________________
४९२ • मद्यपानदोषषोडशकोपदर्शनम् •
द्वात्रिंशिका-७/१७ मद्यं नाम प्रचुरकलहं निर्गुणं नष्टधर्मं निर्मर्यादं विनयरहितं नित्यदोषं तथैव ।। निस्साराणां हृदयदहनं निर्मितं केन पुंसा ? शीघ्रं पीत्वा ज्वलितकुलिशो याति शक्रोऽपि नाशम् ।।
“१वैरूप्यं २व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, ५विद्वेषो ज्ञाननाशः "स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । १°पारुष्यं ११नीचसेवा १२कुलबलतुलना३ धर्मकामार्थहानिः१४-१५-१६,
कष्टं भोः षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ।।” 6 (निशीथचूर्णी-१३१तमगाथायां उद्धृतौ) इति। मूषाभिषिक्तताम्रन्यायेन मद्यस्य चित्तदूषकता ज्ञेया। मूषा = अन्तःसुषिरा मृत्प्रतिमा । यथाऽग्निसम्पर्काद् द्रवीभूतं तानं मूषायां निक्षिप्तं सत् तन्निभं जायते तथा चित्तमपि भ्रम्यादिजनकमा व्याप्नुवत् सत् तन्निभं = तदाकारमुपजायते ।
अत एव सुभाषितरत्नसन्दोहे अमितगतिना अपि → कलहमातनुते मदिरावशः तमिह येन निरस्यति जीवितम् । वृषमयास्यति सञ्चिनुते मलं धनमपैति जनैः परिभूयते ।। - (सु.रत्न. ५२९) इत्युक्तम् । तदुक्तं वसुनन्दिना अपि श्रावकाचारे → मज्जेण णरो अवसो कुणइ कम्माणि शिंदणिज्जाइं । इहलोए परलोए अणुहवइ अणंतयं दुक्खं ।। - (श्रा.आ.७०) इत्युक्तम् । तदुक्तं हरिवंशपुराणे अपि → को न वा पतति वारुणीप्रियः - (ह.पु.६३/२०) इति । ___ यथोक्तं ग्रन्थकृतापि वैराग्यकल्पलतायां → मद्यं मूलमवद्यानां, मद्यं पुण्यद्रुमानलः । मद्यं सद्गुणपुष्पाणां, म्लानावातपसंज्वरः ।। (वै.क.स्त. ५/८४१) इति । ___ बौद्धानामपि नेष्टमिदम् । तदुक्तं सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे → छ खोमे गहपतिपुत्त! आदीनवा सुरामेरयमज्जप्पमादट्ठानानुयोगे। (१) सन्दिट्ठिका धनजानि (२) कलहप्पवड्ढनी (३) रागानं आयतनं (४) अकिनिसञ्जननी (५) कोपीननिदंसनी (६) पाय दुब्बलिकरणीत्वेव छठें पदं भवति 6 (दी.नि. ३/८/२४८) इति। आदीनवा = दुष्परिणामाः, सन्दिविका =तात्कालिकी, धनजानि = धनहानिः, कोपीनदिंसनी = लज्जानाशनी, पाय = प्रज्ञायाः, शिष्टं स्पष्टम् ।
तदुक्तं धम्मपदे अपि → यो प्राणमतिपातेति मुसावादं च भासति । लोके अदिन्नं आदीयंति परदारं च गच्छति ।। सुरामेरयपानं च यो नरो, अनुयुज्जति । इधेऽव मेसो लोकेस्मिं, मूलं खणति अत्तनो ।।
6 (ध.प.१२-१३,पृ.३८) इति । तदुक्तं आपस्तम्बधर्मसूत्रे → सर्वं मद्यमपेयम् - (आ.ध. १/५/२१-पृष्ठ-१२४) इति । तदुक्तं वाल्मीकिरामायणे अपि → पानादर्थश्च कामश्च धर्मश्च परिहीयते 6 (वा.रा.३३/४६) इति । तदुक्तं चरकसंहितायां चरकसमज्ञायां अपि → मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः । सोन्माद-मद-मूर्छाद्याः सापस्माराऽपतानकाः ।। 6 (च.सं.२४/५७, च.स.अध्याय२५/५४) इति । अष्टकप्रकरणे अप्यग्रे → किं वेह बहुनोक्तेन प्रत्यक्षेणैव दृश्यते । दोषोऽस्य वर्तमानेऽपि तथाभण्डनलक्षणः ।। ( (अ.प्र.१९/२) इत्युक्तम्। → मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः । जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ।। - (म.भा.शांति.११०/२३) इति महाभारतवचनमप्यत्र स्मर्तव्यम् । 'कश्चिदृषिरि'त्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org