________________
• पलप्राशनस्याऽऽपवादिकत्वप्रतिक्षेपः •
४८९ किञ्चोत्सर्गतो निषिद्धं पुष्टाऽऽलम्बनसमावेशेन क्वचित्कदाचित्कस्यचिद् गुणावहमपि स्वरूपतो' दुष्टतां न परित्यजति यथा वैद्यकनिषिद्धं स्वेदकर्म ज्वराऽपनयनाय विधीयमानम् । नामभक्ष्यत्वमुक्तं तत्तु अज्ञानविलसितम्, मांसमात्रस्याऽभक्ष्यत्वात् । तदुक्तं सुभाषितरत्नसन्दोहे अमितगतिना अपि → वरं विषं भक्षितमुग्रदोषं यदेकवारं कुरुतेऽसुनाशम् । मांसं महादुःखमनेकवारं ददाति जग्धं मनसाऽपि पुंसाम् ।। (सु.रत्न. ५३८) इत्यादि । → एकोऽब्दशतमश्वेन यजेत पशुना द्विजः । नान्यस्तु मांसमश्नाति स्वर्गप्राप्तिस्तयोस्समा ।। - (बृ.परा.६/३३१) इत्यादि बृहत्पराशरस्मृतितात्पर्यमपि वैधहिंसात्यागे एवावगन्तव्यम् । प्रकृते → मद्य-मांसाशनासङ्गर्यो धर्मः कौलसम्मतः । केवलं नरकायैव न स कार्यो विवेकिभिः ।। (ना.सं.१/१३) इति नारदसंहितावचनमप्यत्र न विस्मर्तव्यम् । → यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ।। 6 (मनु.५/३८) इति मनुस्मृतिवचनमपि पशुहिंसाया अतिदुष्टतामेव व्यनक्ति । एतेन वैधवधस्याऽऽपवादिकत्वकल्पनाऽपि परास्ता अन्यार्थत्वेन तदसम्भवात् । तथाहि - यमेवार्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते तमेवार्थमाश्रित्याऽपवादः प्रवर्तते, तयोमिथः सापेक्षत्वेनैकार्थसाधनविषयत्वात् । प्रकृते हिंसानिषेधस्य दुर्गतिनिषेधार्थत्वं वैदिकहिंसायास्तु स्वर्गाऽतिथिप्रीत्याद्यर्थत्वमिति न तस्या आपवादिकताऽपि सम्भवति, 'नोत्सृष्टमन्यार्थमपोद्यते चेति (अन्य. द्वा.११) इति अन्ययोगव्यवच्छेदद्वात्रिंशिकावचनादिति प्राग् (द्वा.द्वा. ७/७/पृष्ठ ४५८) उक्तमेव । अत एव हिंसाविधायकवेद-स्मृत्यादिवचनानां छेदाशुद्धिरपि द्रष्टव्या। तदुक्तं अध्यात्मोपनिषदि → अन्यार्थं किञ्चिदुत्सृष्टं यत्रान्यार्थमपोद्यते । दुर्विधिप्रतिषेधं तत् न शास्त्रं छेदशुद्धिमत् ।। - (१/३३) इति । यथा. चैतत्तत्त्वं तथा व्युत्पादितमस्माभिः अध्यात्मवैशारद्यां तट्टीकायाम् ।
किञ्चोत्सर्गतो निषिद्धं गत्यन्तरविरहे एव पुष्टालम्बनसमावेशेन क्वचित् = कुत्रचिदेव कदाचित् = कदाचिदेव विधीयते, न त्वेवमेव । प्रकृते च नैवमस्ति गायत्रीमन्त्रजप-पवित्रसुवर्णदानादिमात्रेणाऽप्यभ्युदयसम्भवात्, तथापि कृपणपशुगणव्यपरोपणसमुत्थमांसदानविधानं तु केवलं निपुणत्वमेव व्यनक्ति जैमिनीयानामिति व्यक्तं स्याद्वादमञ्जर्याम् (अ.व्य.११ वृ.)। किञ्च तादृशं कस्यचित् पुरुषस्य गुणावहमपि स्वरूपतः = स्वभावतः दुष्टतां न = नैव परित्यजति यथा वैद्यकनिषिद्धं स्वेदकर्म ज्वरापनयनाय विधीयमानमिति । अयमाशयः यन्निमित्तत्वेन यत्प्रसिद्धं तत् फलान्तरार्थित्वेन विधीयमानमौ
આપવાદિક પ્રવૃત્તિ પણ સદોષ છે किञ्चो. । qणी, उत्सथानो निषे५ ४२वामा मावेल. डोय ते ४ वस्तुनु अगवान 5 કારણને વશ ક્યાંક ક્યારેક સેવન કરવાથી કોઈક વ્યક્તિવિશેષને લાભ થવા છતાં તે નિષિદ્ધ વસ્તુ સ્વરૂપથી દોષગ્રસ્તતાનો ત્યાગ કરતી નથી. જેમ કે વૈદ્યશાસ્ત્રમાં ઉત્સર્ગથી સ્વેદકર્મ = પરસેવો થાય તેવી ક્રિયા નિષિદ્ધ છે. છતાં તાવ દૂર કરવા માટે પરસેવો થાય તેવી ચિકિત્સા કરવામાં આવે છે. પરંતુ તાવને દૂર કરવાનો ફાયદો કરવા માત્રથી પરસેવો થાય તેવી ક્રિયા કાંઈ સ્વરૂપથી નિર્દોષ બની જતી નથી. Low B.P. २वानुं दूष! तो तेनाथी थाय ४ छे. माटे Low B.P. ४२वाना नु:शान २di ता तारको વગેરે ફાયદા વધુ લાભકારી જણાય તો જ પરસેવો થાય તેવી ચિકિત્સાક્રિયા કરવામાં આવે. અન્યથા १. मुद्रितप्रतौ 'स्वरुपतोऽदुष्टतां' इति पाठः । स चाऽशुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org