धि-चौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके घोरातिघोरं नरकं नयन्ति ।। - (पा.च.सर्ग.२/पृ.४३) इति । मनुस्मृतौ अपि → ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ।। (म.स्मृ.११/५४) इत्येवं सुरापानादेः त्याज्यतोक्ता । पद्मपुराणेऽपि → मद्यं मांसाशनं रात्रौ भोजनं कन्दभक्षणम् । ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः ।। वृथा चैकादशी प्रोक्ता वृथा जागरणं हरेः । वृथा च पौष्करीयात्रा वृथा चान्द्रायणं तपः ।। (पद्मपु.) इत्यादिना मद्य-मांसादेस्त्याज्यतोपदर्शिता। तदुक्तं बार्हस्पत्यसूत्रे अपि → न मद्यं पिबेत् + (बा.सू.१।१६) इति। तदुक्तं संवतस्मृतौ अपि → गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।। 6 (सं.स्मृ.११९) इति । एतेन → आसवानि सेवयेत् + (बा.सू.३/५७) इति बार्हस्पत्यसूत्रं निरस्तम् । → मद्यं पीत्वा द्विजो मोहात् कृच्छ्र-चान्द्रायणं चरेत् + (ब्र.पु.ललितो.१/४/८/४९-पृष्ठ-१७३) इति ब्रह्माण्डपुराणवचनादपि मद्यपानस्य सदोषता सिध्यति । विष्णुधर्मोत्तरेऽपि → मानवस्याऽस्वतन्त्रस्य गोब्राह्मण-हितस्य च । मांस-भक्षणहीनस्य सदा सानुग्रहा ग्रहाः ।। (वि.ध.खं. १,अ.१०५/१२) मधुमांसनिवृत्ताश्च निवृत्ता मधुपानतः । कालमैथुनतश्चापि विज्ञेयाः स्वर्गगामिनः ।। (वि.ध.खं.२, अ.११७/८) मधु मासं च ये नित्यं वर्जयन्तीह मानवाः । जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ।। - (वि.ध.खं.२,अ.१२२/ २३) इत्यादिना मद्यपानादेनिषिद्धता व्यक्तैव । तदुक्तं कूर्मपुराणे अपि → सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् + (कू.पु.उपरि.१७/४३) इति । इत्थञ्च मद्यपानस्य निर्दोषता साधयितुं परैर्न शक्यते । अत्र च ‘यदश्वेन हृतं पुरा तत्पश्चाद् गर्दभः प्राप्तुं केनोपायेन शक्नुयादिति न्यायः समुपलब्धावसरः। उपलक्षणाद् अक्षक्रीडादेरपि निषिद्धत्वमवसेयम् । तदुक्तं ऋग्वेदे अपि → अक्षर्मा दीव्यः - (ऋ.वे.१०/ કર્યો. તથા વિદેશ માટે બકરાને હણીને દેવીએ પૂર્વે કહેલું અબ્રહ્મસેવન વગેરે બધું જ કર્યું. પછી તપનું સામર્થ્ય નષ્ટ થવાથી મરીને તે દુર્ગતિમાં ગયા. આમ ધર્મ કરનારાઓએ દારૂને દોષની ખાણ રૂપે જાણવો.” (૧૭)
વિશેષાર્થ :- અબ્રહ્મસેવન અને જીવહિંસા ન કરવાનું ઈચ્છવા છતાં દારૂ પીવાથી નશાના લીધે બધું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org