________________
४९३
• मद्यपमहर्षिकथानकोपदर्शनम् • 'मद्यस्याऽतिदुष्टत्वं च पुराणकथास्वपि श्रूयते । तथाहिकश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः। क्षोभाय प्रेषयामास तस्याऽऽगत्य च तास्तकम् ।। विनयेन समाराध्य वरदाऽभिमुखं स्थितम् । जगुर्मा तथा हिंसां सेवस्वाऽब्रह्म वेच्छया ।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ।।
→ एषां गमनिका, कश्चित् = कोऽप्यनिर्दिष्टनामा ऋषिः = बालतपस्वी किल महाटव्यां वसन् तपः = अनशनादिकं अतिघोररूपं तेपे = तप्यते स्म, दिव्यं वर्षसहस्रं यावत् । ततो भीतो = 'महत्तपोऽनेन कृतं मामितो नाकिनिकायनायकपदात् पातयिष्यतीति भावनया भयमुपगतः इन्द्रः = शतमुखः, ततः सुरस्त्रियः = नाकिनितम्बिनीस्तिलोत्तमाप्रमुखाः क्षोभाय = क्षोभणनिमित्तं तस्य = इह सम्बन्धात्तस्य ऋषेः प्रेषयामास = स्वर्गात्तत्राटव्यां प्रेषितवान् । ताश्च = तत्तपस्तेजसा तद्वनप्रवेशं कर्तुमशक्नुवत्यो वनाद् बहिस्तदभिमुखकृतविकसितकुसुमप्रकरा मस्तकन्यस्तहस्तकुड्मलसम्पुटमतिप्रणत्य तद्गतगुणगानप्रधाननृत्यप्रबन्धं विदधुः। ततोऽसौ तदाक्षिप्तान्तःकरणश्चित्रलिखित इव बभूव । ततस्तास्तत्समीपमुपजग्मुः। आगत्य च = समीपीभूय च ताः = सुरस्त्रियः तकं = ऋषिम् ।। विनयेन = विविधचाटुवचनाञ्जलिकरणपादपतनादिना समाराध्य = प्रसन्नमानसं विधाय वरस्य = अभिलषितार्थस्य दानं = वरदानं तस्य अभिमुखः प्रवो = वरदाभिमुखः तं स्थितं = सञ्जातं जगुः = नानाविधशपथदानपुरस्सरमुक्तवत्यः यदुत मद्यं = शीधु तथेति समुच्चये हिंसां = प्राणिवधं सेवस्व = भजस्व, अब्रह्म वा = मैथुनं वा, वाशब्दो विकल्पार्थः, इच्छया = इष्ट्या, यदेतेषु त्रिषु तुभ्यं रोचते तदित्यर्थः ।। स = ऋषिः एवं = अनेन प्रकारेण गदितः = अभिहितः ताभिः = सुरस्त्रीभिः द्वयोः हिंसाऽब्रह्मणोः नरकहेतुतां = निरयनिबन्धनतां आलोच्य = स्वशास्त्रानुसारेण निश्चित्य, तथा मद्यरूपं = मदिरास्वभावं चशब्द: आलोच्येतिक्रियानुकर्षणार्थः, किंविधमित्याह शुद्धानि = निर्दोषाणि, कारणानि निमित्तानि गुङधातकीजलप्रभृतीनि, पूर्व मद्यावस्थायाः प्राक्काले यस्य तत्तथा ।। ततः मद्यं = मदिरां प्रपद्य = तत् पास्यामीत्यङ्गीकृत्य तस्य विचित्रचित्रमणिखण्डमण्डिततपनीयभाजनन्यस्तस्य सौरभ्यातिशयसमाकृष्टषट्पदपटलावनद्धगगनमण्डलस्य करणषट्चरणचक्रलाम्पट्यप्रकृष्टताकारकस्य ताभिः ससम्भ्रममुपनीतस्य
જ મધપાનથી સંન્યાસી ભ્રષ્ટ છે. પુરાણની કથાઓમાં પણ દારૂના મોટા દોષ સંભળાય છે. જેમ કે કહેલ છે કે “કોઈક ઋષિ ઉગ્ર તપ કરતા હતા. ત્યારે “તપના પ્રભાવથી મારું ઈન્દ્રાસન આ તપસ્વી નહિ લઈ લે ને ?' આવી શંકાથી ભયભીત થયેલા ઈન્દ્રએ તપસ્વીના ક્ષોભ માટે અપ્સરાઓ મોકલી. તે અપ્સરાઓ ઋષિ પાસે આવીને વિનયપૂર્વક ઋષિની આરાધના કરીને તેમને પ્રસન્ન કર્યા. વરદાન આપવાને અભિમુખ થયેલા ઋષિને અપ્સરાઓએ કહ્યું કે તમે દારૂ પીવો, જીવહિંસા કરો અથવા ઈચ્છા અનુસાર મૈથુનનું સેવન કરો.” આ પ્રમાણે અપ્સરાઓ દ્વારા કહેવાયેલા ઋષિ જીવહિંસા અને અબ્રહ્મસેવનને નરકનું કારણ જાણીને તથા દારૂને પાણી-ગોળ વગેરે શુદ્ધ દ્રવ્યમાંથી તૈયાર થતો જાણીને દારૂ પીવા તૈયાર થયા. દારૂ પીવાથી નશાના લીધે સંન્યાસધર્મની મર્યાદાનો તેણે લોપ १. हस्तादर्श 'मद्यस्य अपि दु..' इति पाठान्तरम् । २. हस्तादर्श 'तपस्तपे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'जगम..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org